________________
म्रक्षिते त्रिके ॥४०॥दायकोपिहिते चैव प्रत्येकं च परम्परान् । स्थापिते पिहिते मिश्रेऽनन्तरे च तथाविधः ॥४१॥ शङ्कायां दोषयुक्तायां कालातिक्रम इष्यते । इतरस्थापिते सूक्ष्मे सरजस्के तथा विधिः ॥४२॥ स्निग्धे च म्रक्षिते मिश्रे स्थापिते च परम्परम् । परिष्ठापनिकायां च विरसं प्राहरुत्तमाः॥४३॥ एतेषु सर्वदोषेषु विस्मृतेरप्रतिक्रमात् । पिण्डीभूतेषु कर्तव्यं यतिभिर्धर्ममीहितैः ॥४४॥ धावने लडने चैव संघर्षे सत्वरं गतौ। क्रोडायां कुहनायां च वान्ते गोते स्मितेऽधिके ॥४५॥ परुषे भाषणे चैव प्राणिनां रुत एव च । स्यात्प्रायश्चित्तमेतेषु पथ्यं गीतार्थभाषितम् ॥ ४६॥ त्रिविधस्योपधेभ्रंशे विस्मृते प्रतिलेखने । क्रमाद्मोपने श्रेष्ठं पूर्वार्ध च सुभोजनम् ॥४७॥ एतत्त्रयस्कारणे कामघ्नं प्राहुरादिमाः। गृहीते शोषिते चैव [सु] धौते चोपमण्डले ॥४८॥ दाने भोगे तथाऽदाने क्रमात्तप उदीरितम् । प्राणाधारश्च कामघ्नः पथ्यः पापहरः स्मृतः ॥ ४९ ॥ सर्वेषां चैव करणे पुण्यं प्राहुर्मुनीश्वराः । पतने मुखवस्त्रस्य तथा धर्मध्वजस्य च ॥५॥ विरमश्च तथा पथ्यो नाशे पथ्यो हितस्तयोः । अनाध्याने च कालस्य परिभोगे च विस्मृते ॥५१॥ आये निःस्नेहमादिष्टं द्वितीये धर्म एव च । अविधेरशनादीनां कालातिक्रम इष्यते ॥५२॥ असंवृतौ च प्राणस्य त्रिभूम्यप्रतिलेखने । निमंदं कथयन्तीह सर्वस्यासंवृतावथ ॥ ५३॥ अनादाने तथा भङ्गे कालातिक्रममादिशेत् । तपसां प्रतिमानां चाभिग्रहाणां समानतः ॥५४॥ पक्षे चव चतुर्मासे वत्सरे चाप्रतिक्रमे । क्रमात्त्रिपादकामध्नचतुःपादाः प्रकीर्तिताः॥५५॥ कायोत्सर्गे वन्दने च तथा शक्रस्तवेपि च । उत्सारिते वेगकृते भग्ने ज्ञेयं कमात्तपः॥५६॥
J
onal
For Private &Personal use only
Tww.jainelibrary.org