________________
आचारदिनकरः
॥२५२॥
सर्वसाधूनभिवन्दयेत् आचाम्लतपः कुर्याद्वा । गृहस्थस्तु सर्वचैत्येषु महापूजां बृहत्स्नात्रविधिना साधर्मिकवात्सल्यं संघपूजां साधुभ्यो विपुलवस्त्रानपानपात्रज्ञानोपकरणदानं पुस्तकपूजनं मण्डलिपूजनं च कुर्यात् । ततः प्राप्तायां शुभवेलायां यतिः श्राद्धो वा गुरुं प्रदक्षिणीकृत्य ई-पथिकी प्रतिक्रम्य स्तुतिचतुष्केण चैत्यवन्दनं विद्ध्यात् । ततो मुखवस्त्रिका प्रतिलिख्य द्वादशावर्तवन्दनं दत्वा सर्वसाधून्वन्दित्वा गुर्वग्रे मुखवस्त्रिका प्रतिलेखयेत् । ततः क्षमाश्रमणं दत्वा भणति-भगवन् शुद्धिं संदिसावेमि । पुनः श्रमाश्रमणं दत्वा-शुद्धि पडिगाहेमि । पुनः क्षमाश्रमणं दत्वा-भगवन् आलोयणं संदिसावेमि । पुनः क्षमाश्रमणं दत्वा-आलोयणं आलोएमि । संदिसावेह । आलोएह इति गुरुवाक्यं । ततः सर्वपायश्चित्तसुद्धिनिमित्तं करेमि काउसग्गं अन्नत्थउ० जाव० अप्पा० । चतुर्विशतिस्तवचतुष्कचिन्तनं पारयित्वा मुखेन चतुर्विशतिस्तवभणनम् । ततो गुर्वग्रे ऊर्चीभूय परमेष्ठिमन्त्रं त्रिः पठेत् । तत इति गाथास्त्रिः पठनीयाः। यथा-"वंदित्तु वद्धमाणं गोयमसामि च जम्बुनामं च । आलोअणाविहाणं वुत्थामि जहाणुपुवीए ॥१॥ आलोयणदायचा कस्सवि केणावि कत्थ काले वा। के अ अदाणे दोसा हंति गुणा के अदाणे वा ॥२॥ जे मे जाणंति जिणा अबराहा जेसु जेसु ठाणेसु । तेहं आलोएमि उवढिओ सव्वकालंपि ॥३॥” इति गाथात्रयं त्रिः पठेत् । इति पठित्वा गुर्वग्रे विनयामनेनोपविश्य मुखवस्त्रिकाच्छन्नमुखः अञ्जलिमुकुलिताग्रहस्तः सर्वकृतं सस्मृतं दुःकृतं कर्म कथयेत् | गुरुश्च समाहितः शणुयादहृदयेन वा अक्षरन्यासेन वा सर्व तदुक्तमवधारयेच । शिष्येणापि न किंचिद्गोपl
For Private & Personal Use Only
॥२५२॥
Jain Education in
P
ujainelibrary.org