SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ आ. दि. ४३ RAS नीयं । यदुक्तम्....."जह बालो जंपन्तो कज्जमकज्जं च साहए सव्वं । तह आलोअणकाले आलोइज्जा गुरुपुरओ ॥१॥” ततो गुरुः सर्वदुष्कृतमवधार्य श्रुतानुगामी स्वमत्यनुसारेण तद्दुः कृतानुसारेण च तदुचितं तपः कायोत्सर्गप्रतिक्रमणादिकं दशविधं प्रायश्चित्तानुचरणमनुजानीयात् । तद्दशविधं प्रायश्चित्तानुचरणं यथागमं यथागुरुवचनं कथ्यते । यथा - " पूर्वमालोचना चैव १ प्रतिक्रमणमेव च २ । उभयं च तृतीयं स्यात् ३ विवेकश्च चतुर्थकः ४ ॥१॥ कायोत्सर्गः पञ्चमः स्यात् ५ तपः षष्टमुदाहृनम् ६ । छन्दस्तु सप्तमो ज्ञेयो ७ मूलमष्टममादिशेत् ८ ||२|| अनवस्था च नवमं ९ दशमं च पाराञ्चिकम् १० । एवं दशविधा ज्ञेया प्रायश्चित्तस्य योजना ||३|| || आलोचना प्रायश्चित्तं यथा - "करणीयाश्च ये योगा मूलोत्तरगुणादयः । साधोस्तेषूपयुक्तस्य शुद्धिरालोचना मता ||४|| निरन्तरातिचारस्य छद्मस्थस्यापि योगिनः आलोचनां विना शुद्धिर्जायते न कदाचन ॥ ५ ॥ ग्रहणे भोजनादीनां धर्मागाराच निर्गमे । उच्चारभूमिगमने विहारे चैत्यवन्दने ॥ ६ ॥ अन्याश्रमस्थानां चैव साधुनामभिवादने । तद्गृहे च गृहस्थादेः प्रत्याख्यानविधाने ||७|| गुर्वादेशाद्गृहस्थानां गृहाने प्रयोजनात् । राजादीनां च संलापेऽन्यस्मिन्कार्ये शुभेपि वा ||८|| वहिर्हस्तशताक्लृप्ते बुधैरालोचना मता । विशुद्धाचारयुक्तोपि निर्मलं संयमं श्रितः ॥ ९ ॥ व्रतगुप्ति समित्यादिनिः शेषपरिपालकः । निर्दोष व्रतयदि नालोचनाकरः ॥ १०॥ नैव शुद्धं व्रतं तस्य कदाचिदपि जायते । तस्माद्धस्तशताद्वाह्य कृते कार्ये शुभेपि वा ॥ ११ ॥ आलोचना विधातव्या भैक्षान्नकरणादिकाः । आलोचयति भिक्षायां दानं देयं समाश्रि For Private & Personal Use Only jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy