Book Title: Achar Dinkar
Author(s): Vardhmansuri,
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
View full book text
________________
Jain E3
हकर्मणि । ग्राह्यं विधाय लक्षं च मन्त्रं शुद्धमना जपेत् ॥ ५० ॥ दर्पेण सर्वचौर्येषु जघन्येष्यपि चान्तिमम् । तुर्यते स्वदारेषु वेश्यासु नियमक्षयात् ॥ ५१ ॥ सुन्दरं परदारे च हीने ज्ञाते तथान्तिमम् । ज्ञाते लक्षं मन्त्रजापो ग्रायुक्तो विधीयते ॥ ५२ ॥ उत्तमे परदारे च ज्ञाने ग्राह्यसमन्वितः । लक्षं साशीतिसाहस्रं मन्त्रजापो विधीयते ॥ ५३॥ ज्ञाते तत्रैव मूलं स्यादथ स्मरणतः पुनः । वेषासु पुण्यं भार्यायामुपवासो विशोधनम् ॥५४॥ जानतः स्वकलत्रेपि स्मरणादन्तिमं विदुः । आलापभेदतो नार्यां स्वस्त्री भ्रान्तेस्तथान्तिमम् ॥५५॥ स्त्री चेलं वितनुते तदा ग्राह्यं समादिशेत् । कियत्कालं गृहीतायां स्त्रियां भङ्गे सुखं वदेत् ॥ ५६ ॥ उत्तमे तु कलत्रेपि भङ्गे मूले समागते । देयं प्रसिद्धपात्रस्य ग्राह्यं मूलं न कुत्रचित् ॥ ५७॥ परिग्रहे व्रते भग्ने हीने मध्येऽधिकेऽथवा । क्रमादरोगकामघ्नं धर्मश्चापि विशोधनम् ॥५८॥ दर्पाद्भग्ने व्रते तस्मिन्नन्तिमं प्राहुरन्यथा । लक्षं साशीतिसहस्रं मन्त्रजापं समादिशेत् ॥ ५९ ॥ पञ्चाणुव्रत भङ्गेषु स्वप्नतश्च कदाचन । कायोत्सर्गा वेदसंख्यैः सचतुर्विंशतिस्तवैः ||३०|| दिग्वतभ्रंशने चैव भोगव्रतविखण्डने । रात्रिभोजननिर्माणे निःपापः पापमर्षणः || ६१ || नवनीतसुरामांसमधुभक्षणतो मदात् । प्रत्येकमन्तिमाच्छुद्धिर्नवनीते न भेषजे ॥ ६२ ॥ क्षौद्रं च भुक्त्वा परममनाभोगात्सुरालये । अनन्तकार्य भुक्त्वा च तथोदुम्बरपञ्चकम् || ६३ ॥ भुक्त्वा निःपातः शुद्धिः प्रत्येकवन भोगतः । शुद्धिः सजलतो ज्ञेया प्रोक्तमेवं सुसाधुभिः ||६४|| सचिन्तद्रव्य वस्त्रान्नशय्यादीनां चतुर्दश । नियमाभङ्गतस्तेषां प्रत्येकमरसं लघु ॥ ६५ ॥ सचित्तवर्जकस्यापि प्रत्येकाप्रादिभक्षणे । सजलं पञ्च
For Private & Personal Use Only
v.jainelibrary.org

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566