Book Title: Achar Dinkar
Author(s): Vardhmansuri, 
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad

View full book text
Previous | Next

Page 539
________________ आचारदिनकर ॥२५८॥ देयं तथाविधम् ॥ ८६ ॥ अत्यन्तहीनस्य पुनस्तपस्त्यागं विनिर्दिशेत् । ये च पालितचारित्रा अज्ञातार्थास्तथाऽसहः ।।८७॥ तेषां च प्रतिनं देयं विरसादिविमाजितम् । यदेतच्च तपःकर्म प्रायश्चित्ते पुरोदितम् ॥ ८८ ॥ एतत्प्रमादयुक्तस्य सर्व देयं मनीषिभिः । दर्पमुक्तस्य च स्थानान्तरं किंचिद्विशेषतः ॥ ८९ ॥ आवृत्तिभाजः किंचिच्चाधिकं किंचिच्च दर्पवत् । प्रतिक्रमणमाख्येयं कल्पे तदुभयं च वा ॥९०॥ प्रमादोऽनवधानत्वं दर्परूपबलादिकः । आवृत्तिकार्यकाक्षित्वं कल्प आचारसंश्रयः॥९१ ॥ एतासु कर्मबन्धः स्यात्सेवनासु चतसृषु । पूर्वोक्तविधिना देयं प्रायश्चित्तं च तास्वपि ॥९२॥ आलोचनायाः कालं च ज्ञात्वा क्लेशादिशुद्धितः। हीनाधिकं च मध्यं च ददीत तदपेक्षया ॥९३॥ द्रव्यादिगुणबाहुल्ये प्रायश्चित्तं बहदितम् । तद्धीनत्वे तेष्वहीनं स्यागमत्यन्तहीनके ॥ १४ ॥ सर्वहीनं पुनः कर्म कुर्यादन्यत्तपः समम् । वैयावृत्यादिकरणं सुसाधूपासनं तथा ॥ ९५॥” इति तपोर्ट प्रायश्चित्तं संपूर्णम् ॥ अथ छेदाई यथा-"तपसा गर्वितः कश्चिदसमर्थस्तपस्यथ । अश्रद्दधानस्तपसि तपसा यो न दम्यते ॥१॥ अत्यन्तपरिणामश्च गुणभ्रंशिकृतादरः । प्रपद्यमानश्छेदे च पावस्थादिवितापितः ॥२॥ तपोभूमिमतिक्रान्त्वा सच्छेदं प्रतिपद्यता । तेन चाजन्मपर्यन्तं विधेयं विरसादिकम् ॥ ३॥ यदारब्धमाद्यदिन आमृत्यु तदुपासनम् । छेदाहमिति गीतार्थैः प्रायश्चित्तमुदीर्यते ॥ ४ ॥” इति च्छेदाई प्रायश्चित्तं संपूर्णम् ॥ ॥ अथ मूलाई यथा-"पञ्चेन्द्रियाणामावृत्ते_ते दर्पाच मैथुने । समस्तविषयाणां च गात्सिंततसेवने ॥ ॥ मूलोत्तरगु ॥२५॥ Jain Education Enternal For Private & Personal Use Only Dms.jainelibrary.org

Loading...

Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566