Book Title: Achar Dinkar
Author(s): Vardhmansuri,
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
View full book text
________________
आचार
दिनकरः
॥२६६॥
Jain Education
T
भावतोऽभिग्रहं किंचित्सत्यां शक्तावगृहतः । तथा खण्डयतश्चापि पूर्वार्ध शुद्धिहेतवे ॥ ३४ ॥ नियमे सति देवार्चावन्दनादेरनिर्मितौ । पूर्वार्ध गुरुपादानां ध्वान्ते पादादिघट्टने ॥ ३५ ॥ आशातने तथान्यस्मिञ्जघन्ये लघुरिष्यते । मध्यमे परमं शीतमुत्कृष्टं च प्रदश्यते || ३६ || अस्थापितस्थापनायां पादस्पर्शे तु निर्मदः । स्थापितस्थापनाचार्यपाद हे विलम्बकः ||३७|| पातने स्थापनार्यस्य तस्य चैव प्रणाशने । तत्क्रियाया अकरणे क्रमाच्छान्तो रसो लघुः ||३८|| व्रतिनामासनादाने मुखवस्त्रादिसंग्रहे । अम्बुपाने न्नाशने च क्रमाच्छोधनामादिशेत् ॥ ३९ ॥ पूतं पूतमरोगं च सजलं मुनिसत्तमः । नियमे सति साधूनामप्रणामे विलम्बकः ||४०|| गुरुद्रव्ये च वस्त्रे च द्रव्ये साधारणेपि च । उपभुक्ते तदधिकं देयं विनयपूर्वकम् ॥ ४१ ॥ देवद्रव्यजलाहारपरिभोगे कृते सति । देवकार्ये तदधिकं द्रविणं व्ययमानयेत् ॥ ४२ ॥ देवद्रव्यस्य भोगेऽन्ते मध्य उत्कृष्ट एव च । क्रमाद्विशोधनं शीतं धर्मो भद्रमुदाहरेत् ॥ ४३ ॥ जीवाम्बुशोषे ग्राह्यं स्यात्पीलिकामर्कटादिकान् । उपजिहादिकान्हत्वा बहून्प्रत्येकमाचरेत् ॥ ४४ ॥ आदेयं स्तोकघाते तु स्तोकं तप उदाहृतम् । एकवारमपूताम्बु पाने भद्रं विशोधनम् ॥ ४५ ॥ पात्रस्थिते पुनर्भक्तं स्थाने पानेऽप्यसंख्यके । सुन्दरं चापि भूयिष्ठं ग्राह्यं पापविशुद्धये ||४६ || मृषावादे जघन्ये तु मध्यमे परमे क्रमात् । पूर्वार्ध सजलं ग्राह्यमुत्कृष्टे सर्वदेहिनाम् ॥४७॥ प्रत्यक्षं निधिलाभादिदोषदाने गुरुस्ततः । विरसं लघु चाधाय शुध्यते श्रावकः परम् ॥ ४८ ॥ स्तेये जघन्ये पूर्वार्ध मध्यमे स्वगृहे कृते । अज्ञाते परमं कुर्याद्गृहे ज्ञाते गुरुं पुनः ॥ ४९ ॥ अन्तिमं ज्ञात उत्कृष्टे ज्ञाते कल
For Private & Personal Use Only
॥२६६॥
ww.jainelibrary.org

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566