Book Title: Achar Dinkar
Author(s): Vardhmansuri, 
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad

View full book text
Previous | Next

Page 525
________________ आचारदिनकर : ॥२५१॥ Jain Education 1 वासा अहारसभिक्खुणी मासा । इअ मज्झे कालगओ पावइ आलोयणाइफलम् || ३ ||" एवं सप्तशतयो जनादेश भ्रान्त्या द्वादशवर्षमध्ये यदि तत्कालप्रवर्तमानसमस्तश्रुतधरं गीतार्थ गुरुं चेदालो चेदालोचनाग्राही लभते तदा तद्वाक्यप्राप्तप्रायश्चित्तविधिकरणेन सम्यक् तत्पातकान्मोक्षमाप्नोति । अथ च केनालोचनाप्रायचित्तमनुज्ञेयम् १ कस्यानुज्ञेयं २ कः प्रायश्चित्तकालः ३ प्रायश्चित्तानाचरणे के दोषाः ४ प्रायश्चित्ताचरणे के गुणाः ५ प्रायश्चित्तग्रहणे को विधि ः ६ इत्युच्यते । प्रायश्चित्तानुज्ञातृगुरुलक्षणं यथा - "संपूर्ण श्रुतपाठज्ञो गीतार्थः पूर्णयोगकृत् । व्याख्याता सर्वशास्त्राणां षट्त्रिंशद्गुणसंयुतः ॥ १ ॥ शान्तो जितेन्द्रियो धीमान् धीरो रोगादिवर्जितः अनिन्दकः क्षमाधारी ध्याता जितपरिश्रमः ॥ २ ॥ तत्त्वार्थविद्वारणावान् नृपरङ्कसमाशयः । वारंवारं श्रुतं दृष्ट्वा विवक्षुर्वचनं शुभम् ॥ ३ ॥ अनालस्यः सदाचारः क्रियावान्कपटोज्झितः । हास्यभीतिजुगुप्साभिः शोकेन च विवर्जितः ॥ ४ ॥ प्रमाणं कृतपापस्य जानन्श्रुतमतिक्रमैः । इत्यादिगुणसंयुक्तः प्रायचित्ते गुरुः स्मृतः ||५||” प्रायश्चित्तानुचारककर्तृलक्षणम् - "संवेगवान्गुणाकाङ्क्षी तत्वज्ञः सरलाशयः । गुरुभक्तो निरालस्यस्तपःक्षमशरीरकः ॥ १ ॥ चेतनावान्स्मरन्सवं निजाचीर्ण शुभाशुभम् । जितेन्द्रियः क्षमायुक्तः सर्व प्रकृतम् ||२|| निर्लज्जः पापकथने स्वप्रशँसाविवर्जितः । सुकृतस्य परं गोता दुष्कृतस्य प्रका शकः ॥ ३॥ पापभीरुः पुण्यधनलाभाय विहितादरः । सदयो दृढसम्यक्त्वः परोपेक्षाविवर्जित ॥ ४ ॥ एवंविधो यतिः साध्वी श्रावकः श्राविकापि वा । आलोचनाविधानाय योग्यो भवति निश्चितम् ॥ ५ ॥ १ ॥ आ For Private & Personal Use Only ॥२५१॥ v.jainelibrary.org

Loading...

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566