________________
आचार
दिनकरः
॥२५३॥
Jain Education Inte
तम् ॥१२॥ ग्रहणे स्वाश्रयं चैव भाषणे चेष्टितेपि च । यद्यन्तु चेष्टितं प्राप्तं भाषितं वा शुभाशुभम् ॥१३॥ तत्सर्व गुरवे कथ्यं प्रष्टव्यं चैव तत्फलम् । करणीयं तदादिष्टमेवमालोचना मता ॥ १४ ॥ स्वगणात्कारणेनान्यगणं यातस्तपोधनः । उपसंपद आदाने कुर्यादालोचनां पुरा ।। १५ ।। " इत्यालोचना संपूर्णा ॥ ॥ प्रतिक्रमणा यथा - " भृङ्गे समितिगुप्तयोश्च प्रमादेन कदाचन । गुरोराज्ञातनायां च विनयभ्रंश एव च ॥ १॥ गुर्विच्छाया अकरणे पूज्यपूजाव्यतिक्रमे । लघुसूक्ष्मासु मूर्च्छायां क्षुते कासे विजृम्भणे ॥२॥ विधिहीने च विहिते विवादे परवादिभिः । संक्लेशकर कार्येषु लेपादिषु कृतेष्वपि || ३ || हासेऽन्यहासने चैव कन्दर्पे परनिन्दने । कौत्कुच्ये विहिते चापि कदाचिच प्रमादतः ॥ ४ ॥ भक्तस्त्रीदेशभूपालाश्रितवार्ताकृतावपि । कषायविषयादीनामनुष प्रमादतः ॥ ५ ॥ श्रवणावर्जनादौ च किंचिद्धीनाधिकोदिते । बहिर्वसतितो द्रव्याद्भावाच्च स्वलिते तथा || ६ || अनाभोगाच्च सहसाकाराद्भङ्गे व्रतस्य च । आभोगादपि सूक्ष्मे च स्नेहे हासे भयेपि च ॥७॥ शोके प्रदोषे कन्दर्पे वादे च विकथाचये । एतेषु सर्वथा कार्य प्रतिक्रमणमञ्जसा ||८|| प्रतिक्रमणमात्रेण शुद्धिः स्याच्छुद्धचेतसाम् । प्रतिक्रमणाकरणे न शुद्धिः स्यात्कदाचन ॥ ९ ॥” इति प्रतिक्रमणप्रायश्चित्तं संपूर्णम् ॥ ॥ अथालोचनाप्रतिक्रमणरूपतदुभयार्ह यथा - " संभ्रमाद्वा भयाद्वापि सहसाकारतोपि वा । गुर्वादेरवरोधेन संघस्य प्रार्थनादपि ॥ १ ॥ महतः संघकार्याद्वा सर्वव्रतविखण्डने । तथातीचारकरण आचारे शङ्किते ऽपि वा ॥ २ ॥ दुर्भाषिते वा दुश्चिन्ताकृतौ दुश्चेष्टितेपि वा । प्रमादाद्विस्मृते चापि कर्तव्ये दिनरात्रिजे ॥ ३ ॥ ज्ञान
For Private & Personal Use Only
॥२५३॥
www.jainelibrary.org