SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥२४३॥ Jain Education श्वेतवस्त्राय कुम्भहस्ताय तुरगवाहनाय श्रीशुक्र सा० शेषं० ॥ "शुक्रः श्वेतो महापद्मः षोडशाचिः कटाक्षदृक् । महाराष्ट्रेषु ज्येष्ठायामथाभूभृगुनन्दनः || १|| दानवाच्य दैत्यगुरुर्विद्या संजीविनीविधिः । सुगन्धचन्दनालेपैः सितपुष्पैः सुपूजितः ||२|| घृतनैवेद्यजन्बीरैस्तर्पितो भार्गवो ग्रहः । नाम्ना सुविधिनाथस्य हृष्टोऽरिष्टनिवारकः ॥ ३ ॥” इति शुक्रपूजा ॥ ६॥ ॥ शनिपूजने - शः नमः शनैश्वराय पश्चिमदिगधीशाय नीलदेहाय नीलाम्बराय परशुहस्ताय कमठवाहनाय श्रीशनैश्चर सा० शेषं० ॥ " शनेश्वरः कृष्णवर्णश्छायाजो रेवतीभवः । नीलवर्णः सुराष्ट्रायां शङ्खः पिङ्गलकेशकः || १|| रविपुत्रो मन्दगतिः पिप्पलादनमस्कृतः रोद्रमूर्तिरोदृष्टिः स्तुतो दशरथेन च ॥ २ ॥ नीलपत्रिकया प्रीतस्तैलेन कृतलेपनः । उत्पित्तकाचकासारतिलदानेन तर्पितः ॥ ३॥ सुनिसुव्रतनाथस्य आख्यया पूजितः सदा । अशुभोऽपि शुभाय स्यात्सप्ताचिः सर्वकामदः ||४||" इति शनिपूजा ॥ ७॥ ॥ राहुपूजने - क्षः नमः श्रीराहवे नैऋतिदिगधीशाय कज्जलश्यामलाय श्यामलवस्त्राय परशुहस्ताय सिंहवाहनाय श्रीराहो सा० शेषं० ॥ “शिरोमात्रः कृष्णकान्तिर्ब्रहमल्लस्तमोमयः । पुलकश्च अधोदृष्टिर्भरण्यां सिंहिकासुतः ॥ १ ॥ संजातो बर्बरकूले सधूपैः कृष्णलेपनैः । नीलपुष्पेनरिलैस्तिलमाषैश्च तर्पितः ||२|| राहुः श्रीनेमिनाथस्य पादपद्मेऽतिभक्तिभाक् । पूजितो ग्रहकल्लोलः सर्वकाले सुखावहः ॥ ३ ॥” इति राहुपूजा ॥ ८ ॥ ॥ केतुपूजने – नमः श्रीकेतवे राहुप्रतिच्छदाय श्यामा१ निधिः इतिराठः । For Private & Personal Use Only ॥२४३॥ v.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy