________________
आचारदिनकरः
॥२४९॥
पौष्टिककारकः कुशेनाभिषिश्चेत् । गृहे च सुहृदगृहे च तेन जलेन सदाभ्युक्षणं कुर्यात् । पीठपञ्चकविसर्जन पूर्ववत् यान्तु देवगणा० इत्यादि आज्ञाहीनं० इत्यादि साधुभ्यो वस्त्रान्नपानदानं विपुलं गुरुपूजनं च सर्वोपचारैः ॥ “सर्वत्र गृहिसंस्कारे सूतिमृत्युविवर्जिते । दीक्षाग्रहणतश्चादी व्रतारम्भे समस्तके ॥ १ ॥ प्रतिष्ठासु च सर्वासु राज्यसंघपदे तथा । सर्वत्र शोभनारम्भे सर्वेष्वपि च पर्वसु ॥२॥ महोत्सवे च संपूर्ण महाकार्ये समापिते । इत्यादिस्थानकेष्वाहुः पौष्टिकस्य विधापनम् ॥३॥ आधयो व्याधयश्चैव दुरितं दुष्टशत्रवः । पा पानि च क्षयं यान्ति महत्पुण्यं विवर्धते ॥४॥ सुप्रसन्ना देवताः स्युर्यशोबुद्धिमहाश्रियः । आनन्दश्च प्रता पश्च महत्त्वं पुष्टिमच्छति ॥५॥ आरब्धं च महाकार्य प्रयत्नादेव सिद्धयति । भूतग्रहपिशाचादि दोषाधिष्ण्यग्रहैः कृताः ॥६॥ रोगाश्च प्रलयं यान्ति न विघ्नं क्वापि जायते । पौष्टिकस्य फलं प्राहुरित्याचारविचक्षणाः | ॥७॥” इति पौष्टिकम् ॥ "सर्वत्र गृहिसंस्कारे सूतिमृत्युविवर्जिते । प्रारब्धे च महाकार्य प्रतिष्ठास्वखिला| स्वपि ॥१॥ राज्याभिषेकसमये शान्तिकं पौष्टिकं वयम् । विधापयेद्विशुद्धात्मा तत्त्वाचारविचक्षणः ॥२॥ इत्याचार्यवर्धमानमूरिकृते आचारदिनकरे उभयधर्मस्तम्भे पौष्टिककीर्तनो नाम उदयः ॥ ३५ ॥
ARRRRRRASS
॥२४९॥
For Private & Personal Use Only
M
Jain Education
ainelibrary.org