Book Title: Achar Dinkar
Author(s): Vardhmansuri, 
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad

View full book text
Previous | Next

Page 522
________________ R-RRRRRRRRER अथ बलिविधान विधिः मचायम् । बलिशब्देन तत्तद्देवतसन्तर्पणख्यातं नैवेद्यमुच्यते । सच नाना (स्वा) खाद्यपेयष्यलेह्याशनपानखादिमस्वादिमसहितो देवताग्रत उपहियते । तत्र देवताविशेषेण बलीनां बलिदानविधेरपि भेदः । स चोच्यते । अर्हतोऽग्रतः तद्दिनगृहाचारभोज्याहाराणां सर्वेषां तैलकाक्षिकपक्वजितानां ढोकनं पवित्रपात्रेण तत्कालराद्धस्याग्रपिण्डस्य ढोकनं । न तत्र देवनैवेद्यकृते पृथक्पाकाापक्रमो विधेयः । पुरापि भगवानायुः कर्माणि समीपस्थे गृहीतव्रतः स्वयोगनिष्पन्नैराहारैः शरीरधारणमकृत अतो भविकैरपि स्वमानसस्य सन्तोषाय भगवतो नैवेद्यस्थाने गृहमानुषभोजनार्थ कृत एव आहारः पुरस्क्रियते । तच नैवेद्यं नानाखायपेयचूष्यलेह्योदनघृतव्यञ्जनपक्वान्नरागपाडवक्षीरदधिगुडादिसमन्वितं पवित्रे पात्रे स्वर्णमये रूपयनये ताम्रमये कांस्यमये वा स्वसंपदुचिते निधाय जिनबिम्बाग्रतः सुविलिप्तभूमौ संस्थाप्य अञ्जलिं बध्वा परमेष्ठिमन्त्रं पठित्वा इति पठेत् ॥ "अर्हन्तःप्राप्तनिर्वाणा निराहारा निरङ्गकाः। जुषन्तु बलिमेतं मे मनःसतोपहेतवे ॥१॥” इति जिनविम्यवलिः ॥ ॥ विष्णुरुद्रबलौ तु गृहव्यापारस्वयोगनिष्पन्नान्नादेव कल्प्यते । यतः अतिवाक्यम्-"पितरस्तर्पयामास रामः कन्दैः फलैरपि । यदन्नं पुरुषोऽश्नाति तदन्नं तस्व देवताः ॥१॥ पितृणा च पुनः कार्ये मनःकामितभोजनम् । दद्यात्स्वगुरुविप्रेभ्यस्ततस्तृप्यन्ति ते सदा॥२॥” इति पितृव्य RROR Jain Education in For Private & Personal use only elibrary.org

Loading...

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566