Book Title: Achar Dinkar
Author(s): Vardhmansuri,
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
View full book text
________________
आचार
दिनकरः
॥२४३॥
Jain Education
श्वेतवस्त्राय कुम्भहस्ताय तुरगवाहनाय श्रीशुक्र सा० शेषं० ॥ "शुक्रः श्वेतो महापद्मः षोडशाचिः कटाक्षदृक् । महाराष्ट्रेषु ज्येष्ठायामथाभूभृगुनन्दनः || १|| दानवाच्य दैत्यगुरुर्विद्या संजीविनीविधिः । सुगन्धचन्दनालेपैः सितपुष्पैः सुपूजितः ||२|| घृतनैवेद्यजन्बीरैस्तर्पितो भार्गवो ग्रहः । नाम्ना सुविधिनाथस्य हृष्टोऽरिष्टनिवारकः ॥ ३ ॥” इति शुक्रपूजा ॥ ६॥ ॥ शनिपूजने - शः नमः शनैश्वराय पश्चिमदिगधीशाय नीलदेहाय नीलाम्बराय परशुहस्ताय कमठवाहनाय श्रीशनैश्चर सा० शेषं० ॥ " शनेश्वरः कृष्णवर्णश्छायाजो रेवतीभवः । नीलवर्णः सुराष्ट्रायां शङ्खः पिङ्गलकेशकः || १|| रविपुत्रो मन्दगतिः पिप्पलादनमस्कृतः रोद्रमूर्तिरोदृष्टिः स्तुतो दशरथेन च ॥ २ ॥ नीलपत्रिकया प्रीतस्तैलेन कृतलेपनः । उत्पित्तकाचकासारतिलदानेन तर्पितः ॥ ३॥ सुनिसुव्रतनाथस्य आख्यया पूजितः सदा । अशुभोऽपि शुभाय स्यात्सप्ताचिः सर्वकामदः ||४||" इति शनिपूजा ॥ ७॥ ॥ राहुपूजने - क्षः नमः श्रीराहवे नैऋतिदिगधीशाय कज्जलश्यामलाय श्यामलवस्त्राय परशुहस्ताय सिंहवाहनाय श्रीराहो सा० शेषं० ॥ “शिरोमात्रः कृष्णकान्तिर्ब्रहमल्लस्तमोमयः । पुलकश्च अधोदृष्टिर्भरण्यां सिंहिकासुतः ॥ १ ॥ संजातो बर्बरकूले सधूपैः कृष्णलेपनैः । नीलपुष्पेनरिलैस्तिलमाषैश्च तर्पितः ||२|| राहुः श्रीनेमिनाथस्य पादपद्मेऽतिभक्तिभाक् । पूजितो ग्रहकल्लोलः सर्वकाले सुखावहः ॥ ३ ॥” इति राहुपूजा ॥ ८ ॥ ॥ केतुपूजने – नमः श्रीकेतवे राहुप्रतिच्छदाय श्यामा१ निधिः इतिराठः ।
For Private & Personal Use Only
॥२४३॥
v.jainelibrary.org

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566