Book Title: Achar Dinkar
Author(s): Vardhmansuri,
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
View full book text
________________
गुमः । आलस्येनोपविष्टश्चत्प्रतिक्रमति कहिचित् ॥८३॥ तदाम्लमावश्यके च प्रायश्चित्तं गृहैषिणाम् । मतान्तरे मृषावादे जघन्य मध्यमेऽधिके ।। ८४॥ क्रमाच्छीतमनाहार उपवासशतं तथा । स्तेये जघन्ये निःपापमज्ञाते मध्यमे हितम् ॥ ८५ ॥ ज्ञाते ग्राह्य तथोत्कृष्टेऽज्ञाते ग्राह्य सुखान्वितम् । मैयुने प्रवजितया गृहिणो मृलमादिशेत् ॥८६॥ परसंग्रहणीभोगे नीचान्यस्त्रीरतेपि च । गुप्ते परस्त्रीभोगेच मुक्तं भवति मुक्तये ॥८७।। अज्ञाते द्वादश ग्राह्या ज्ञाते मूलं समादिशेत् । परिग्रहातिक्रमे चाज्ञानतो विदुरुत्तमम् ॥ ८८ ॥ दशदिक्षु | दिग्विरतिभानेऽप्येवमेव हि । जानन्नपि हि सर्व यो व्रतं दोन्निकृन्तति ॥ ८९ ॥ तस्येव शुद्धये प्रोक्ताः प्रत्येकं द्वादशान्तिमाः । प्रायश्चित्तविधिश्चायं श्राद्धानामुपदर्शितः॥९०॥ यतिश्रावकवर्गस्य प्रायश्चित्तं विशुद्विदम् । व्यवहारजीतकल्पं यथाशोधि पदादपि ॥११॥ पटोयं लिखितो वीक्ष्य शिष्यैः स्वपरहेतवे । श्रीय शोभद्रसरोणां श्रीपृथ्वीचन्द्रमूरिभिः ॥९२॥ इति व्यवहारजीतकल्पक्रमेण यतिप्रायकवायश्चित्तविधिः ॥
अथ प्रकीर्णप्रायश्चित्तं भावप्रायश्चित्तं व ॥ प्रायश्चित्तविधि चान्ययुक्त्या बमोऽथ निर्मलम् । शोधना विविधाः पापविधानस्यानुमानतः ॥१॥ आवृत्त्या च प्रमादेन दर्पकल्पद्वयेन च । पापानुबन्धबद्धस्य परिणामा अनेकधा ॥ २ ॥ एकादिषु दशान्तेषु हतेषु विकलेषु च। एकादिकदशान्तं स्यात्प्रायश्चित्तं ससंख्यकम् ॥३॥ ततः परं बहनां च विघाते चानुमानतः। प्रायश्चित्तं पिण्डितं स्यादेकमेव न चापरम् ॥ ४॥ एवं दृढतानां च दृढदेहभृतामपि । प्रायश्चित्त बहुतरं देयं शास्त्रानुसारतः॥५॥ मध्येषु मध्यम चव जघन्येषु जघन्यकम् ।
-
-
-
aniainelibrary.org
Jain Education
For Private & Personal Use Only
-

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566