________________
आचारदिनकरः
॥२५६॥
Jain Education In
वैमूलकर्म च १६ । उत्पादनायां पिण्डस्य दोषाः स्युः षोडशाप्यमी ॥ २६ ॥ शङ्कितं १ प्रक्षितं २ चैव निक्षिप्तं ३ पिहितं ४ तथा । संहृतं ५ पादको ६ न्मिश्रे ७ ततश्चापरिमाणकम् ८ ।। २७ ।। लिप्तं ९ चैव परिभ्रष्टं १० दश दोषा उदाहृताः । गृहिसाधूभयभवाः पञ्चाथ ग्रासजाः पुरः ॥ २८ ॥ संयोजना १ प्रमाणं च २ तथाङ्गार ३ धूमकः ४ । कारणं ५ सप्तचत्वारिंशद्दोषाः पिण्डजा अमी ॥ २९ ॥ एतेषां च यथायुक्त्या प्रायश्चित्तमु दाहृतम् । एषणोत्पादना ग्रासोद्गमदोषाः समाः क्वचित् ॥ ३० ॥ कर्मणोद्देशिके चैव तथा च परिवर्तिते । पाखण्डैः स्वग्रहैर्मिश्रैर्वादप्राभृतेऽपि च ।। ३१ ।। सत्प्रत्यवायाहृते च पिण्डे लोभेन चाहते । प्रत्येकानन्तवत्पाचैनिक्षिप्ते पिण्डितेऽथ वा ॥ ३२ ॥ संहृते च तथोन्मिश्रे संयोगाङ्गारयोरपि । द्विविधे च निमित्ते च प्रायश्रितं गुरुः परम् ॥ ३३ ॥ कर्मण्यौद्देशिके मिश्र धात्र्यादौ च प्रकाशने । पुरः पश्चात्संस्तवे च कुत्सिते कर्मणि स्फुटम् ॥ ३४ ॥ संसक्ते पुनरालिप्ते करे पात्रे च कुत्सितैः । परीते चैव निक्षिप्ते पिहिते संहृतेपि च ॥ ३५ ॥ मिश्रिते कुत्सितैरेवमतिमाने प्रमाणके । धूमे दुष्कारणे चैव प्रायश्चित्तं च धातुहृत् ॥ ३६ ॥ कृतेऽध्युपकृते पूतौ परम्परगते तथा । अदनान्ते तथा मित्रेऽनन्तरानन्तरागते ॥ ३७ ॥ एवमादिषु कर्तव्यमेक भक्तमघापहम् | ओघोपकरणात्पूतौ स्थापिते प्राभृतेपि च ।। ३८ ।। उद्देशिके लोकपरे प्रमेये परिवर्तिके । परभावे तथा कीते स्वग्रामादाहृतेपि च ॥ ३९ ॥ मालोपहृतके चादौ जघन्ये दर्दरादिके । चिकित्सायां संस्तवे च सूक्ष्मे च
१ परिवर्तिते इति पाठः ।
For Private & Personal Use Only
॥२५६॥
jainelibrary.org