Book Title: Achar Dinkar
Author(s): Vardhmansuri, 
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad

View full book text
Previous | Next

Page 536
________________ म्रक्षिते त्रिके ॥४०॥दायकोपिहिते चैव प्रत्येकं च परम्परान् । स्थापिते पिहिते मिश्रेऽनन्तरे च तथाविधः ॥४१॥ शङ्कायां दोषयुक्तायां कालातिक्रम इष्यते । इतरस्थापिते सूक्ष्मे सरजस्के तथा विधिः ॥४२॥ स्निग्धे च म्रक्षिते मिश्रे स्थापिते च परम्परम् । परिष्ठापनिकायां च विरसं प्राहरुत्तमाः॥४३॥ एतेषु सर्वदोषेषु विस्मृतेरप्रतिक्रमात् । पिण्डीभूतेषु कर्तव्यं यतिभिर्धर्ममीहितैः ॥४४॥ धावने लडने चैव संघर्षे सत्वरं गतौ। क्रोडायां कुहनायां च वान्ते गोते स्मितेऽधिके ॥४५॥ परुषे भाषणे चैव प्राणिनां रुत एव च । स्यात्प्रायश्चित्तमेतेषु पथ्यं गीतार्थभाषितम् ॥ ४६॥ त्रिविधस्योपधेभ्रंशे विस्मृते प्रतिलेखने । क्रमाद्मोपने श्रेष्ठं पूर्वार्ध च सुभोजनम् ॥४७॥ एतत्त्रयस्कारणे कामघ्नं प्राहुरादिमाः। गृहीते शोषिते चैव [सु] धौते चोपमण्डले ॥४८॥ दाने भोगे तथाऽदाने क्रमात्तप उदीरितम् । प्राणाधारश्च कामघ्नः पथ्यः पापहरः स्मृतः ॥ ४९ ॥ सर्वेषां चैव करणे पुण्यं प्राहुर्मुनीश्वराः । पतने मुखवस्त्रस्य तथा धर्मध्वजस्य च ॥५॥ विरमश्च तथा पथ्यो नाशे पथ्यो हितस्तयोः । अनाध्याने च कालस्य परिभोगे च विस्मृते ॥५१॥ आये निःस्नेहमादिष्टं द्वितीये धर्म एव च । अविधेरशनादीनां कालातिक्रम इष्यते ॥५२॥ असंवृतौ च प्राणस्य त्रिभूम्यप्रतिलेखने । निमंदं कथयन्तीह सर्वस्यासंवृतावथ ॥ ५३॥ अनादाने तथा भङ्गे कालातिक्रममादिशेत् । तपसां प्रतिमानां चाभिग्रहाणां समानतः ॥५४॥ पक्षे चव चतुर्मासे वत्सरे चाप्रतिक्रमे । क्रमात्त्रिपादकामध्नचतुःपादाः प्रकीर्तिताः॥५५॥ कायोत्सर्गे वन्दने च तथा शक्रस्तवेपि च । उत्सारिते वेगकृते भग्ने ज्ञेयं कमात्तपः॥५६॥ J onal For Private &Personal use only Tww.jainelibrary.org

Loading...

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566