Book Title: Achar Dinkar
Author(s): Vardhmansuri, 
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad

View full book text
Previous | Next

Page 537
________________ आचार दिनकरः ॥ २५७॥ पूतमध्याह्नपादाख्यं सर्वेषु सजलं पुनः । चरित्राचार आख्यातं प्रायश्चित्तं तपोमयम् ॥ ५७ ॥" ॥ ॥ अथ तप आचारे तपः प्रायश्चित्तं यथा - " संजाते तु तपःस्नाने लध्वम्लपरमाकृतौ । तद्भङ्गे चापरः कार्यो दिवा चाप्रतिलेखिते ।। ५८ ।। व्युत्सृष्टे निशि मूत्रादौ वासरे शयनेपि च । क्रोधे च दीर्घे भीते च सुरभिद्रव्यसेवने ॥५९ ॥ अशने चाssसवादीनां कालातिक्रममादिशेत् । ज्ञातिबन्धनभेदार्थे निवासात्स्वजनालये ॥ ३० ॥ निस्नेहः शेषलोकानामालये च विलम्बकः । एवं च तपआचारे प्रायश्चित्तं विनिर्दिशेत् ॥ ६१ ॥" ॥ ॥ अथ वीर्यातिचारे खण्डिते तपःप्रायश्चित्तं यथा — "निवेशाच प्रमादौघादासने प्रतिलेखिते । तत्कार्य यत्र सवधे प्रायश्चिन्तमुदाहृतम् ।। ६२ ।। अनापृच्छय स्थापने च गुरून्सर्वेषु वस्तुषु । अरसः स्यात्तपः शक्तिगोपनाच सुभोजनम् ॥ ६३ ॥ मुक्तः सर्वासु मायासु दर्पात्पञ्चेन्द्रियादिषु । उद्देजने च संकलिष्टकर्मणां करणेऽपि च ॥ ६४ ॥ दीर्घमेकत्र वासे च ग्लानवत्स्वाङ्गपालने । सर्वोपधयस्तथा पूर्वपश्चाचाप्रतिलेखने ॥ ६५ ॥ एतेषु सर्वदोषेषु चतुर्मासव्यतिक्रमे । वत्सरातिक्रमे चापि साधुभिर्ग्राह्यमिष्यते ॥ ६६ ॥ तथा च छेदरूपेपि प्रायश्चित्ते समाहितः । न गर्व तद्विधानेन दध्याद्वाचंयमः क्वचित् ॥ ६७ ॥ छेदादिकरणाच्छुद्धे प्रायश्चित्ते महामुनिः । कुर्वीत तपसा शुद्धिं जीतकल्पानुसारतः ॥ ६८ ॥ यद्यच नोदितं पापमत्रैवालोचनविधौ । भिन्नादिना प्रवक्ष्यामि षण्मासं शुद्धिमुत्तमाम् ॥ ६९ ॥ भिन्नं चापि विशिष्टं च चतुःषण्मासकालतः । लघुसंज्ञं गुरुसंज्ञं विरसः प्रतिमाश्रयात् ॥ ७० ॥ चतुर्मासेषु लघु यत्पूयै तद्विरसादिभिः । गुरुः षण्मासिकं पूर्व सुन्दरादिभिरन्तराः ॥ ७१ ॥ सिद्धा For Private & Personal Use Only ॥ २५७॥ ww.jainelibrary.org

Loading...

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566