Book Title: Achar Dinkar
Author(s): Vardhmansuri,
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
View full book text
________________
आ. दि. ४३ RAS
नीयं । यदुक्तम्....."जह बालो जंपन्तो कज्जमकज्जं च साहए सव्वं । तह आलोअणकाले आलोइज्जा गुरुपुरओ ॥१॥” ततो गुरुः सर्वदुष्कृतमवधार्य श्रुतानुगामी स्वमत्यनुसारेण तद्दुः कृतानुसारेण च तदुचितं तपः कायोत्सर्गप्रतिक्रमणादिकं दशविधं प्रायश्चित्तानुचरणमनुजानीयात् । तद्दशविधं प्रायश्चित्तानुचरणं यथागमं यथागुरुवचनं कथ्यते । यथा - " पूर्वमालोचना चैव १ प्रतिक्रमणमेव च २ । उभयं च तृतीयं स्यात् ३ विवेकश्च चतुर्थकः ४ ॥१॥ कायोत्सर्गः पञ्चमः स्यात् ५ तपः षष्टमुदाहृनम् ६ । छन्दस्तु सप्तमो ज्ञेयो ७ मूलमष्टममादिशेत् ८ ||२|| अनवस्था च नवमं ९ दशमं च पाराञ्चिकम् १० । एवं दशविधा ज्ञेया प्रायश्चित्तस्य योजना ||३|| || आलोचना प्रायश्चित्तं यथा - "करणीयाश्च ये योगा मूलोत्तरगुणादयः । साधोस्तेषूपयुक्तस्य शुद्धिरालोचना मता ||४|| निरन्तरातिचारस्य छद्मस्थस्यापि योगिनः आलोचनां विना शुद्धिर्जायते न कदाचन ॥ ५ ॥ ग्रहणे भोजनादीनां धर्मागाराच निर्गमे । उच्चारभूमिगमने विहारे चैत्यवन्दने ॥ ६ ॥ अन्याश्रमस्थानां चैव साधुनामभिवादने । तद्गृहे च गृहस्थादेः प्रत्याख्यानविधाने ||७|| गुर्वादेशाद्गृहस्थानां गृहाने प्रयोजनात् । राजादीनां च संलापेऽन्यस्मिन्कार्ये शुभेपि वा ||८|| वहिर्हस्तशताक्लृप्ते बुधैरालोचना मता । विशुद्धाचारयुक्तोपि निर्मलं संयमं श्रितः ॥ ९ ॥ व्रतगुप्ति समित्यादिनिः शेषपरिपालकः । निर्दोष व्रतयदि नालोचनाकरः ॥ १०॥ नैव शुद्धं व्रतं तस्य कदाचिदपि जायते । तस्माद्धस्तशताद्वाह्य कृते कार्ये शुभेपि वा ॥ ११ ॥ आलोचना विधातव्या भैक्षान्नकरणादिकाः । आलोचयति भिक्षायां दानं देयं समाश्रि
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566