Book Title: Achar Dinkar
Author(s): Vardhmansuri, 
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad

View full book text
Previous | Next

Page 527
________________ आचारदिनकरः ॥२५२॥ सर्वसाधूनभिवन्दयेत् आचाम्लतपः कुर्याद्वा । गृहस्थस्तु सर्वचैत्येषु महापूजां बृहत्स्नात्रविधिना साधर्मिकवात्सल्यं संघपूजां साधुभ्यो विपुलवस्त्रानपानपात्रज्ञानोपकरणदानं पुस्तकपूजनं मण्डलिपूजनं च कुर्यात् । ततः प्राप्तायां शुभवेलायां यतिः श्राद्धो वा गुरुं प्रदक्षिणीकृत्य ई-पथिकी प्रतिक्रम्य स्तुतिचतुष्केण चैत्यवन्दनं विद्ध्यात् । ततो मुखवस्त्रिका प्रतिलिख्य द्वादशावर्तवन्दनं दत्वा सर्वसाधून्वन्दित्वा गुर्वग्रे मुखवस्त्रिका प्रतिलेखयेत् । ततः क्षमाश्रमणं दत्वा भणति-भगवन् शुद्धिं संदिसावेमि । पुनः श्रमाश्रमणं दत्वा-शुद्धि पडिगाहेमि । पुनः क्षमाश्रमणं दत्वा-भगवन् आलोयणं संदिसावेमि । पुनः क्षमाश्रमणं दत्वा-आलोयणं आलोएमि । संदिसावेह । आलोएह इति गुरुवाक्यं । ततः सर्वपायश्चित्तसुद्धिनिमित्तं करेमि काउसग्गं अन्नत्थउ० जाव० अप्पा० । चतुर्विशतिस्तवचतुष्कचिन्तनं पारयित्वा मुखेन चतुर्विशतिस्तवभणनम् । ततो गुर्वग्रे ऊर्चीभूय परमेष्ठिमन्त्रं त्रिः पठेत् । तत इति गाथास्त्रिः पठनीयाः। यथा-"वंदित्तु वद्धमाणं गोयमसामि च जम्बुनामं च । आलोअणाविहाणं वुत्थामि जहाणुपुवीए ॥१॥ आलोयणदायचा कस्सवि केणावि कत्थ काले वा। के अ अदाणे दोसा हंति गुणा के अदाणे वा ॥२॥ जे मे जाणंति जिणा अबराहा जेसु जेसु ठाणेसु । तेहं आलोएमि उवढिओ सव्वकालंपि ॥३॥” इति गाथात्रयं त्रिः पठेत् । इति पठित्वा गुर्वग्रे विनयामनेनोपविश्य मुखवस्त्रिकाच्छन्नमुखः अञ्जलिमुकुलिताग्रहस्तः सर्वकृतं सस्मृतं दुःकृतं कर्म कथयेत् | गुरुश्च समाहितः शणुयादहृदयेन वा अक्षरन्यासेन वा सर्व तदुक्तमवधारयेच । शिष्येणापि न किंचिद्गोपl For Private & Personal Use Only ॥२५२॥ Jain Education in P ujainelibrary.org

Loading...

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566