________________
Jain Education
दर्शनचारित्रविभङ्गे' च प्रमादतः । सहसात्कारतश्चापि नियमानां विखण्डने ॥ ४ ॥ उपयुक्तस्य शुद्धस्य साधोः संयमशालिनः । एवमादिषु कार्येषु तद्युग्मार्ह विनिर्दिशेत् ॥ ५ ॥” इति तदुभयार्ह प्रायश्चित्तं संपूर्णम् ॥ ॥ अथ विवेकार्हम् - " बसने भोजने पाने शय्यायामासनेपि च । अज्ञानत्वाच्छुद्धिहीने गृहीते शुद्धिरुच्झनात् ॥ १ ॥ उदयास्तमविज्ञाय गृहीते वसनाशने । अज्ञात्वा कारणाद्भोगोपभोगे तस्य चाहते ॥ २ ॥ ज्ञाते सूर्यो दयास्ते च तत्त्यागाच्छुद्धिरुत्तमा । प्रायश्चित्तमिदं प्राहुविवेकार्ह विचक्षणाः ॥ ३ ॥” इति विवेका प्रायश्चित्तं संपूर्णम् ॥ ॥ अथ कायोत्सर्गार्ह यथा - " गमनागमने चैव विहारे निर्गमेपि वा । दृष्टे श्रुते वा सावधे सावयस्वप्नदर्शने ॥ १ ॥ नद्यादिलङ्घने नावारोहणे शीघ्रसर्पणे । कार्योत्सर्गेण संशुद्धिर्जायते तत्त्ववेदिनाम् ||२||" एतद्विशेषो यथा - "भक्ते पाने तथा शय्यासने शुद्धेपि चाहते । उच्चारे च प्रस्रवणे विघ्नादन्यांगमापिते ॥ ३॥ बहिस्तशताच्चैव धर्मागाराद्विनिर्गमे । अर्हद्गुरुमहत् साधुशय्यासनपरिग्रहे ॥४॥ उच्छ्वासपञ्चविंशत्या का
त्सर्ग नियोजयेत् स्वप्ने प्राणिवधादीनां महाव्रतविघातिनाम् ॥५॥ विधेयः शतमुच्छ्वासान्कायोत्सर्गी महात्मभिः । उच्छवासाष्टोत्तरशतं चतुर्थे च विधियते ॥ ६॥ आचारे खण्डिते चापि प्रायश्चित्तमिदं स्मृतम् । दैवसिके शतमुच्छ्वासाः पञ्चाशद्वात्रिकेपि च ॥ ७॥ शतत्रये पाक्षिके चातुर्मासे शतपञ्चकम् । अष्टोत्तरसहस्रं तु वार्षे आवश्यके स्मृतम् ||८|| सुतोद्देशममुद्देशानुज्ञासु सकलासु च । सप्तविंशतिमुछ्वासान्कायोत्सर्गेषु विनिर्दिशेत् ||९|| अष्टच्छ्वासान्प्रतिक्रमण (कर्म) प्रस्थानयोरपि । अयं विशेषः सर्वेषु कायोत्सर्गेषु दृश्यते
tional
For Private & Personal Use Only
www.jainelibrary.org