Book Title: Achar Dinkar
Author(s): Vardhmansuri,
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
View full book text
________________
Jain Education
प्राप्ते विस्मृतः प्रतिलेखने ॥ १०१ ॥ परैर्निवेदिते वापि जघन्ये विरसं विदुः । मध्यमे पितृकालश्च शान्तमुस्कृष्ट एव च ।। १०२ ।। सर्वोपधौ च पतिते लब्धे मन्त्रजपः स्मृतः । अश्वेन्दुवेद ४१२ संख्यातस्ततः शुद्धिः प्रजायते ॥ १०३ ॥ जघन्ये चोपधौ किंचिद्विस्मृतः प्रतिलेखने। कामघ्नं शोधनं प्रोक्तं धर्मे धौते च हारिते ॥ १०४ ॥ मध्यमे चोपधौ धौते हारिते शीतमादिशेत् । उत्कृष्टे हारिते धौते शोषणे धर्म एव च ।। १०५ ।। सर्वोपधौ हारिते च गुरोर निवेदिते । उच्छृङ्खले च शुद्धौ स्यात्पुण्यं मुनिभिरादृतम् ॥ १०६ ॥ उपधिस्तु जघन्यः स्याद्गुच्छकः पात्रकेसरी । पात्रस्य स्थापनं चैव मुखवस्त्रं चतुर्थकम् ॥ १०७ ॥ मध्यमश्चोपधिः प्रोक्तः पटलाः पात्रबन्धनम् । रजोहतिचोलपट्टो रजस्त्राणं च मात्रकम् ॥ १०८ ॥ उत्कृष्टश्चोपधिः पात्रं द्वौ कल्पौ सूत्रसंभवौ । एक ऊर्णामयश्चैवमुपधेः कल्पनां विदुः ।। १०९ ।। सर्वोपधौ च वर्षासु धौते ग्राह्यं विशुद्धये । अदत्ते गुरुणा भुक्ते दन्तेऽन्येभ्यः सुखं वदेत् ॥ ११० ॥ मुखवस्त्रेप्य संघट्टे तथा धर्मध्वजेपि च । शुद्धये विरसः कैश्चिदनाहार उदाहृतः ॥ १११ ॥ अलब्धेऽप्यथ लब्धे वा हारिते मुखवाससि । उपवासः परं शुद्धयै सूरिभिः समुदाहृतः ॥ १२ ॥ धर्मध्वजे हारिते च न प्राप्ते सुखमिष्यते । धर्मध्वजाननसिचोरेवं तप उदीरितम् ॥ ११३ ॥ नष्टयोश्च द्वयोः प्राप्तौ निःपापः शुद्धिहेतवे । अप्राप्तौ च द्वयोः कार्य पुण्यमेव मनीषिभिः ॥ ११४॥ मुखवस्त्राप्र तिलेखे यतिकर्म समाचरेत् । धर्मध्वजाप्रतिलेखे पितृकालो विशोधनम् ।। ११५ ।। अकृते घस्रचरमप्रत्याख्याने च निर्मदम् । प्रत्याख्याने पानलत्के संख्यास्वाध्यायजेऽथवा ॥ ११६ ॥ प्रत्याख्यानेष्यरचिते सुभोजनमपाप
onal
For Private & Personal Use Only
v.jainelibrary.org

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566