Book Title: Achar Dinkar
Author(s): Vardhmansuri, 
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad

View full book text
Previous | Next

Page 515
________________ आचारदिनकरः ॥२४६॥ रूपेणाप्रतिम वुधम् । सौम्यं सोमगणोपेतं नमामि शशिनः सुतम् ॥ ४ ॥ देवानां च ऋषीणां च गुरुं काश्चनसंनिभम् । बुद्धिभूतं त्रिलोकस्य प्रणमामि बृहस्पतिम् ॥ ५॥ हेमकुन्दमृणालाभं दैत्यानां परमं गुरुम् । सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ ६॥ नीलाञ्जनसमाकारं रविपुत्रं महाग्रहम् । छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ॥७॥ अर्धकायं महावीर्य चन्द्रादित्यविमर्दनम् । सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्य हम् ॥ ८ ॥ पलालधूमसंकाशं तारकापरमर्दकम् । रुद्राझुद्रतमं घोरं तं केतुं प्रणमाम्यहम् ॥ ९ ॥ इदं व्यासमुखोदभूतं यः पठेत्सुसमाहितः । दिवा वा यदि वा रात्रौ तेषां शान्तिर्भविष्यति ॥१०॥ ऐश्वर्यमतुलं चैवमारोग्यं पुष्टिवर्धनम् । नरनारीवश्यकरं भवेददुःस्वप्ननाशनम् ॥ ११॥ ग्रहनक्षत्रपीडां च तथा चाग्निसमुद्भवम् । तत्सर्व प्रलयं याति व्यासो ब्रूते न संशयः ॥ १२॥” इति ग्रहपूजनान्ते त्रिः पठेत् शान्त्यर्थम् । अथ पौष्टिक विधिः। सचायम् । श्रीयुगादिजिनबिम्बं चन्दनचचितपीठोपरि संस्थाप्य पूर्वववत्पूजां विधाय तबिम्बालाभे पूर्ववत् ऋषभबिम्ब परिकल्प्य वृहत्स्नात्रविधिना पञ्चविंशतिपुष्पाञ्जलीन्प्रक्षिपेत् । ततः प्रतिमा पञ्च पीठानि पूर्ववत्वसंस्थाप्य प्रथमपीठे चतुःषष्टिसुरासुरेन्द्रस्थापनं पूजनं च पूर्ववत् । द्वितीयपीठे दिक्पालस्थापनं पूजनं ॥२४६॥ Jain Education internet For Private & Personal Use Only पmfilmbrary.org

Loading...

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566