________________
R-RRRRRRRRER
अथ बलिविधान विधिः मचायम् । बलिशब्देन तत्तद्देवतसन्तर्पणख्यातं नैवेद्यमुच्यते । सच नाना (स्वा) खाद्यपेयष्यलेह्याशनपानखादिमस्वादिमसहितो देवताग्रत उपहियते । तत्र देवताविशेषेण बलीनां बलिदानविधेरपि भेदः । स चोच्यते । अर्हतोऽग्रतः तद्दिनगृहाचारभोज्याहाराणां सर्वेषां तैलकाक्षिकपक्वजितानां ढोकनं पवित्रपात्रेण तत्कालराद्धस्याग्रपिण्डस्य ढोकनं । न तत्र देवनैवेद्यकृते पृथक्पाकाापक्रमो विधेयः । पुरापि भगवानायुः कर्माणि समीपस्थे गृहीतव्रतः स्वयोगनिष्पन्नैराहारैः शरीरधारणमकृत अतो भविकैरपि स्वमानसस्य सन्तोषाय भगवतो नैवेद्यस्थाने गृहमानुषभोजनार्थ कृत एव आहारः पुरस्क्रियते । तच नैवेद्यं नानाखायपेयचूष्यलेह्योदनघृतव्यञ्जनपक्वान्नरागपाडवक्षीरदधिगुडादिसमन्वितं पवित्रे पात्रे स्वर्णमये रूपयनये ताम्रमये कांस्यमये वा स्वसंपदुचिते निधाय जिनबिम्बाग्रतः सुविलिप्तभूमौ संस्थाप्य अञ्जलिं बध्वा परमेष्ठिमन्त्रं पठित्वा इति पठेत् ॥ "अर्हन्तःप्राप्तनिर्वाणा निराहारा निरङ्गकाः। जुषन्तु बलिमेतं मे मनःसतोपहेतवे ॥१॥” इति जिनविम्यवलिः ॥ ॥ विष्णुरुद्रबलौ तु गृहव्यापारस्वयोगनिष्पन्नान्नादेव कल्प्यते । यतः अतिवाक्यम्-"पितरस्तर्पयामास रामः कन्दैः फलैरपि । यदन्नं पुरुषोऽश्नाति तदन्नं तस्व देवताः ॥१॥ पितृणा च पुनः कार्ये मनःकामितभोजनम् । दद्यात्स्वगुरुविप्रेभ्यस्ततस्तृप्यन्ति ते सदा॥२॥” इति पितृव्य
RROR
Jain Education in
For Private & Personal use only
elibrary.org