Book Title: Achar Dinkar
Author(s): Vardhmansuri,
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
View full book text
________________
न्तस्यानुसारेण क्रमं ज्ञात्वा च पाप्मनाम् । उक्तपापेषूक्ततपो देयं च विरसादिकम् ।। ७२ ॥ एतत्सर्वं यत्पुरोक्तं नत्सामान्यविधिश्रितम् । प्रायश्चित्तविभागस्तु देयो द्रव्यादिभिर्बुधैः । ७३ ॥ द्रव्यं क्षेत्रं तथा कालं भावं परुषसेवनम् । संलक्ष्याधिकमूनं वा प्रायश्चित्तं च दीयते ॥ ७४ ॥ अशनादिर्भवेद्रव्यं क्षेत्रं देशपुरादि वा । कालः शीतोष्णवर्षादि वो ग्लानिनिरामयौ ॥ ७५ ॥ चतुर्धा कथिता शास्त्रे पुरुषप्रतिसेवना। आवृत्तिश्च १ प्रमादश्च २ दर्पः ३ कल्प ४ श्चतुर्थकः ॥७६॥" ॥ द्रव्ये यथा-"आहारं सुलभं पुष्टं दृष्ट्वा दद्यात्तपोधिकं । हीनं च दुर्लभं ज्ञात्वा दद्यादूनं तथाधिकम् ॥ ७७॥" ॥क्षेत्रे यथा - "देशे च सरसारूपे तपोधिकमुदीरयेत् । तथा च निर्जले रूक्षे न्यूनमाहुर्मनीषिणः ॥७८॥ वर्षासु शिशिरे चापि प्रमितं धैर्यदुष्करौ। पूर्वार्धाचाम्लपुण्यान्तमुष्णकाले विनिर्दिशेत् ॥९७।। तस्मिन्नवविधं दृष्ट्वा तपोयोजनमागमे । विदधीत परं काले विभागं तपसां तथा ॥ ८ ॥" ॥ भावे यथा--"दृष्टस्य प्रचुर तीनं तपो दद्यादशङ्कितम् । स्तोकं ग्लानस्य सुकरमथ कालं विलक्षयेत् ॥ ८१॥" ॥ पुरुषप्रतिसेवनायां यथा-"अगीतार्थाश्च गीतार्था अक्षमाश्च क्षमा अपि । अशठाश्च शठाश्चैव दुष्टाः सन्तस्तथाविधाः ॥८२॥ परिणामाश्च वस्तूनां हीनमध्याधिकाः पुनः। कायशक्तिः स्वतश्चापि मध्या हीनाधिका नृणाम् ।।८३॥ निमन्तवो मन्तुमन्तः स्युः केचित्स्वल्पमन्तवः। शल्यस्थिता दयाहा॑श्च चत्वारः पूर्वभाषिताः ॥८४॥ सापेक्षेतरमन्दाश्च पुरुषा ये प्रकीर्तिताः । यः शक्तितिकल्पस्थस्तथा सर्वगुणैर्युतः ॥८५॥ अधिकं च तपाकर्म तस्य देयं विचक्षणः । तथा हीन गुणस्यापि हीनं
Jain Educatio
n
al
For Private & Personal Use Only
Emw.jainelibrary.org

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566