Book Title: Achar Dinkar
Author(s): Vardhmansuri,
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
View full book text
________________
चार
नकरः
१७०॥
Jain Education
इति करणीयाई द्रव्यप्रायश्चित्तं संपूर्णम् ॥ ॥ भेषजार्थ च गुर्वादिनिग्रहे परबन्धने । महत्तराभियोगे च तथा प्राणातिभञ्जने ॥ ३५ ॥ यद्यस्य गोत्रे नो भक्ष्यं न पेयं क्वापि जायते । तद्भक्षणे कृते शुद्धिरुपवासत्रयान्मता ॥ ३६ ॥ अन्यद्विजाशनं भुक्त्वा पूर्वाह्नाच्छुद्ध यति द्विजः । शुद्धयत्येकान्नभोजी च भुक्त्वा च क्षत्रियाशनम् ॥ ३७ ॥ वैश्यानं पुनर्भुक्त्वा शुद्धः स्यादुपवासकृत् । शूद्रान्नभोजनाच्छुद्धिस्तस्यानशनपञ्चकात् ॥ ३८ ॥ कारुभोजनतः शुद्धिर्दशानशनतो ध्रुवम् । क्षत्रियश्चैव शूद्रान्नं भुक्त्वा प्रायेण शुद्धयति ।। ३९ ।। वैश्यस्तु शूद्रकार्वन्नं भुक्त्वा चाम्लेन शुद्धयति । शूद्रश्व कारुकान्नादः शुद्धः पूर्वाहृतो भवेत् ॥ ४० ॥ म्लेच्छस्पृष्टान्न भोगे च शुद्धिः स्यादुपवासतः । अन्यगोत्रे सूतकान्नं भुक्त्वा शुद्धिस्तथैव हि ॥ ४१ ॥ ब्रह्मस्त्री भ्रूणगो साधुघातिनामन्न भोजनात् । दशोपवासतः शुद्धिं कथयन्ति पुरातनाः ॥ ४२ ॥ आहारमध्ये जीवानं दृष्ट्वानं तत्तदेव हि । भोक्तव्यमेकभक्तेन द्वितीयेहनि शुद्धयति ||४३|| एवं भोजनकाले च श्वमार्जाररजस्वलाः । स्पृष्ट्वा चर्मास्थ्यन्यजातीन् शुद्धिर्जीवाङ्गवद्भवेत् ॥ ४४ ॥ इति तपोद्रव्यप्रायश्चित्तं संपूर्णम् ॥ ॥ यतिभिश्व विरोधाच सौहदात्पापकारिभिः । सम्बन्धिन्यादि संभोगात्प्रमादात्साधुनिन्दनात् ॥ ४५ ॥ सत्यां विपुलशक्तौ च दीनायप्रतिपालनात् । शरणागतजन्तूनां सत्यां शक्तावरक्षणात् ||४६|| निन्द्यकर्मकृतेश्चैव गुर्वाज्ञालङ्घनादपि । पितृमातॄणां संतापातीर्थमार्गनिवर्तनात् ॥ ४७ ॥ शुद्धधर्मापहासाच्च हास्यार्थ परकोपनात् । इत्यादिदोषात्संशुद्विनादेव हि जायते ॥ ४८ ॥ तत्संपश्यनुसारेण व्यलीकानुमतेरुपि । गुरवो विप्रसाधुभ्यो दापयन्ति तदर्प
For Private & Personal Use Only
rational
॥२७०॥
www.jainelibrary.org

Page Navigation
1 ... 561 562 563 564 565 566