Book Title: Satyaharishchandranatakam
Author(s): Ramchandrasuri, Bhaskar Ramchandra Arte, Vishnu Shankar Pauranik
Publisher: Tukaram Jawaji Mumbai
Catalog link: https://jainqq.org/explore/001893/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Saint Education International nemalona y Farervate i personal use only Page #2 -------------------------------------------------------------------------- ________________ THE INTT SATYA HARIS CHANDRA NATAKA OF RÂMACHANDRA. EDITED BY BHÂSKAR RÂMCHANDRA ARTE, M. A. AND SHANKAR VISHNU PURÂNIK, B. A. First Edition. PRINTED AND PUBLISHED BY TUKÂRÂM JÁVAJÍ, Pr:OPRIETOR OF Jávají DÂDĀJi's "NIRNAYA-SAGARA" PRESS. Bombay. • 1898. Price ( Annas. Page #3 -------------------------------------------------------------------------- ________________ (Registered according to Act XXV of 1867). (All rights reserved by the publisher ). Page #4 -------------------------------------------------------------------------- ________________ सत्यहरिश्चंद्रनाटकम् । प्रबंधशतकर्तृमहाकविरामचंद्रप्रणीतम् । ------- -- - आर्तेकुलोत्पन्नरामचंद्रसूनुना भास्करेण पौराणिककुलोत्पन्नविष्णुशर्मसुतेन शंकरेण च संस्कृतम् । प्रथमं संस्करणम् । तच्च मुम्बय्यां निर्णयसागराख्ययन्त्रालयाधिपतिना मुद्रितम् । शाके १८१९ वत्सरे। मूल्यं ६ आणकाः। Page #5 -------------------------------------------------------------------------- ________________ Page #6 -------------------------------------------------------------------------- ________________ पात्राणि. ..... .... देवौ हरिश्चंद्रः .... .... अयोध्यापतिः सुतारा .... .... .... तत्पनी रोहिताश्वः .... .... तत्सुतः वसुभूतिः .... तदमात्यः कुंतलकपिंजली तत्परिचारको चंद्रशेखरः .... काशिपतिः सत्यवसुः .... तदमात्यः सुनंदसिंहलको तत्परिचारको चंद्रचूडकुंदप्रभौ कुलपतिः आश्रमपतिः निकृतिः तत्पत्नी वंचना .... .... .... तत्सुता अंगारमुखः वैखानसः .... तापसाः कौटिल्यः कालदंड: .... निषादपतिः वज्रहृदयः ... .... कश्चिद्राह्मणः वृद्धा वामना चेटी पत्रलेखा इतराः लंबस्तनी विद्याधरी चित्रांगदः पिशाच पुरुषः प्रतीहारः ( मंजरकनामा) मांत्रिका इतरे Page #7 -------------------------------------------------------------------------- ________________ Page #8 -------------------------------------------------------------------------- ________________ सत्यहरिश्चन्द्रनाटकम् । ॐ नमः सर्वज्ञाय । देवाय विश्ववंद्याय नाभेयाय नमोनमः । सर्वोऽप्येष मनुष्याणां यदुपज्ञक्रियाक्रमः ॥ १ ॥ (नांद्यते सूत्रधारः) भो भो स्फुरन्निःशेषकलाकलापसंपदः सभासदः किमपि वो विज्ञापयामि। ___ अधीती सर्वभाषासु गृहीती दशरूपके । आमाती रसकाव्येषु प्रबंधान् द्रष्टुमर्हति ॥ २ ॥ ततो यदि यूयं यथोदितगुणग्रामाभिरामात्मानस्तदिदानी सभ्यभूयमनुभवितुमर्हथ (आकाशे) किमादिशत यथोदितगुणग्रामाभिरामा एव वयमामहे । किंतु परमरसनिष्यंदसुंदरः कोऽपि प्रबंधेऽभिनय इति । (विहस्य) सरसतायां किमुच्यते प्रबंधस्य । यतःव्युत्पत्तिर्मुखमेव नाटकगुणव्यासे तु किं वर्ण्यते सौरभ्यप्रसवा नवा भणतिरप्यस्त्येव काचित् कचित् । यं प्राणान् दशरूपकस्य स करोत्क्षेपं समाचक्षते साहित्योपनिषद्विदः स तु रसो रामस्य वाचां परम् ॥ ३ ॥ किं च । प्रबंधा इक्षुवत्प्रायो हीयमानरसाः क्रमात् । कृतिस्तु रामचंद्रस्य सर्वा स्वादुः पुरः पुरः ॥ ४ ॥ अपि च । कोऽप्येष वः परमहर्षोत्सवो वर्तते । तदवधीयतां क्षणमेकम् । सूक्तयो रामचंद्रस्य वसंतः कलगीतयः । खातंत्र्यमिष्टयोगश्च पंचैते हर्षवृष्टयः ॥ ५ ॥ (प्रविश्य संभ्रांतो नटः) भाव स युष्मत्प्रतिस्पर्धी साहसिकनामा कुशीलवः प्रसह्य भवतो निषिध्य स्वाभिप्रेतं प्रबंधमभिनेष्यति । सूत्रधारः--(ससंरंभम्) साहसिकः स्वाभिप्रेतं प्रबंधमभिनेष्यति। Page #9 -------------------------------------------------------------------------- ________________ २ सत्यहरिश्चन्द्रनाटकम् | नटः - अथ किम् । सूत्रधारः - मारिष अन्यद्विचिंतितमन्यदापतितम् । श्रीसिद्धमाभिधानशब्दानुशासनवेधसः श्रीमदाचार्यहेमचंद्रस्य शिष्येण रामचंद्रेण विरचितं सत्यहरिश्चंद्राभिधानमादिरूपकमभिनीय सभाजनमनुरंजयिष्यामः । इति किल अस्माकं मनोरथः । यदि वा खलु कृत्वा प्रतिभयम् । कतमो नाम साहसिकः प्रसह्य नः प्रतिषिध्य स्वाभिप्रेतं प्रबंधमभिनेतुं सोद्यमः । एते वयं तमपकर्ण्य स्वप्रतिज्ञातमाध्यास्यामः । यतः सत्वैकतानुवृत्तीनां प्रतिज्ञातार्थकारिणाम् । प्रभविष्णुर्न देवोऽपि किं पुनः प्राकृतो जनः ॥ ६ ॥ (नेपथ्ये) हृदयंगममुक्तवानसि । सूत्रधारः - कथमयं हरिश्चंद्रभूमिकावाही नर्तकः शब्दायते । तदेहि | मारिषः - करणीयांतरमनुतिष्ठामः । (इति निष्क्रांतौ । प्रस्तावना) प्रथमोऽङ्कः । (ततः प्रविशति कुंतलकपिंजलाभ्यां सह तुरगाधिरूढो राजा ) राजा - सत्त्वैकतानुवृत्तीनामिति । (विमृश्य) कुंतल । नियतं वयमद्य शक्रावतारतरुविसरबाधाविधायिनं महावराहं व्यापादयि ष्यामः । कपिंजल : --- यदैव तोमरासारं साकेतपतिरमुचत्तदैव वराहो व्यापादितः । किंतु क्वचिदपि सरयूगव्हरे पतितोऽपि नो लक्ष्यते । राजा - ( समंततो निरूप्य । अवलोक्य) अहो सरसतरुविसराणां साकेतपरिसराणां वरिमा । तथा ह्येते — क्वचित् क्रीडाक्रोडप्रतिभयपरित्रस्तपृथुकाः क्वचित् क्रीडाशैलोपतटतरुविश्रांतपथिकाः । कचिद्वारीयंत्र ध्वनिरभसनृत्यच्छिखिगणाः क्वचिद्गोपीगानश्रवणनिभृतोत्कर्णहरिणाः ॥ ७ ॥ Page #10 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः कुंतल:-वसंतावतारव्यतिषंगरंगत्परभागस्य जगतः श्रियमवधारयतु देवः । परभृतवधूगीतस्फीतश्रियो वनशाखिनः प्रतिदिशविशन्मल्लीवल्लीरजस्तरलं नभः । ककुभि ककुभि स्मेराक्षीणां विसति चर्चरी प्रतितरुतलं क्रीडक्षांता लसंति विलासिनः ॥ ८ ॥ राजा-कियति दूरे वयमागताः । कपिंजल:-देव सुदूरमागता वयं । किं न पश्यति देवः पुरः प्रसर्पतीमिक्ष्वाकवंशालवालस्य साकेतस्य सारिणी भगवतीं सरयूम् । राजा--(विलोक्य) उपतटतरुच्छायाधूनं क्वचित्क्वचिदंगना घुसृणकपिशं हंसश्रेणीविगाहसितं क्वचित् । कचिदपि तरत्कोकद्वंद्वप्रभाशबलं क्वचित् कुवलयदलश्यामं धत्ते श्रियं सरयूजलम् ॥ ९ ॥ कपिंजल:-देव पश्य पश्य । सांद्रच्छायाजनिततमसः सारसैः शीकरौघैः . स्निग्धस्कंधा विदधति मुदं कस्य नामी वनांताः । येषां भूमौ पवनविचलत्पत्रमार्गप्रविष्टा भानोर्भासः कनकतिलकश्रेणिलक्ष्मी वहति ॥ १० ॥ राजा-(विश्रम्य) कुंतल । जंबालजालजटिलासु सरित्तटीषु मुह्येत्कचित्तुरग एष सुशिक्षितोऽपि । तस्माबजामि सरयूतटमुत्तरेण वाचंयमांचिततमाश्रममीक्षमाणः ॥ ११ ॥ कुंतल:-यदादिशति देवः । (इति यथोक्तं कृत्वा) राजा-(अग्रतो विलोक्य) कपिंजल । विलोकय मृगयाकुतूहलाकुलितचेतोभिरस्माभिः कियच्चिरं लक्ष्यमतिहतम् । कपिंजल:-(परिक्रम्य) देव अयं स महावराहः प्रहारपतितस्तिष्ठति । Page #11 -------------------------------------------------------------------------- ________________ सत्यहरिश्चन्द्रनाटकम् | राजा - (विलोक्य सकौतुकम् ) निशिततरशरालीदक्षिणेर्मा प्रवृद्धप्रसररुधिरधाराचित्रगात्री वराहः । स्मरयति सुरचापावाप्तवर्धिष्णुकांतेरविरलजलमैत्रीमेदुरांभोधरस्य ॥ १२ ॥ अपि च । यथेयमाकृतिरतैरवी तथा व्यक्तममुना दिव्येन पो त्रिणा भाव्यम् । ४ कपिंजल : - अपरश्चायं द्वीपी प्रतिहतोऽस्ति । राजा - अपरं पुनरिदं किम् । कपिंजल : - ( विलोक्य । सविचिकित्सकम् ) देव इदमज्ञातमेवास्तु | राजा -- तथापि किम् । कपिंजल : -- किममुना ज्ञातेन । अतिकालो भवति । निवर्ततां सौधाय देवः । राजा - ( खयमुपसृत्य सविचिकित्सम् ) कथमियमस्मन्नाराचपातविनिलुठितगर्भा वराकी हरिणी । अहहाकृत्याचरणम् । कोऽयं न्यायो यदपरिचिताशेषशस्त्रोऽपि यंत्र र्धृत्वा धृत्वा पशुरशरणो हन्यते कांदिशीकः । हित्वा धर्म्यं पथमिह भुजादर्पकंडूकरालाः क्षोणीपालास्तदपि मृगयाकौतुकान्यावति ॥ १२ ॥ E कुंतल : - कृतमिदानीं मृगयाकौतुकेन । यावत्पाश्चात्यं सैन्यं संनिधीयते तावदेतस्य सहकारस्य तले तुरगादवतीर्य तिष्ठामः । राजा - (तुरगादवतरणं नाटयति) पुनर्विमृश्य । कपिंजल पुरो गत्वा विलोकय आश्रमः कियति दूरे । ( यदादिशति देव इत्यभिधाय कपिंजलो निष्क्रांतः ) राजा - (सखेदम् ) धिङ्मां भ्रूणविघातिनं सकलुषं धिग् जीवितं मेऽखिलं क्षोणीलो ककरोपतापजनिता धिग् धिङ् ममैताः श्रियः । पुण्यास्ते करुणामृतार्द्र मनसो ये नाम वाचंयमा हस्तारोपितशर्मणि प्रतिकलं वृत्ताः शुभे कर्मणि ॥ १४ ॥ Page #12 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः । कुंतल वयमिदानीं सर्वखपरित्यागमीहामहे । कपिंजल : - ( प्रविश्य) प्रत्यासन्नं पश्य । राजा - किं सर्वस्वपरित्यागम् । कपिंजल : न हि मुनीनामाश्रमम् । ( सर्वे आश्रमाभिमुखं परिक्रामति) राजा - ( विलोक्य सहर्षम् ) विश्रंभांतिकचारिबालहरिणाः शाखाशिखालंबितप्रत्यग्राहृतदर्भवल्कसमिधो नीवारपुंजीजुषः । धूम्याश्यामलहोममंदिरभुवः कन्याजनक्रीडन -- न्यस्तांभस्तरलालवालबहलच्छायद्रुमा आश्रमाः ॥ १५ ॥ कपिंजल : - देव अयं कुलपतिः । इमे तपखिनः । (ततः प्रविशति कुलपतिः अंगारमुखप्रभृतयश्च तापसाः) कुलपतिः - ( सरोषमिव ) मर्त्यः कोऽपि समस्ति मांसनयनो नद्धांगभूर्धातुभिः सत्त्वं तस्य तु देवताभिरपि चाचाल्यं किमप्यद्भुतम् । अश्रद्धेयमिदं सुधर्मणि सभापीच्ये ब्रुवाणः स्वयं गीर्वाणाधिपतिर्न कस्य विदधे सक्रोधबोधं मनः ॥ १६ ॥ अंगारमुख: सर्वत्रोक्तिश्च युक्तिश्च वस्तुतत्त्वानपेक्षणी । प्राणाः प्रभुत्त्वसंपत्तेः प्रथमे खलु विश्रुताः ॥ १७ ॥ ततः कोऽयं मघवतः स्वैरालापेषु भवतां संरंभः | कुलपतिः -- किमपरमुच्यते । एष भगवतो मघवतः फल्गुतां नयामि वल्गितम् । कुंतल : - ( उपत्य) भगवन् अयोध्याधिपतिः प्रणमति । कुलपतिः - (सरभसम् ) स्वस्ति महाराजाय । कोऽत्र भोः पाद्यं पाद्यमर्घोऽर्घः । अये वैखानस आसनमासनमिक्ष्वाकुवंशावचूडाय महाराजाय । (प्रविश्य वैखानसः कुशासनमर्पयति । राजा प्रणम्योपविशति ) कुलपतिः - त्रिशंकुनंदन | ५ Page #13 -------------------------------------------------------------------------- ________________ सत्यहरिश्चन्द्रनाटकम् । राजन्वती वसुमती विशदं मनस्ते कीर्तिः कलंकविकला प्रबलः प्रतापः वर्णाश्रमश्रमनिरोधविधानशिक्षा दीक्षाविशालकुशला निखिलापि वृत्तिः ॥ १८ ॥ राजा-सर्वमस्ति नस्तपोभृतां प्रसादेन । (पुनः सविनयम् ) भगवन् । ज्ञानध्यानतपांसि संयमभृतो निर्विघ्नमातन्वते निष्प्रत्यूहफलप्रसूनसुभगाः कन्यावसिक्ता द्रुमाः । हस्तन्यस्तपयःसमित्कुशहृतो निफ्धबाधा मृगाः कच्चिद्वः प्रतिभूः शिवस्य परमे ब्रह्मण्यचाल्यो लयः ॥ १९ ॥ कुलपतिः-भरतकुलनभस्तलशशांक भवति भूतधात्रीं प्रशासति कुतो नामाश्रमाणामसमंजसम् । (नेपथ्ये कलकल:) अकृत्याचरणम् अकृत्याचरणम् अब्रह्मण्यम् अब्रह्मण्यम् । कुलपतिः-(ससंरंभम्) अये वैखानस । गत्वा जानीहि किंनिमित्तोऽयं तपस्विनामा” नादः । (पुनरपवार्य कर्णे) एवमेव । वैखानसः- आणवेइ कुलवई (इत्यभिधाय निष्क्रांतः) राजा-कुंतल पश्य पश्य । शास्त्रेषु विस्मृतवतां जरतां यतीना___ मर्थं पदानि च शुकाः स्मरयंति भूयः । एते च वृद्धकपयस्तिलतंदुलादि ___ होमोपयोगि यतिनामुपढौकयंति ॥ २० ॥ (नेपथ्ये । सकरुणम्) अंब जइ एसा मे हरिणी एइणा सरप्पहारेण विवध्येस्सई ता हं अणसणं करिस्सं । कुलपतिः-कथमियमस्मत्पुत्री वंचना प्रायोपवेशनमभिलषति। अंगारमुख किमिदम् । अंगार:- अहं न जानामि । १ यदाज्ञापयति कुलपतिः. २ अंब यद्येषा मे हरिण्येतेन शरप्रहारेण विवधिष्यते तदाहं अनशनं करिष्यामि. Page #14 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः । (नेपथ्ये) वत्से जइ तुमं अणसणं करिस्सइ ता अहंपि करिस्सं । कुलपतिः -- ( ससंभ्रमम् ) इयमस्मद्धर्मचारिणी निकृतिर्वत्सामनुसरति । अंगारमुख द्वे अप्यत्र प्रेषय । (अंगारमुखः सत्वरं निष्क्रांतः) (ततः प्रविशतस्तापस्यौ) कुलपतिः वत्से किं विषाद निषादपरवशा दृश्यसे । वंचना - ( सबाष्पम् ) जाणाहि ताउ । कुलपतिः - वत्से किमहं जानामि । वंचना - ( रोदिति) कुलपतिः - ( ससंभ्रमम्) कथय । वत्से किमहं जानामि । वंचना - अत्थि मे कीलाहरिणी एवं जाणाइ ताउ । कुलपतिः -- या किल बाल्यादारभ्य स्वहस्तदत्तनीवारकवलेः प्रवृद्धि नीता । ततः किं तस्याः । ( वंचना उच्चैः खरं रोदिति) अंगारमुखः -- ( प्रविश्य संभ्रांत :) भूरराजन्वती सेयमब्रह्मण्यमहो महत् । मृगयाव्याकुलैः पापैर्गर्भिणी हरिणी हता ॥ २१ ॥ कुलपतिः - ( सरोषमिव) राजन्निक्ष्वाकुवंशक्षितिपतितिलक ध्यानविध्वंसकारी कौतस्त्यस्तापसानामयमतनुरिहाकस्मिकः शोकशंकुः । स्फीतन्याये भवत्यप्यवनितलपतौ यद्यराजन्वती भूः श्रेयोविश्रामयष्टिस्तदियमुपहता धर्मकर्मप्रवृत्तिः ॥ २२ ॥ ( राजा वीडया दिक्षु चक्षुषी निक्षिपति ) वंचना तय अहं अणसणं करिस्सं । निकृतिः – अहमपि । कुलपतिः - ( सरोषम् ) १ वत्से यदि त्वमनशनं करिष्यसि तदाऽहमपि करिष्यामि २ जानासि तात. ३ अस्ति मे कीडाहरिणी एवं जानाति तातः. ४ ताताहमनशनं करिष्यामि . Page #15 -------------------------------------------------------------------------- ________________ सत्यहरिश्चन्द्रनाटकम् । ज्ञात्वा कुतोऽपि ननु मध्यमलोकपाल तं शाधि साधुजनबाधकरं श्वपाकम् । प्रत्यर्थिनः शमवतां रहितायुधानां न्यायार्थिभिर्नृपतिभिः खलु शासनीयाः ॥ २३ ॥ राजा--(प्रणम्य सविषादम्) परेषां दंडमाधातुमहमन्यायिनामलम् । न पुनः स्वात्मनो दूरशर्मणः पापकर्मणः ॥ २४ ॥ कुलपतिः-(सरोषं ससंभ्रमम्) किमुक्तं स्यान्मया व्यापादितेति। ' (राजा प्रणम्याधोमुखस्तिष्ठति) कुलपतिः-(वल्कलेन मुखं पिधायोञ्चैःस्वरम्.) आः पाप चापशरधी नियतं दधासि __ ध्यानकतानमनसः शमिनो निहंतुम् । युष्मादृशाः प्रतिनृपप्रहतौ वराकाः संग्रामधामनि कुतः प्रभविष्णवः स्युः ॥ २५ ॥ राजा-(सविनयं प्रणम्य) भगवन् प्रसीद प्रसीद क्षमस्व त्वमेकमपराधम् । कुलपतिः-अरे भरतकुलपांसन । त्रिशंकुयशश्चंद्रमसः कलंक । अदृश्यमुख । अस्पर्श । स्त्रीभ्रूणघातगुरुपातकपंकिलास्य मेध्याद्रज ब्रज द्रुतं द्रुतमाश्रमान्नः । युष्मादृशामकरुणैकशिरोमणीनां सर्वसहापि विरमत्यनुषंगपापात् ॥ २६ ॥ राजा-(सविनयम्) इत्थं गते कथय किं करवाणि सोऽह मुद्भिन्नगर्भहरिणीहननश्वपाकः । धात्रीं त्यजामि विषमव्रतमाचरामि ___ किंवा विशामि रुचिलीढदिशं हुताशम् ॥ २७ ॥ कुलपतिः-अरे पाप सत्वरमपसर । किमात्मनो वचनं श्राव. यसि। Page #16 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः । अंगारमुखः-(सकपटम्) प्रसीद वाचंयमधुर्य ते रुषा कृतानुतापः स्वयमप्ययं नृपः । तपोभृतामेकधुरीण किं मुधा महीभृतामेकधुरोऽवधीयते ॥ २८ ।। कुलपतिः-अरे अंगारमुख यदि परमयं भ्रूणहा सर्वस्खदानेनैव शुद्ध्यति । राजा-(साश्वासम्) प्रसीद त्वं त्रातर्विलयमयतां गर्भहरिणी विघाताविर्भूतं सपदि कलुषं दुस्तरमपि । सदुर्गा सग्रामा सगजतुरगा साश्रमपदा मया तुभ्यं दत्ता चतुरुदधिकांची वसुमती ॥ २९ ॥ अंगारमुखः-(प्रणम्य) भगवन् अयोध्याधिपतिर्यदभिधत्ते तत्प्रतिपद्यस्व । कपिंजल:-(अपवार्य) देव किमिदम् । कुंतल:-देव कोऽयमुत्पातः । राजा-(अवगणय्य) भगवन् मदुक्तं मेऽस्तु । कुलपतिः-दत्ता मह्यं वसुमती भवता । राजा-युष्मभ्यं दत्ता वसुमती । कुलपतिः-नार्हसि वसुंधराया भोगमतः परम् । राजा-नार्हामि वसुंधराभोगमतःपरम् । कुलपतिः-कोऽत्र भोः । (प्रविश्य तापसः) आदिशतु कुलपतिः । कुलपतिः-अये काश्यप भागीरथीदक्षिणाश्रमवासिनं वाराणसीतः समायातमस्मदंतेवासिनं कौटिल्यमाकारय । (यदादिशति कुलपतिः । इत्यभिधाय काश्यपो निष्क्रांतः) (प्रविश्य कौटिल्यः प्रणमति) कुलपतिः-कौटिल्य हरिश्चंद्रेण वसुंधरास्मभ्यं प्रतिपादितेत्यत्रार्थे त्वं साक्षी। Page #17 -------------------------------------------------------------------------- ________________ सत्यहरिश्चन्द्रनाटकम् । कौटिल्यः-महाराज अत्रार्थे वयं साक्षिणः । राजा---अत्रार्थे यूयं साक्षिणः । (प्रविश्य वैखानसः) भयवं जाव विवन्ना हरिणी । कुंतल:-(अपवार्य) कपिंजल यथायं बंदी पठितवांस्तथा व्यक्तं प्रातर्देवस्य प्रवासो भविष्यति । वैखानसः-आस्समपए चिठ्ठइ ताव होमबिही न पवइ । तयाणिं किं करेदु । कुलपतिः--अग्निसंस्कारं च गत्वा कारय । वंचना-मैए सह तीए अग्गिसक्कारो भविस्सइ।. राजा-(प्रणम्य) एकं क्षमस्व दुःसाधमपराधं तपोधने । वितरिष्याम्यहं तुभ्यं हेनो लक्षमसंशयम् ॥ ३० ॥ अंगारमुखः-यदयं वर्णाश्रमगुरुरभिधत्ते तदस्तु । वंचना-एवं भोदु। कुलपतिः-दीयतां तर्हि सुवर्णमेतस्यै । राजा-कनकं भवद्भिरयोध्यामागत्य ग्रहीतव्यम् । कुलपतिः--न वयं प्रचुरपौरपांसुरासु नगरवसुंधरासु संचरामः । अंगारमुखः-भगवन् यदभिधत्ते साकेतपतिस्तदस्तु । कुलपतिः-अस्तु किंतु यूयं मध्याह्नसंध्यामलंघयता साकेतपतिना विसर्जनीयाः । राजा-अवश्यमेतत् । (नेपथ्ये) गाहंता सरयूतटानि तुरगाः स्वैरं गणः सादिनां ___ तंद्रालुर्बहुलाश्रमक्षितिरुहच्छायासु विश्राम्यतु । कुंजेषु व्यवधास्थितेषु दधतामाधोरणाः कुंजरान् वीक्षतां च मृगधुवारवनिताः शक्रावतारश्रियम् ॥ ३१ ॥ १ भगवन्यावद्विपन्ना हरिणी. २ आश्रमपदे तिष्ठति तावद् होमविधिर्न प्रवर्तते । तदानीं किं क्रियताम. ३ मया सह तस्या अग्निसंस्कारो भविष्यति. ४ एवं भवतु, Page #18 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः । कुंतलः-देव पाश्चात्यं सैन्यमागतम् । (पुनर्नेपथ्ये बंदी) क्षीणाशेषनिजप्रतापविसरः संत्रुट्यदाशास्थितिः प्रक्षिप्याखिलभक्षिणो हुतभुजो के समस्तं महः । उद्गच्छन्मुनिमंडलेन कलितं वृत्तैकभूः स्खं पदं . हित्वा कामति पश्चिमालयमयं देवो हहा गोः पतिः ॥ ३२ ॥ कुलपतिः-महाराज प्रदोषसंध्यासमयोऽस्माकमिदानीम् । राजा-तर्हि वयम्ब्रह्मांडोदरसंचरिष्णुयशसो वंदारुवृंदारक श्रेणीशेखरपारिजातसुमनःकिंजक्लकिर्मीरिताम् । इक्ष्वाकुक्षितिपालसंततिगुरोः शकावतारस्थिते न भेयस्य विलोक्य पादयुगली सौधाय चेष्टामहे ॥ ३३ ॥ कुलपतिः-वयमपि प्रादोषिकं संध्याविधिमनुष्ठातुं प्रतिष्ठामहे । (इति निष्क्रांताः सर्वे) इति प्रथमोऽङ्कः ॥ Page #19 -------------------------------------------------------------------------- ________________ THAT द्वितीयोऽङ्कः। (ततः प्रविशत्यमात्यो वसुभूतिः कुंतलश्च) वसुभूति:-~-ततस्ततः । कुंतलः-अनंतरं सकलदेवताधिचक्रवर्तिनः सरयूसीकरासारसंपर्कसततार्द्रपादपद्मस्य भगवतो नाभिनंदनस्य सांध्यं सपर्याविधिमाधाय देवः सौधमधिष्ठितवान् । वसुभूतिः-(विमृश्य) के पुनर्वराहं देवाय विज्ञप्तवंतः । कुंतल:-सर्वैरदृष्टचरः कोऽपि ।। वसुभूतिः---यदि सर्वैरदृष्टचरस्तहि व्यक्तमिदमिंद्रजालं किमपि । भवतु तावत् । संप्रति देवः क्वास्ति । कुंतल:-एष विलासमंडपे तिष्ठति । (ततः प्रविशति राजा सहर्षम्) कुंतल:-(उपसृत्य) देव अमात्यः प्रणमति । (वसुभूतिः प्रणम्योपविशति) राजा-(सहर्षम्) अमात्य ह्यस्तनेऽहनि यदस्माभिर्वराहदेवकस्य पुरे यत्प्रतिज्ञातं तदखिलं वराहं व्यापाद्य नियूंढम् । वसुभूतिः-शस्तनवृत्तांतं ज्ञातवानस्मि । राजा-(विहस्य) व्यक्तं कुंतलः कथितवान् । वसुभूतिः -देव । एतेन परमानंदरूपं प्राभवमुच्यते । अनौचित्यमपि स्तौति येनौचित्यमिवानुगः ॥ १ ॥ तथापि किमपि विपरीतं विज्ञपयिष्यामि । राजा-स्वैरं विज्ञपय । वसुभूतिः-वसुमतीपरित्यागो नाम समुचितः प्रतिभाति । राजा-अमात्य । उचितमिदमनुचितमिति प्रारंभात् पूर्वमेव युज्यते । प्रारब्धस्य तु निर्वहणमेव संकल्पनं न्याय्यम् ॥ २ ॥ अपि च । Page #20 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः । श्रियो नाशं यांतु व्रजतु निधनं गोत्रमखिलं शिरश्छेदो वास्तु प्रभवतु समंताद्विपदपि । विवेकार्कज्योतिर्विघटितमहामोह तमसः प्रतिज्ञातादर्थात्तदपि न चलंत्येव कृतिनः ॥ ३ ॥ तदलमनया पूर्वकृतमीमांसया । प्रगुणय कनकलक्षम् । इदानीं समायाति कुलपतिः । (नेपथ्ये ) इतः इतः । राजा - अमात्य समायात एव तापसः । तदुपनय सत्वरं कनकम् । वसुभूतिः -- ( कुंतलस्य कर्णे ) एवमेव । ( एष समायातोऽस्मीत्यभिधाय कुंतलो निष्क्रांतः ) (ततः प्रविशति कुलपतिरंगारमुखश्च ) कुलपतिः - (साश्चर्यम् ) अंगारमुख वचसामगोचरं किमप्यस्य त्रैशंकवस्य सत्त्वम् । अंगारमुखः - - किं कदापि कमप्यनुचितमुपस्तौति । इंद्रो वा स्तोष्यति । कुलपतिः - ज्ञास्यामि यद्यतः परमपि सत्त्वमेवमस्य भविष्यति । राजा - ( सरभसम् ) स्वागतं महर्षे । कोऽत्र भो आसनमासनम् । कुलपतिः - अलमासनेन । आकर्णय किमपि । राजा - आदिशतु कुलपतिः । कुलपतिः कृशानुसेवा फलकंदवर्तनं जटाधरत्वं वनवासिनां व्रतम् । महीपतीनामिदमेव तु व्रतं १३ यदात्मसत्यात्प्रलयेऽपि न च्युतिः ॥ ४ ॥ राजा - ततः किम् । कुलपतिः- वनांतरात्प्रातरुपेत्य ते पुरीं पुरोवतीर्णे मयि योगिनां वरे । Page #21 -------------------------------------------------------------------------- ________________ सत्यहरिश्चन्द्रनाटकम् । न सांप्रतं सांप्रतमुन्नतस्थिते निजां प्रतिज्ञां प्रति कालयापना ॥ ५ ॥ राजा-भगवन् कः कालयापनां करोति । उपनीतमेव कनकं पश्य । अंगारमुखः-महाराज । अकांडकोपेऽपि तपस्विनो दशां विशंति तां या वचसामगोचरा । निजार्धभंगे सरुजस्तु तामसी दधत्यगम्यां मनसोऽपि विक्रियाम् ॥ ६ ॥ वसुभूतिः-तपोधना अपि तामसी दशामुपासत इति केषां वाचोयुक्तिः। अंगारमुखः-(सोपहासम्) महाराज तपोधनाचारचतुरः कोऽयम्। राजा-मुने अमात्योऽयम् । कुलपतिः-किंनिमित्तोऽयं विलंबः । (प्रविश्य कनकभृतभाजनहस्तः कुंतल:) कुंतल:-इदं कनकम् आदिशतु देवः । राजा-मुनेरुपनय । कुलपतिः -(सरोषमिव) किमिदम् । राजा-वंचनाकनकम् । कुलपतिः-कुतः समानीतमेतत् । कुंतल:-कनककोशात् । कुलपतिः-कोशः पृथिव्या मध्ये किं बहिः । राजा-मध्ये । कुलपतिः-पृथिव्यां कः स्वामी । राजा-कुलपतिः । कुलपतिः-अंगारमुख अस्मत्कांचनेनात्मानमनृणं कुर्वतः त्रैशंकवस्य महती सत्त्वकाष्ठा । राजा-समीचीनमाह अथ कुलपतिः । कुंतल कनकं यथास्थानमुपनय । (कुंतलो निष्क्रांतः) Page #22 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः । १५ कुलपतिः -- व्रजामो वयम् । दृष्टं भवतः सत्यं सत्त्वं च । राजा - विलंबध्वं यूयं यावत्कनकमायात्यन्यतः | ( पुनरमात्यस्य कर्णे) एवमेवम् । वसुभूतिः - कोऽत्र भोः । (प्रविश्य) पुरुषः- एषोऽस्मि । वसुभूति: - ( पुरुषस्य कर्णे) एवमेवम् । ( पुरुषो निष्क्रांतः) कुलपति:-- पुरी स्पृष्ट्वा क्रांत्वा भुवमुपहतस्तापसविधिमैया तस्मात्कन्याकनकमुपनेतुं भवभृशः । न चेत्त्वां भ्रूणस्त्रीवधकमधिक क्रोधविधुरो विधास्ये शापोत्थज्वलद्नलभस्मीकृततनुम् ॥ ७ ॥ राजा - ( सभयम् ) अमात्य कोऽयं विलंबः । (प्रविश्य) प्रतीहारः - देव वणिजो द्वारि संति । राजा - शीघ्रं प्रवेशय । (आदेश: प्रमाणमित्यभिधाय प्रतीहारो निष्क्रांतः) (ततः प्रविशति कृतोष्णीषाः पंचषा वणिजः ) कुलपति : - (अपवार्य) अंगारमुख वणिजो दिव्येन प्रभावेण निवारय । अंगारमुखः पूर्वमेव निवारिताः । वसुभूतिः - (वणिजां कर्णे) एवमेवम् । वणिजः - ( अपवार्य परस्परम् ) अदोवरं अह्माणं तावसो सामी ता किं हरियंदस्य कणगेण दिनेण । राजा - ( सविनयम् ) अधस्ताद्वः पौराः कृत इव मया पाणिरघृणादृणादेतस्मान्मां विरहयत यूयं कथमपि । १ अतः परमस्माकं तापसः स्वामी तत् किं हरिश्चंद्रस्य कनकेन दत्तेन । Page #23 -------------------------------------------------------------------------- ________________ सत्यहरिश्चन्द्रनाटकम् । अहं युष्मद्भचं स्वं ननु पुनरहोभिः कतिपयैः कुतश्चिद्याचित्वा नियतमुपयच्छामि निखिलम् ॥ ८॥ वणिजः-भट्टा अप्पदविणो अटेन कणयलक्खं दाउं समत्था। वसुभूति:-(सरोमांचम्) कुलपते । लोकः प्रायो भवति यतिनां विश्वदृश्वा ततो वः किंचित् पृच्छाम्यतनुकुतुकोत्तालवाचालवक्त्रः । दृष्टः कोऽपि क्षितिपतिरिमां क्ष्मां भ्रमद्भिर्भवद्भिः सत्त्वावासः क्वचिदपि हरिश्चंद्रसब्रह्मचारी ॥९॥ अंगारमुखः-(सोपहासम्) अये महामात्य आम । विश्वदृश्वानस्तपोधनाः प्रायो भवंति । परमस्माभिर्भूतधात्रीमशेषां भ्रमद्भिर्न भवतः सदृशो बुद्धिमानमात्यो नापि क्षितिपतिर्हरिश्चंद्रतुल्यः कोऽपि सात्त्विको दृष्टः । कुलपतिः-(राजानं प्रति सरोषम्) अहाय किं न यतसे कनकार्पणाय मध्याह्नकृत्यसमयो ननु हीयते नः । आकस्मिकं किमथवा यशसः कुलस्य लोकस्य च प्रलयमीक्षितुमुत्सुकोऽसि ॥ १० ॥ राजा-(सभयं प्रणम्य) केयं योगीश्वरदिनकरादंधकारप्रसूतिः को वाकांडे तुहिनमहसो रंगदंगारपातः । कमाल्लोकत्रितयकुशलध्यायकेभ्यो मुनिभ्यो भास्वद्वंश्यक्षितिपतिभुवः सर्वसंहारभावः ॥ ११ ॥ कुलपतिः-(साक्षेपम्) आः पाप कौकुटिक पुनः पुनर्मां विप्लावयसि । राजा-(सभयं प्रणम्य पादौ स्पृशति) कुलपतिः-(राजानं पाणिना प्रणिहन्ति) राजा-(पुनः पादौ स्पृशति) अंगारमुख:-(साक्षेपम्) १ भर्तः, अल्पद्रव्या वयं न कनकलक्षं दातुं समर्थाः । Page #24 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः । जंघाल बालचरिताध्वनि साधुवृत्त लुटाक कौकुटिक कर्मसु धार्मिकेषु । वाचाल चाटुषु किमन्यदसत्यसंध संध्याविधिं किमु विहंसि वृथा मृषोद्यैः ॥ १२ ॥ वसुभूतिः -(सरोषमिव कुलपति प्रति) इमैः किमाकस्मिकरोषविप्लुषां भरैः परब्रह्मयः कलंक्यते । भवादृशां विश्वजनीनकर्मणा मनात्मनीना न भवंति वृत्तयः ॥ १३ ॥ कुलपतिः-(सरोषम्) अस्थापितमहत्तर अरे मुखर अस्मत्परब्रह्मचिंतायां कस्त्वमसि । अंगारमुख:--अरे क्षत्रियाधम त्रैशंकव कथंकारमेतमंतरालाभिलापिनं वाचालुबटुं न निवारयसि । राजा-अंगारमुख मुनिरसि विरसानि ब्रूहि सर्वसहोऽस्मि व्रतिषु तरणिवंश्याः कच्चिदूर्जा भजते । रसमृदुलमृणालच्छेदकौतूहलेषु __ स्पृहयति पुरुहूतः किं नु दंभोलिकेलिम् ॥ १४ ॥ अंगारमुख:-नाहं व्रती किंतु व्रतिवेषो ब्रह्मराक्षसः । ततो यदि शक्तिरस्ति तदा प्रहर । __ राजा-(स्वगतम्) किममुना तापसेन सह प्रतिज्ञाविघातकारिणा कलहेन । (प्रकाशम्) कोऽत्र भोः । (प्रविश्य) कपिंजल:-आदिशतु देवः । राजा-कपिंजल अस्मदाभरणानि समानय । अंगारमुखःअस्मकिंकरस्याभरणान्यस्मदीयान्येव । ततस्तान्यासताम् । वसुभूतिः-कुलपते यावदयोध्याधिपतिः कनकलक्षं दातुं प्रभवति तावन्मां गृहाण । यदि वा कनकलक्षमूल्यान् करिणो वाजिनः पताकिनो वा कलय । Page #25 -------------------------------------------------------------------------- ________________ सत्यहरिश्चन्द्रनाटकम् | कुलपतिः - अरे जूर्णमार्जारेण भवता कमर्थं साधयामि । करिवाजिपताकिनस्तु वसुंधरया सहैवाग्रे गृहीताः । कपिंजल : तर्हि मां गृह्णातु कुलपतिः । अंगारमुखः -- अरे कपिंजल वराटिकाण पदातिपांशुना भवता कनकलक्षमुपेक्षितुं न शिक्षितः कुलपतिः । वसुभूतिः - ( सरोषं राजानं प्रति) न नाम स्युः स्वर्णक्षितिसुतकलत्राणि यतिनां तदस्मै यद्दत्तं तदिह निखिलं भस्मनि हुतम् । विहाय व्यामोहं विमृश विमृशाद्यापि नृपते तपोव्याजच्छन्नं किमपि नियतं दैवतमिदम् ॥ १५ ॥ कुलपतिः -- (सोपहासम् ) अरे मुखर सचिवापसद चिराद्यथार्थमभिहितवानसि । दुस्तपतपः करकलित स्वर्गापवर्गशर्माणो मर्त्यापदेशेन दैवतान्येव मुनयः । वसुभूतिः - (साश्चर्यमिव) मृगमदमृगप्रायैः कीर्णैर्मृगैरुटजे स्थितिः सरसपनसश्लाघ्यैर्वृत्तिः सुखोपनतैः फलैः । मदनजरुजाच्छेदी वैद्यः सदा सविधे प्रिया वपुरपगमे स्थानं मुक्तावही विषमं तपः ॥ १६ ॥ कुलपतिः - अरे जिव्हाल प्रगल्भस्व वक्रोक्तिभिस्तावद्यावद्वयं भवद्वचनानुरूपं नाचरामः । वसुभूतिः -- अये तापस अचिराय समाचर स्वाभिप्रेतम् । कुलपतिः -- ( सरोषम् ) अंगारमुख उपनय कमंडलुं येन दुरात्मानमेनं शपामि । १८ राजा - ( समयं प्रणम्य ) भगवन् किममुना सह वृथा कोलाहलेन । अहमस्मि ते निदेशस्थायी । समादिश किं करोमि । कुलपतिः -- ( साक्षेपम् ) किमस्मान् भूयो भूयः पृच्छसि । ननु शतशः समादिष्टं वंचनाकनकमुपानय । प्रत्यासीदति प्रदोषसंध्या । राजा - (विमृश्य) कोऽत्र भोः । (प्रविश्य) कुंतल : - आदिशतु देवः । Page #26 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः। राजा-(कुंतलस्य कर्णे) एवमेवम् । (कुंतलो निष्क्रांतः) (नेपथ्ये) अहं सयं चेव आगच्छिअ आहरणाइ तावसस्स उवणइस्सं । राजा-(अपवार्य) अमात्य कथमागच्छति स्वयं देवी । (ततः प्रविशति कुंतलेनादिश्यमानमार्गा देवी सुतारा रोहिताश्वश्च) सुतारा-(प्रणम्य) भैयवं गिण्ह एयाइं मे आहरणाई। अंगारमुखः-(सोपहासम्) साधु पतिव्रते साधु । कुलपति:-(सावज्ञम्) भद्रे कनकाभरणं पैतृकं भार्तृकं वा । सुतारा-(सभयम्) अजउत्तेण एअं पसाईकिअं । कुलपति:-(साक्षेपम्) अस्मदीयमेवास्माकमर्पयसि । अहो ते दक्षता। अंगारमुख:-कुलपते नन्वियं हरिश्चंद्रस्य कैतवनिधिर्भायो । रोहिताश्व:-(प्रणम्य सभयम्) में गिण्ह मिल्हिहि मे पिअरं । (राजा सवाष्पमधोमुखस्तिष्ठति) कुलपतिः-(अपवार्य) अंगारमुख सबाष्पनिरुद्धकंठः प्रत्युत्तरं दातुमस्मै बालकाय न शक्नोमि ।। अंगारमुख:-आत्मानमधुनैव मा मुंच । (पुनः सुतारां प्रति) दंभनिपुणे त्वयायं बालको वक्तुमिदं शिक्षितः । (सुतारा सबाष्पमधोमुखी तिष्ठति) अंगारमुख:-(सोपहासम्) पतिव्रते यथास्थानं गत्वा समुपविश । कुंतल:-(सरोषम्) आः पाप तापसपिशाच सतीचक्रचूडामणि देवीं सुतरामुपहससि । एष ते तरवारिणा शिरः पातयामि । अंगारमुखः-अरे कर्मकरापसद मामासादितब्रह्माणं तपोधनमधिक्षिपसि । यदि मे तपसः फलमस्ति तदिदानीं श्मशानवासी शृगालो भव । (कुंतल: शृगालो भूत्वा शब्दायमानो निष्क्रांतः) १ अहं स्वयमेवागत्याभरणानि तापसस्योपनेष्यामि, २ भगवन् गृहागैतानि मे आभरणानि. ३ आर्यपुत्रेणैतत् प्रसादीकृतम्. ४ मां गृहाण मुंच मे पितरम्. Page #27 -------------------------------------------------------------------------- ________________ २० सत्यहरिश्चन्द्रनाटकम् । राजा-(सभयं विमृश्य) भगवन्मासमेकं सहख यावर उताऽपि कनकमुपनयामि। कुलपतिः-मासानंतरं दास्यसि किं भिक्षयित्वा । राजा-इक्ष्वाकवो भिक्षां दातुं शिक्षिता न पुनर्ग्रहीतुम् । कुलपतिः-कुतस्तर्हि । राजा-आत्मानं विक्रीय दास्यामि । कुलपतिः-(भवत्वेवम्) किंतु वसुंधरां त्यज मे सत्वरम् । राजा-(सरोमांचम्) त्यज धरणिमिमां मे नास्मि सोढा तवाहं कियदिदमुपदिष्टं नस्त्वया तापसेंद्र । ननु दिनकरवंश्याः खस्य संधां ससंधां विरचयितुमसूनप्यस्ततंद्रास्त्यति ॥ १७ ॥ कुलपति:-(अपवार्य अंगारमुखं प्रति) अहो सत्यमहो सत्त्वम् । कतिसात्विकपुरुषरत्नगर्भा भगवती वसुमती । सुतारा-(अपवार्य सास्रम्) अमच किंपयं अह्माण अरिहमावडिअं। वसुभूतिः -(सबाष्पम्) देवि किं मां पृच्छसि । देवं पृच्छ । राजा-मुने वसुंधरामपहाय व ब्रजामि । कुलपतिः-यत्र नोपलक्ष्यसे । राजा-(विमृश्य) देवि अंतःपुरे गच्छ । सुतारा-अहंपि अजउत्तेण सह आगमिस्सं । राजा--(सबाष्पम्) शीतालुस्तनयः शयालुरथवोष्णालुः प्रकृत्या महान् शीतोष्णश्रमखेदवेदनकर घोरांतरं प्रांतरम् । पंथानं गतवाहना च भवती नो गाढमूर्जस्वला तत्त्वं देवि समं सुतेन शिशुना तिष्ठात्र यामो वयम् ॥१८॥ मुतारा-जं भोइ तं भोउ । अहं अजउत्तेण सह आगमिस्सं। १ अमात्य किंपदमस्माकमरिष्टमापतितम् . २ अहमपि आर्यपुत्रेण सहागमिष्यामि. ३ यद्भवति तद्भवतु अहं आर्यपुत्रेण सहागमिष्यामि. Page #28 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः । २१ कुलपतिः-पतिव्रते कुत्र केन सह चलितासि । सुतारा-भयवं अजउत्तेण सह देसंतरं गमिस्सं । कुलपतिः---अस्मदायत्तां भवतीं त्रैशंकवो नेष्यतीतिमहदाश्चर्यम्। वसुभूति:-अये तापस अनभिज्ञोऽसि लोकव्यवहाराणाम् । पतिदेवता हि स्त्रियो न परायत्ताः । कुलपतिः--(सरोषहासम्) अये लोकव्यवहारनदीष्ण महामात्य एतान्येवाक्षराणि महासत्वचूडामणिमेनं महाराजमध्यापय । (हरिश्चंद्र प्रति साक्षेपम्।) उदात्तावतंस पतिदेवतेयं सुतारा न ममायत्ता । राजाअश्वीयस्य च हास्तिकस्य च तथा स्त्रैणस्य पौंस्नस्य च ... रथ्यानामथ मंत्रिणः किमपरं देव्याश्च वत्सस्य च । स्वामी तापस एव संप्रति ततो यद्येष देव्या मया ___ सार्द्ध संसहते गतिं सतनया कामं समागच्छतु ॥ १९ ॥ कुलपतिः-(अपवार्य) अंगारमुख सेयं सत्त्वस्य परा काष्ठा । अंगारमुखः--पुरंदरनिर्णीतोऽर्थः प्रलयेऽपि किं विघटते । सुतारा-(प्रणम्य) भैयवं अणुजाणेहि मं । कुलपतिः--एवमस्तु । किंत्वाभरणानि विमुच्य वसनमात्रेण नेपथ्येन गंतव्यम् । (राजा मुकुटादीन्याभरणानि विमुंचति) सुतारा-भैयवं अविहवालख्खणं मे आहरणं चिठ्ठउ । कुलपतिः-त्रैशंकव एवाविधवालक्षणं भवत्याः । सुतारा-सबाष्पमाभरणानि विमुंचति । वसुभूतिः --(सरोषम्) अये ब्रह्मराक्षस । तुभ्यं ददद्वसुमती ननु तापसाय ____ विज्ञः किमेष नृपतिः परिहासपात्रम् । त्वं तापसः किमथवा भवसंगभंग श्रद्धालुरस्तविषयः कलयन्नमुष्मात् ॥ २० ॥ १ भगवन् आर्यपुत्रेण सह देशांतरं गमिष्यामि. २ भगवन् अनुजा. नीहि माम्. ३ भगवन् अविधवालक्षणं मे आभरणं तिष्ठतु. । Page #29 -------------------------------------------------------------------------- ________________ सत्यहरिश्चन्द्रनाटकम् | कुलपतिः - ( सरोषम् ) नाहं परिग्रहनिवृत्तमना मुनींद्रो नाप्येष कृत्यविदुरो नृपतिश्च हास्यः । दानांतराय परिबोधितशापसर्प २२ ग्रासीकृतः किमुत रे सचिवाधमस्त्वम् ॥ २१ ॥ अंगारमुख उपनय कमंडलुम् । (अंगारमुखस्तथा करोति) कुलपतिः - अरे वाचाल ! अनुभव मुखरतायाः फलम् । यदि मे सप्रभावं तपस्तदिदानीं शुको भव । ( कमंडलुतश्रुलुकमादाय भूमौ क्षिपति ) (वसुभूतिः शुको भूत्वा नभस्तलमुत्पतितः) सर्वे - ( सभयं प्रणम्य ) परमेश्वर उपसंहर क्रोधम् । समलंकुरु सत्वरमाश्रमम् । एते वयं भवतो वसुंधरामपहाय गता एव देशांतरे । (नेपथ्ये) सप्तार्णवीनिवसनामवनीं गृहीत्वा लक्ष्मीविशेषकममुं दिशतो वनाय । आः पाप तापस किरात कृशानुकीर्णं वज्रं न किं पतति मूर्द्धनि ते नभस्तः || २२ ॥ राजा - (सभयमपवार्य) कपिंजल निवारय पुरलोकम् । अपरथा तापसः क्रत्स्यति । ( कपिंजलो हस्तसंज्ञया वारयति) कुलपतिः -- ( अनाकर्णितेनैव ) त्रैशंकव किमद्यापि विलंब: । राजा - भगवन् एष गत एव । (पुनरंजलिं बद्धा) इक्ष्वाकुक्षितिपालपौरुषकथासाक्षिण्ययोध्ये नमः पौराः सांप्रतमेष वो मुनिरधिष्ठाता गुरुर्दैवतम् । दत्तास्मै यदियं मया वसुमती सप्तार्णवीमेखला भावद्वंश्यभुवां हि भूतलभुजां सत्यत्रतं पालितम् ॥ २३ ॥ ( वणिजो मंद मंदं रुदंति) राजा - देवि अवलंबस्व मद्वचनम् । अत्रैव तिष्ठ । अशिक्षितपादचारा न शक्नोति भवती क्रमितुं दर्भाकुरविधुरासु वनवसुंधरासु । Page #30 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः । सुतारा - 'जं भोइ तं भोउ । अहं आगमिस्सं । । राजा त्यजन् हेम्नो लक्ष्यं चतुरधिकांचीं च वसुधां सुधां भोभिः स्नानादपि समधिकां प्रीतिमभजम् । सवत्सामेतां तु प्रवसनपरां वीक्ष्य दयिता मिदानीं मन्येऽहं ज्वलद्नललीढं वपुरदः ॥ २४ ॥ (नेपथ्ये) असूर्यं पश्यायाः प्रकटमिदमालोक्य सहसा सदस्यगं देव्याः शिबिनृपतिदुग्धार्णवभुवः । अयं तिग्माभी शुर्भरतकुलमूलप्रसविता वधूगात्रस्पर्शाच्चकितचकितः कर्षति करान् ॥ २५ ॥ कुलपतिः - (ऊर्ध्वमवलोक्य) कथं प्रदोषसंध्यावसानसमयः । महाराज व्रजामो वयमाश्रमम् । राजा --- विजयंतां कुलपतिमिश्राः । कपिंजल अनुव्रज मुनीन् । (कुलपतिरंगारमुख कपिंजलाभ्यां सह निष्क्रांतः) राजा- - ( वणिजः प्रति अंजलिं बद्धा) क्रोधोद्बोधवशाच्चिरं परिचयादुग्रप्रतापोद्धुरस्कंधाभोगभरात्सविस्तरमदादुल्लंघशाठ्यादथ । राज्यश्रीप्रणयोन्मदिष्णुहृदयस्फारमयोच्छृंखलै रस्माभिर्यदि किंचिदप्यपकृतं तत् क्षाम्यत क्षाम्यत ॥ २६ ॥ (सर्वे रुदंति ) राजा - ( अलं रुदितेन) व्रजत स्वस्थानं यूयम् । वयमपि देशांतराय संरभामहे । (इति निष्क्रांताः सर्वेऽपि ) द्वितीयोऽङ्कः समाप्तः ॥ १ यद्भवति तत् भवतु | अहमागमिष्यामि . २३ Page #31 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः। (ततः प्रविशति राजा सुतारा रोहिताश्वश्च) राजा-(विलोक्य) कथं प्रभातप्राया रजनिः। देवि पश्य पश्य । विश्वंभराभरवियोगवतो ममैव सत्त्वं विलोकयितुमुत्सुकपादचारः । तिग्मांशुवंशविनिवेशनिदानमेष पूषाधिरोहति शिखामुदयाचलस्य ॥ १ ॥ सुतारा-(सखेदम्) अजउत्त कित्तिअं अज्जवि गंतव्यं । राजा--देवि पर्याप्त एव पंथाः । प्राप्ता वयं वाराणसीम् । पश्यति न देवी पुरः पुरस्याभिज्ञानानि वापीनिकेतनापणवनचैत्यादीनि । सुतारा—(निःश्वस्य) अजउत्त मग्गपरिलंबणेण परिसंतमि । राजा--(विलोक्य) नक्तंदिनं चरणचंक्रमणेन परिश्रांता देवी । तदा भागीरथीशीकरनिकरव्यतिकरसांद्रस्तबकस्यास्य चंपकस्य मूले विश्राम्यतु देवी। (राजा सुतारा रोहिताश्वश्च सखेदं निषीदंति) राजा-संवाहयामि चरणचंक्रमणेन बालमृणालकोमलानि सुचिरमायासितानि ते अंगानि । चरणतलाभ्यां च दर्भाकुरमपनयामि । (सुतारा मंद मंदमधोमुखी रोदिति) रोहिताश्वः–ताय कंटकेण विद्धो मे पाऊं। राजा--(सकरुणम्) पुत्र कंटकेन पादकस्ते विद्धः । उपनय पादकम् । येन कंटकमपनयामि । (नाट्येन कंटकमपनयति) रोहिताश्वः—(सास्रम् ) ताय बुभुख्किउमि । राजा-(ससंरंभम्) वत्स त्वां बुभुक्षा बाधते । कोऽत्र भोः । अये उपनय वत्साय मोदकम् । (विलोक्य सलजम्) कथमग्रतो न कोऽपि पार्श्वतोऽपि न कश्चित् । १ आर्यपुत्र कियदद्यापि गंतव्यम्. २ आर्यपुत्र मार्गपरिलंबनेन परिश्रांतास्मि. ३ तात कंटकेन विद्धो मे पादः. ४ तात बुभुक्षितोऽस्मि. Page #32 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः । सुतारा - अज्जउत्त किं नेदं । राजा - देवि पूर्वसंस्कारो विप्लावयति । रोहिताश्वः - अंब बुभुकिउ । (सुतारा सवाष्पमधोमुखी तिष्ठति ) । रोहिताश्वः - अंब बुभुकिउ सुतारा - चक्कवट्टिपुत्तलख्कणसमलंकिअसरीरस्स भरदकुलजादस्स दे किं एदमुवत्थिदं । ( उच्चैः स्वरं रोदिति) राजा किं देवि ताम्यसि विषीदसि किं कथं च संतप्यसे स्मरसि किं नृपतिस्थितीनाम् । सत्यव्रताचरणपीवरगौरवाणां निष्कंटकं मृगघने विपिनेऽपि राज्यम् ॥ २ ॥ रोहिताश्वःतीय बुभुकिउ | राजा - (स्वगतम्) कुतूहलदर्शनेनात्यंतरयाम्यस्य चेतः । (प्रकाशम्) वत्स पश्य । गंगेयं कलहंसिकेयमपरा सेयं लघुः सारसी कोकद्वंदमिदं शुकोऽयमपरः सोऽयं कलः कोकिलः । नृत्यत्येष मुहुः कलापवलयं व्याधूनयन् बर्हिणः कांतां मंद्ररुतस्तथैष परितः पारावतो नृत्यति ॥ ३ ॥ रोहिताश्वः - ऐसा गंगा । राजा --- वत्स एषा गंगा । रोहिताश्वः - एैसा कलहंसिआ । राजा -वत्स एषा कलहंसिका । रोहिताश्वः - तीय बुभुकिउमि । राजा - वत्स क्षणं मर्पय यावत्पुरीं प्रविशामः । २९ १ आर्यपुत्र किंन्विदम्. २ ३५ तात बुभुचितोऽस्मि ४ चक्रवर्तिपुत्रलक्षणसमलंकृतशरीरस्य भरतकुलजातस्य ते किमिदमुपस्थितम्. ६ एषा गंगा. ७ एषा कलहंसिका ८ तात बुभुक्षितोऽस्मि. Page #33 -------------------------------------------------------------------------- ________________ सत्यहरिश्चन्द्रनाटकम् | रोहिताश्वः - तीय न सक्केमि विलंबिउं । अयिचिरं बुभुखिक उह्नि । अंब मोअगे देहि मे । २६ राजा - ( सबाष्पम् ) राज्यस्य तस्य चतुरर्णवकूलमूलसंक्रांतकांतयशसः फलितं तदेतत् । वत्सस्य ताररुदितध्वनिशुष्कतालोर्यप्रातराशकवलोपनयेप्यशक्तिः ॥ ४ ॥ भवतु तावदेनां वृद्धां न्यध्वगां पुरीप्रवेशमार्गं पृच्छामि । (ततः प्रविशति मूर्ध्निकृतपाथेयभांडा वृद्धा) राजा - आर्ये देशांतरिणो मार्गानभिज्ञा वयम् । तदावेदय पुरीप्रवेशसरणीम् । वृद्धा - महाभाय चक्कवट्टिलक्खणाई दे सरीरयह्नि । इदिसी अवत्था । ता किंणेदं । राजा - आये अवस्थाविरुद्ध मस्मच्चरितमश्रद्धेयम् । ततः किं तेन ज्ञातेन । रोहिताश्वः -- तौय बुभुकिउह्नि । वृद्धा - (सकरुणम्) त्तय गिव्ह एवं मे भोअणं (पाथेयमर्पयति ) राजा - आर्ये न वयं परतोऽनुकंपाभोजनमभिलषामः । वृद्धा - जई एव ता एइणा मग्गेण पुरं वच्च । (इत्यभिधाय निष्क्रांता ) राजा - यद्यपेतश्रमासि तदा पुरीं प्रविशामः । सुतारा - (सास्रम् ) अपरिभट्ट [ र अपरिब्भट्ठो] रिउउललज्जो एकहं पुरं पविसिऊं सक्कस्सदि अज्जउत्तो । राजा- - (सावष्टंभम् ) १ तात न शक्नोमि विलंबितुम् । अतिचिरं बुभुक्षितोऽस्मि | अंब मोदकं देहि मे. २ महाभाग चक्रवर्तिलक्षणानि ते शरीरे । ईदृश्यवस्था । तत् किमिदम्, ३ तात बुभुक्षितोऽस्मि ४ पुत्रक गृहाणैतन्मे भोजनम् ५ यद्येवं तदेतेन मार्गेण पुरं व्रज ६ अपरिभ्रष्ट [ राज्यपरिभ्रष्ट ] रिपुकुललज्ज एकाकी पुरं प्रवेष्टुं शक्ष्यत्यार्य पुत्रः. Page #34 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः । परिभ्रष्ट राज्यात्परिहृतसमीपः परिकरैर्ननामांतर्द्धये किमपि नच लज्जे रिपुकुलात् । प्रतिज्ञातं कृत्यं घटयितुमुपारूढमनसा मुदात्तानां सोऽयं दुरितपरिरंभो ननु महः ॥ ५ ॥ सुतारा -- ( सबाष्पम् ) 'तं किंपि दिवत्थू अतक्विअं कज्जमेअमुत्थरियं । अप्पाणस्स परिहवो महूसवो जत्त वैरीणां ॥ ६ ॥ राजा --- किमेवमभिदधासि । श्रियो वा स्थाम्ना वा विधिभिरपरैर्वा किमपरं परेभ्यो हीनः स्यां यदि ननु तदानीं परिभवः । पुरा चीर्णं कर्म प्रथयति यदेतां तु घटनां परेषामत्रार्थे प्रसरतु कुतस्त्यो मदमहः ॥ ७ ॥ तदलमपरमीमांसया । प्रयतस्व पुरीमध्यमध्यासितुम् । (सुतारा सखेदमुत्थाय परिक्रामति) २७ राजा - (विमृश्य) देवि प्रत्यासीदति कनकदानावधिर्मासः । तद्विचिंतय कनकसंपत्तिम् । सुतारा - (सखेदम् ) मं एदं वत्सं विक्किणिय हिरणं गिरहदु अज्जउत्तो । राजा - ( साक्षेपम् ) किमेवमभिदधाति भवती । यदि विक्रयस्तदा सर्वेषां न पुनरेकस्य कस्यचित् । रोहिताश्वः - ( सालम् ) तौय मं मा विक्किणेसु । अंब निवारेहि तां जेण मं न विक्कणे | ( सुतारा तारखरं रोदिति ) राजा- - ( सवाष्पं निरुध्य) वत्स कस्त्वां विक्रेष्यति । १ तत् किमपि दैववस्तु अतर्कितं कार्यमेकमुत्तीर्णम् । आत्मनः परिभवो महोत्सवो यत्र वैरीणाम् २ मामेतं वत्सं विक्रीय हिरण्यं गृह्णात्वार्यपुत्रः. ३ तात मां मा विक्रीणीहि । अंब निवारय तातं येन मां न विक्रीणाति, 1 Page #35 -------------------------------------------------------------------------- ________________ सत्यहरिश्चन्द्रनाटकम् । रोहिताश्वः-तुम मं विक्कणेसि । अंब अहं तुह समीवे चिहिस्सं । न उण परघरे गमिस्सं । राजा--(अपवार्य) देवि निवारय कथमपि वत्सं । न शक्नोमि समाकर्णयितुं सकरुणं वचः । सुतारा-पुत्तय तुमं चक्कवट्टी भविस्सइ तावि कोवि तुमं न विक्किणस्सदि । चिट्ठ मा रुअसु । राजा-(विलोक्य) देवि यथायमितस्ततः सविक्रयाकुलो लोकः परिभ्राम्यति तथा व्यक्तं भृत थिकेयम् । तदस्यामूर्द्धस्था एवास्महे । अपि ना को ... क्रीणीयात् । (सर्वे परिपाट्या तिष्ठति । राजा किमपि विमृश्य निष्क्रम्य च गृहीतदर्भपूल: प्रविशति) सुतारा-अजउत्त किं नेदं । राजा-देवि क्रेतव्यमानुषाभिज्ञानमिदम् । (आत्मनः सुताराया रोहिताश्वस्य च शिरसि दर्भपूलं निवेशयति) रोहिताश्वः-(सास्रम्) ताद मा मह सिरसि दब्भं पख्किवेसु (शिरो धूनयति) राजा-(सवाष्पम् ) वत्स विधेहि मे वचनम् । तुभ्यमहं हस्ति दास्यामि । सुतारा-(सबाष्पम्) साँ कत्थ रज्जनत्थिप सा विक्कयविडंबणा कत्थ । एगंमि विही जंमे जम्मसयं दसइ कियंतो ॥८॥ राजा-(सधैर्यम्) देवि १ वं मां विक्रीणासि । अंब अहं तव समीपे स्थास्यामि । न पुनः परगृहे गमिष्यामि, २ पुत्रक वं चक्रवर्ती भविष्यसि तदापि कोऽपि त्वां न विक्रेष्यति । तिष्ठ मा रुदिहि. ३ आर्यपुत्र किमेतत्. ४ तात मा मम शिरसि दर्भ प्रक्षिप. ५ सा कथं राज्याधीशता सा विक्रयविडंबना कथम् । एकस्मिन् विधिर्जन्मनि जन्मसर्व दर्शयति कियत्. Page #36 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः । अनुसर चरितानि सात्विकानामलममुना परिदेवितेन देवि । अयमपि च दधाति रोहिताश्वो भयमवलोक्य तवेदृशीमवस्थाम् ॥ ९ ॥ राजा - (विमृश्य ) ( सुतारा मंद मंद रोदिति ) सहास्तिकांसपुरकोशदेशानुगा तथमेवमभिर्तये मुनिजनाय दत्ता मही । श्रवांसि यो त डुः शिखिशिखाभिरासिंचती प्रियातनयविक्रयश्रुतिरकीर्तिभूत्यै यथा ॥ १० ॥ ततस्त्वं देवि वत्समादाय पितृगृहं व्रज । १ सुतारा - ( साक्षेपम् ) विगयरज्जं अज्जउत्तं परिवच्चअ पिदहरं वचंती सयं चेव अह दुज्जणा जाया । जउ भृतकापणवीष्पसामन्नं सव्वत्थवि विह्वमडप्फरपरेसु दिअहेसु सयणाण दुज्जणाणं विहवाभावं मिउ विवेत्ति ता पढमं मह विक्कणउ । पत्था अज्जउत्तस्स । (ततः प्रविशति द्विजः ) द्विजः -- सांप्रतं भृतिकाशून्यं मे सदनम् । तदहमस्यां भृत'पणवीथ्यां भृतिकां कामपि विलोकयामि । (पुरो विलोक्य सकौतुकं तारां प्रति) का त्वं सुंदरि कस्तवात्र जनकस्त्राता सुहृद्वांधवः कः पुण्यैकनिधिः सरोजसुभगं पाणिं तवापीडयत् । कुत्रत्यासि किमर्थमिदुवदने सौभाग्यसौरभ्यभू रात्मायं दुरितस्य केलिसदने दास्याय संकल्प्यते ॥११॥ (सुतारा सवाष्पमधोमुखी भवति) द्विज: - ( विलोक्य राजानं प्रति) २९ १ विगतराज्यमार्यपुत्रं परिवर्ज्य (परित्यज्य ) पितृगृहं व्रजंती स्वयमेवाहं दुर्जना जाता । यदा भृतकापणवीथिभूम्यां सर्वत्रापि विभवगर्वपरेषु दिवसेषु सज्जनानां दुर्जनानां विभवाभावे विवेक इति तत् प्रथमं मम विक्रयः पश्चादार्यपुत्रस्य. Page #37 -------------------------------------------------------------------------- ________________ सत्यहरिश्चन्द्रनाटकम् । आकारः क्षितिभारधारचतुरः श्रेणिर्वपुर्लक्ष्मणां विश्वस्यापि दरिद्रतानवलताकंदच्छिदाशंसिनी । वेषस्त्वेष मलीमसः शिरसि च क्रेतव्यचिन्हें कुशः ___ स्थानं कर्मकरापणाध्वनि ततः कस्त्वं कथां ब्रूहि नः॥१२॥ राजा--(सखेदमिव) सखे प्राचीनं नौ विभवमथ वृत्तं कुलमथो ___ समाकास्तोकं मनसि खलु शाकल्टयिता । किमेतैस्तैतैिरभिलषसि भृत्यां यदि तदा गृहाणैतां नो चेन्निजमपरकृत्यं विरचय ॥ १३॥ द्विजः--(ऊर्ध्वमवलोक्य सखेदम्) आजीवितांतमाधेयं परकर्मपुरोऽपि यैः । गर्भ एव न किं ध्वस्तास्त्वया ते दैव मानवाः ॥ १४ ॥ (विमृश्य) भद्रे किं भवतीमूल्यम् । (सुतारा सवाष्पमधोमुखी भवति) द्विजः-(राजानं प्रति) महाभाग किं मूल्यमस्याः । राजा--(बाष्पनिरुद्धकंठः क्षणं तुष्णीमास्ते । पुनर्विमृश्य) आर्य देशांतरिणो वयम् । नात्रत्यभृतकानां मूल्यमवधारयामः । ततस्त्वमेव समुचितं मूल्यं किमपि प्रयच्छ। (इत्युक्त्वा सवाष्पमधोमुखो भवति) द्विजः-सुवर्णसहस्रपंचकम् । राजा-अस्तु तर्हि । द्विजः-अप्रतिषिद्धमनुमतम् । ततो गृहाणेदं कनकम् । (राजा लज्जया पाणिं प्रगुणयति । द्विजो राज्ञो वस्त्रांचले स्वयमेव कनकं बध्नाति) राजा--(कथं कथमपि वाष्पं निरुभ्य) आर्य द्विगुणेन कनकेनास्याः पुनर्विमोक्षः । द्विजः-आवश्यकमेतत् । (पुनः सुतारां प्रति) भृतके अग्रतोभव । (सुतारा मंद मंदं रुदती परिकामति) Page #38 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः । रोहिताश्वः-अंब अहंपि आगमिस्सं । सुतारा-(सबाष्पम्) पुत्तय तावतं तुमं तायस्स पासे चिट्ठ जाव अहं तुह मोअगं आणेनि । रोहिताश्वः-अब तएसह आगमिस्सं । द्विजः-(सरोषम्) भृतके कोऽयं कालविलंबः । सत्वरमग्रतो भव। (सुतारा सभय परिकामति । रोहिताश्वोरुदन् वस्त्रांचलमालंबते । द्विजः सरोषं रोहिताश्वं करतलेनाहत्य पातयति । सुतारा तारखरं रोदिति । रोहिताश्वः पुनरुत्थाय वस्त्रांचलमालंबते । द्विजः पुनः पादेनाहत्य पातयति) राजा-(विलोकयितुमक्षमः पाणिभ्यां लोचने पिधाय क्षणमास्ते । पुनः सदैन्यम्) आर्य नायं बालको मातरं विना तिष्ठति । ततो वेतनं किमप्येतदीयं प्रयच्छ। अयमपि युष्मद्वेश्मनि किमपि कर्म करिष्यति । द्विजः-(सरोषम्) अहमेनं कर्मविघातकारिणं मुधापि न गृह्णामि । सुतारा—(सवाष्पम्) अज्ज पसायं करिय एयंपि गिण्ह । एइणाविणा फुट्टइ हिययं मे। द्विजः-(विमृश्य) एतस्यापि सुवर्णसहस्रं मूल्यमस्तु । राजा-अस्तु । द्विजः-(सुवर्ण समर्प्य सुतारां प्रति) भृतके अग्रतो भव । (सुतारा सरोहिताश्वा मंद मंदं द्विजेन सह रुदती निष्क्रांता) राजा-दूरक्षणीयमिदं सुवर्णम् । ततो कुलपतिरिदानीमेवागत्य यदि कलयति तदा समीचीनं भवति । (ततः प्रविशति कुलपतिः । अंगारमुखश्च ) कुलपतिः-(सरोषं पराङ्मुखो भूत्वा) अरे प्रतिज्ञाभ्रष्ट अदृश्यमुख उपनय वंचनाकनकम् । राजा-(विलोक्य सप्रमोदम्) कथं प्राप्त एव कुलपतिः (पुनः प्रणम्य) भगवन् कियदपि कनकं गृहाण । १ अंब अहमप्यागमिष्यामि. २ पुत्रक तावत् त्वं तातस्य पार्श्वे तिष्ठ यावदहं तव मोदकमानयामि. ३ अंब त्वया सहागमिष्यामि.३ आर्य प्रसाद कृत्वैतमपि गृहाण । एतेन विना स्फुटति हृदयं मे. Page #39 -------------------------------------------------------------------------- ________________ सत्यहरिश्चन्द्रनाटकम् | कुलपतिः - ( सरोषम् ) तिष्ठतु कनकं ग्रहीष्यामो वयम् । राजा -भगवन् न नाम मे कश्चिदाशयदोषः । दयितासुतौ विक्रीय यावत्कनकं प्राप्तं तावदुपनीतम् । अंगारमुखः - अये त्रैशंकव किममुना कुत्सितकुटुंब विक्रयेण । प्रार्थय चंद्रशेखरमत्र भूपतिम् । येनायमेकहेलयैव कनकलक्षं प्रयच्छति । ३२ राजा - किमेवमभिदधासि । हरिश्चंद्रः खल्वहं न नाम शतशः पराभूतान् प्रत्यर्थिनः प्राणात्ययेऽपि प्रार्थये । अपकृत्यापकार्येषु ये भवत्यर्थिनः पुनः । तेषु मन्ये मनुष्यत्वं विधिवाद्धिक विक्रिया ॥ १५ ॥ कुलपतिः - अरे नीच अस्मत्कनकदानसमये महत्त्वकार नाटयसि । राजा -मुनींद्र मा कुपस्तुभ्यं लभ्यं यच्छामि कांचनम् । विधाय निर्विषादस्य निषादस्यापि दास्यताम् ॥ १६ (ततः प्रविशति कौपीनमात्रपरिधानः कपिललंबुकेशः करवलितयष्टिर्वृद्धो निषादनिषाद : - ( विलोक्य राजानं प्रति) अले मत्थयनिहिददब्भपूले तुमं । किं कंमकरे । आदु अवलोकवि । राजा -- कर्मकारोऽस्मि । निषादः - किं कम्मं कलिस्सदि । राजा - (दिशो विलोक्य स्वगतम्) अस्ताभिमुखो गभस्तिमान् अतिक्रांता ऋयिकालापवेला । अनुपलक्षितो नगरेषु निशि निवा न लभते । विलंबमसहिष्णुश्च तापसः । तदहमिदानीं श्वपाकस्या कर्म करोमि । ( प्रकाशम्) करिष्यामि ते कर्म । '' कुलपतिः - (अपवार्य सरोमांचम् ) महासत्त्वचूडामणे नमस्ते निषादः – भागीरथी दक्षिणमसाणाहिवइ कालदंडाभिहाणे चं १ अरे मस्तकनिहितदर्भपूल कस्त्वं । किं कर्मकरः । अत्रावलोकर २ किं कर्म करिष्यसि. ३ भागीरथी दक्षिणश्मशानाधिपतिः कालदंड | भिधानश्चंडालोऽहम् । श्मशाने यदुत्पद्यते तस्यार्धं राजा गृह्णाति अपरस्यार्घस्यैको भागो ममैको भागस्तव. Page #40 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः । ३३ डाले हगो । मसाणे जं उपज्जति तस्स अद्धं राया गिण्हाहि । अवलस्स अद्धस्स भादोभाया मह एगो भाउ तुह । राजा - एवमस्तु । अंगारमुखः - (अपवार्य सरोमांचम् ) अवितथवचनाय नमो भगवते पाकशासनाय । निषादः - अये किं कम्म करिस्सदि । राजा - यदादिशसि । निषादः - अले अद्धद्धाई चियाहिंतो दारुणि कट्टियव्वाइं । मइगसरीराउ अच्छायणवत्थं गिहीयवं मसाणं रखियवं । अनंपि जं लाया भणे तं कायवं । राजा - वं स्वामी श्वपचासि मे परमतेः सोहं पुनर्वेतन - क्रीतस्ते भृतस्ततः किमपि यषे करोम्येष तत् । अर्धप्लुष्टमपाहरामि चितितः काष्ठं शवस्योर्ध्वतो गृच्छादनमादधामि परितो रक्षां श्मशानस्य च ॥ १७॥ निषाद : – (कुलपतिं प्रति) तापसा एसे मे कम्मकले इत्थ तुम सक्खी । राजा - अस्मदीयवेतनं कुलपतये दातव्यम् । निषाद : - एवं कैलिस्सं । कुलपतिः -- ( अंगारमुखस्य कर्णे) एवमेवम् । अंगारमुख : - ( अपवार्य) यदि मया मांत्रिकेन भाव्यं तर्हि त्वया राजकुमारेण भवितव्यम् । निषादः - अले अग्रउ भव । अंगारमुखः– (सविचिकित्सं राजानं प्रति) त्वामात्मान्वयजातमेष भगवांस्तेजस्विनामग्रणीः कुर्वाणं प्रविलोक्य कुत्सिततमं चंडालदास्यं मुहुः । १ अये किं कर्म करिष्यसि. २ अरे अर्धदग्धानि चिताभ्यो दारूणि कार्षितव्यानि । मृतशरीरादाच्छादनवस्त्रं गृहीतव्यम् । श्मशानं रक्षितव्यम् । अन्यदपि यद्राजा भणति तत् कर्तव्यम्. ३ तापस एष मे कर्मकरोऽत्र त्वं साक्षी, ४ एवं करिष्यामि ५ अरे अग्रतो भव. Page #41 -------------------------------------------------------------------------- ________________ ३४ सत्यहरिश्चन्द्रनाटकम् | मातंग प्रणयादिव प्रतिवहन् म्लानायमानं वपुः स्नातुं गच्छति पश्चिमस्य तरणिर्मध्येजलं वारिधेः ॥ ९८ राजा - मुनींद्र किमभिदधासि । उपादेयं हेयं किमथ सफलं निष्फलमहो परामर्शानेवं विद्धति यदृच्छादृतधियः । प्रतिज्ञानिर्वाहत्रत निगडितस्वांतगतयः पुनः कृत्याकृत्यस्फुरदुरुविकल्पेषु कृपणाः ॥ १९॥ तद्गच्छत यूयं कनकमिदमादाय । अहमपि निषादपतिना सह व्रजामि | ( इति निष्क्रांता: सर्वे) तृतीयोऽङ्कः समाप्तः ॥ Page #42 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः (ततः प्रविशति सिंहलकेन निर्दिश्यमानमार्गोऽमात्यः सत्यवसुः । शुकपंजर - हस्तः पुरुषश्च ) सत्यवसुः - सिंहलक किमद्य प्रभात एवास्मानाकारयति देवः । सिंहलकः – किमपि पर्यालोचयितुम् । - । सत्यवसुः - अरे पुरुष व भवानेवं विहंगराजमाप्तवान् । पुरुषः- चंपापुरीवणे एस एगागी पढतो मए सुणिदो । तदो धरीय चंदसेहरणिमित्तमाणिदो | सत्यवसुः - सिंहलक व सांप्रतं देवः । सिंहलक: - एष पुरः सौधोपवने । (ततः प्रविशति राजा चंद्रशेखरः । सुनंदप्रभृतिश्च परिवारः ) राजा - सुनंद पूर्वं मांत्रिकः क्कासीत् । सुनंदः -- देव पूर्वमुज्जयन्यामासीत् । सांप्रतं पुनरिहायातः । सत्यवसुः -- ( पुरुषं प्रति) यावदहं भवंतमाकारयामि तावत्त्वयात्रैव स्थातव्यम् । सिंहलक :- ( उपसृत्य ) देव अमात्यः प्रणमति । (सत्यवसुः प्रणम्योपविशति ) राजा - (सकरुणमिव ) अमात्य पौराः कर्मसु धार्मिकेषु निरता वर्णाश्रमाः श्रेयसीं तन्वंति स्थितिमुज्ज्वलैौजसि वयं वर्तामहे वर्त्मनि । संहारं प्रतिमंदिरं प्रतिपथं प्रत्यापणं कुर्वती सेयं मारिरुपस्थिता तनुमतां कस्मादकस्मात्पुरि ॥ १ ॥ प्रतीहारः -- ( प्रविश्य) देव लंबस्तनी कुट्टिनी द्वारि वर्तते । सत्यवसुः - (सरोषमिव ) अनवसर इदानीं परप्रवेशस्य । (नेपथ्ये) हा सव्वंगसुंदर हा पुत्ति अणंगलेहे कहं तुह वयणं मंदभाइणी पुणोवि पेक्खिस्सं । १ चंपापुरीवन एष एकाकी पठन् मया श्रुतः । ततो धृत्वा चंद्रशेखरनिमित्तमानीतः. २ हा सर्वागसुंदरि हा पुत्रि अनंगलेखे कथं तव वदनं मंदभागिनी पुनरपि द्रक्ष्यामि . Page #43 -------------------------------------------------------------------------- ________________ ३६ सत्यहरिश्चन्द्रनाटकम् | राजा - मंजरक कोऽयं प्रलपति । प्रतीहारः - देव लंबस्तनी प्रलपति | राजा - व्यक्तमकालमरणाकुला किमपि विज्ञपयितुकामेयम् । प्रविशतु वराकी । मंजरीक शीघ्रं प्रवेशय । ( प्रतीहारो निष्क्रांतः ) (ततः प्रविशति संभ्रमप्रसूतप्रभूतश्वा सद्विगुणतर मेदुरोदरा लंवस्तनी) लंबस्तनी - भट्टा मुसि । परित्ताहि परित्ताहि । राजा - विश्रब्धमभिधीयताम् । केन मुषितासि । लंबस्तनी - ( सोरस्ताडम् ) हेयासेण दिव्वेण । राजा - कथमिव । लंबस्तनी - मैह पुत्ती अणंगलेहा भुअंगेण सह रत्तिं सुहं कीलिअ पत्ता । अह पभाअसमयंमि रोगं विणा विवन्ना चिट्ठs | अवरोवि लोगो एवं अकाले विवज्जदि । राजा- - अमात्य अत्यंतमरिष्टम् । लंबस्तनी - ( सरोषम् ) भट्टा अनीइकारि तुमं । तउ एव अयालमरणं लोआणं । सत्यवसु:--- (सरोषम्) अहो निर्लज्जता अहो कर्कशभाषित्व - मस्याः । राजा - प्रकृत्यैव निर्लज्जा कर्कशभाषिणी चेयं । सांप्रतं पुनरातचि । ततोऽस्या वचोभिर्न कोपितव्यम् । किंत्वधुनाऽकालमरणनिवारणोपायश्चितनीयः । सत्यवसुः - देव अत्रार्थे मांत्रिकाः प्रगल्भंते । राजा - उज्जयनीतः समायातोऽस्ति मांत्रिकः । सत्यवसुः समाहूयतां मांत्रिकस्तर्हि । राजा - सुनंद मांत्रिकं सत्वरमाकारय । १ भर्तः मुषितास्मि । परित्रायस्व परित्रायस्व. २ हताशेन दैवेन. ३ मम पुत्र्यनंगलेखा भुजंगेन सह रात्रिं सुखं क्रीडित्वा प्रसुप्ता । अथ प्रभातसमये रोगं विना विपन्ना तिष्ठति । अपरोऽपि लोक एवमकाले विपद्यते. ४ भर्तः अनीतिकारी त्वम् । तदैवाकालमरणं लोकानाम्. Page #44 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः । ३७ (सुनंदो निष्क्रांतः) मांत्रिक:-(प्रविश्य) स्वस्ति महाराजाय । राजा-(सरभसम्) इदमासनमास्यताम् । (मांत्रिक उपविशति) सत्यवसुः-मांत्रिक बाणारसीलोकस्याकांडमृत्युः समुपस्थितः। मांत्रिकः-(क्षणं ध्यानं नाटयित्वा) हुं ज्ञातम् । राक्षसीललितमिदम् । लंबस्तनी-(सबाष्पम्) मंतिअ इयाणिं ज्जेव मह पुत्ती विवण्णा। मांत्रिका-अनलसंस्कारो जातो न वा । लंबस्तनी-अंजवि अग्गिसक्कारो न कीरदि । मांत्रिकः-(साहंकारम्) तर्हि तां जीवयिष्यामि । राजा-(साश्चर्यम्) मांत्रिक प्रभवसि राक्षसीमत्रानेतुम् । मांत्रिका-(साक्षेपम्) किमेवमभिधीयते महाराजेन । लक्ष्मी श्रीपतिवक्षसः कमलभूवनोदराभारती ___ सूर्याचंद्रमसौ च तारकपथात्पातालत. वासुकिम् । सार्द्ध मातलिहस्तिमल्लसुमनःकल्पद्रुदंभोलिभिः कर्षामि त्रिदशालयाद्वलिभिदं मंत्रेण तंत्रेण वा ॥ २ ॥ यदि कुतूहलं तदा प्रगुणय रक्तचंदनकणवीरकुसुमलवणसर्षपानलादिकां मंडलसामग्रीम् । उपनयताकृष्टकरालकरवालहस्तानष्टौ महावीरान् येन तां राक्षसीमाकर्षामि । राजा-(सकौतुकम्) सिंहलक सर्वं सत्वरमुपनय । (सिंहलको निष्क्रम्याष्टभिः पुरुषैः सह सामग्रीभृतपटलकहस्तः प्रविशति) राजा-मांत्रिक सर्वं प्रगुणमेव तदारभ्यतां मंडलविधिः । मांत्रिकः-(नाट्येन मंडलविधिमादाय) भो भो महावीराः साव नैरचकितहृदयैराकृष्टकरवालैरष्टसु दिक्षु स्थातव्यम् । . पुरुषा:-यदादिशति मांत्रिकः । १ मांत्रिक इदानीमेव मम पुत्री विपन्ना. २ अद्याप्यग्निसंस्कारो न क्रियते. Page #45 -------------------------------------------------------------------------- ________________ ३८ सत्यहरिश्चन्द्रनाटकम् । मांत्रिका-(मंडलमध्ये स्थित्वा उच्चैःवरम्) ॐ ह्रीं हां बलिविद्विषो भगवतः स्वाहा वषट् वह्नये वौषट् प्रेतकुलेश्वरस्य सततं क्रव्यादभत्रै वषट् । ऐं ह्रीं पाशभृतः स्वधा मुरजिते श्रीदस्य चेशस्य च क्लीं श्रीं पुष्पवतोभुजंगमपतेहुं फट् ग्रहाणां च हुं ॥ ३ ॥ (नेपथ्ये कलकल:) रे रे रक्षांसि वीक्ष्य क्वचिदपि किमपि ग्रासलेशं दध्वं विध्वस्ताशेषशक्तिः क्षणमपि चलितुं नाहमग्रे सहिष्णुः । उग्रक्षुत्क्षामकुक्षेर्जठरशिखिशिखादह्यमानांत्रवल्लयाः सौहित्यं मे विधातुं त्रिभुवनजनताप्यद्य नालं भविष्णुः ॥४॥ मांत्रिक:-भो भो भवद्भिः सर्वैरप्यकुतोभयैर्भाव्यम् । (सर्वे सभयकौतुकमूर्ध्वमवलोकयंति) (ततः प्रविशति लंबमानकेशा कृतावगुंठना गगनादवतरणं नाटयंती युवतिः । सर्वे सभयकौतुकमवलोकयंति) राजा-अमात्य सोऽयं मंत्राणां परः प्रकर्षः । मांत्रिकः-महाराज सेयं राक्षसी बाणारसीलोकं संहरति । लंबस्तनी-(सरोषम्) भट्टा एअं रक्खसिं अहं सहत्थेण मारइस्सं । मांत्रिक:-किमर्थम् । लंबस्तनी-ऐआए मह पुत्ती मारिआ । मांत्रिक:-अलीकमभिदधासि । जीवति ते पुत्री । वामना चेटी--(प्रविश्य) अंजए दिद्विआ गिहीदजीविआ भट्टिणी अणंगलेहा । (लंबस्तनी सहर्ष नृत्यति) राजा-अमात्य अनंगलेखां जीवयिष्यामीति प्रतिज्ञा मांत्रिकेण नियूंढा । अहो सत्यप्रत्ययो मंत्रविधिः । १ भर्तः एतां राक्षसीमहं स्वहस्तेन मारयिष्यामि. २ एतया मम पुत्री मारिता, ३ आर्य दिष्टया प्राप्तजीविता भट्टिनी अनंगलेखा. Page #46 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः लंबस्तनी - भेट्टा जइ मे बालकालापहुदि अखंडिअमसइ तणं ता तुमं चिरं नंद । मांत्रिक :- महाराज कृतमस्माभिरात्मकरणीयम् । दंडकर्मणि पुनर्महाराजः प्रमाणम् । राजा- - ( विमृश्य) अमात्य श्वपाकमाकारय । सत्यवसुः - कोऽत्र भो अस्मत्परिजनेषु । (शुक पंजरहस्तः पुरुषः प्रविशति ) - पुरुषः- एसी अह्नि । सत्यवसुः -- ( पुरुषस्य कर्णे) एवमेवम् । ( पुरुषः पंजरं विमुच्य निष्क्रांतः) शुकः - स्वस्ति महाराजाय । राजा - ( सकौतुकम् ) अमात्य किमिदम् । सत्यवसुः - देव सर्वकलाकुशलः शुकोऽयम् । (पुनः शुकं प्रति ) विहंगमराज राजानमुप श्लोकय । शुकः -- अमात्य राजानमुप-लोकयामि । सत्यवसुः -- अथ किम् । शुक: ३९ दर्पाध्मातविरोधिभूपतिभुजाकंडूभिषङ्मार्गणो देवः काशिमहीपतिः कलयतु श्रेयांसि तेजांसि च । यात्रां यस्य मदांधकुंजरघटाघंटाटणत्कारिणः काष्ठांताः प्रतिराजवेश्मसु पुरः शंसंति पश्चाच्चराः || ५ || राजा - ( सकौतुकम् ) विहंगमराज किमधीतवानसि । शुकः व्याकरणेऽहमधीती पठिती चाणक्यभरतकाव्येषु । आम्नाती श्रुतितर्कस्मृतिगणितपुराणशास्त्रेषु ॥ ६ ॥ राजा - (विहस्य) विहंगमराज निःशेषवेश्याचक्रचक्रवर्तिनीमेतां लंबस्तनीमुप श्लोकय । १ भर्तः यदि मे बालकालप्रभृत्यखंडितमसतीत्वं तदा त्वं चिरं नंद, २ एषोऽस्मि. Page #47 -------------------------------------------------------------------------- ________________ ४० शुक: सत्यहरिश्चन्द्रनाटकम् | पुण्यप्रागल्भ्यलभ्याय वेश्यापण्याय मंगलम् । यत्र प्रतीपाः शास्त्रस्य कामादर्थप्रसूतयः ॥ ७ ॥ (सर्वे हसंति) मांत्रिक : - ( सरोषम् ) महाराज कोऽयमस्य वराकस्य शुकपक्षिणः प्रलापेषु हास्यप्रयासः । ननु हास्यरसावेशभर विवशचेतसां भवतामपीयं राक्षसी प्रभविष्यति । राजा - ( सभयम् ) अमात्य किमद्यापि विलंबते श्वपाकः । (ततः प्रविशति कालदंडो हरिश्चंद्रश्च ) कालदंड : - ( प्रणम्य ) अमच एसे चिट्ठामि । शुकः -- भरतवंश्याव चूडाय महाराजाय हरिश्चंद्राय स्वस्ति । राजा - ( सरोषमिव ) सांप्रतं विहंगोऽसंबद्धं व्यावहरति । कुतो - नामाऽत्र साकेतपतिः । सत्यवसुः - अरे मृतप राक्षसीमेनामपगतावगुंठनां कुरु । कालदंड : – अरे कम्मकला लख्कसिं उघाडेदि । - — हरिश्चंद्र : - (युवतिं विगतावगुंठनां कृत्वा सखेदमात्मगतम् ) कथमियं देवी सुतारा । अतः परमपि दुःखांतरमुपस्थितम् । आः पाप विधे कोऽयं त्वया क्षते क्षारनिक्षेपः कृतः । ( पुनः सावष्टंभम् ) मुनिभ्यः संसृष्टा चतुरुदधिकांची वसुमती ऋणार्थं विक्रीता ससुतदयितात्मा सुभृतकः । कृतचंडालानां विधिरथ दिशेद्दुःखमपरं हरिश्चंद्रः सोऽहं तदपि परिसोढास्मि नियतम् ॥ ८ ॥ (विश्य) नाऽत्र कर्मणि देवी कारणम् । तदहमात्मानमग्नौ निक्षिप्य देव्या व्यलीकमपहरामि । यदि वा नाऽयं समयो राजसदसि स्वरूपप्रकाशनस्य । अपि च निषादाधीनोऽहं यदेवायमादिशति तदेव कर्तुमहमि । राजा - (विलोक्य साश्चर्यम् ) अमात्य पश्य पश्य बाह्यनेपथ्यैरकदर्थितो युवतेरंगसंनिवेशः । १ अमात्य एष तिष्ठामि २ अरे कर्मकर राक्षसीमुद्घाटय, Page #48 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः । वक्रं चंद्रविलासमंबुजपरीहासक्षमे लोचने वर्णः स्वर्णमपाकरिष्णुरलिनीं जिष्णुः कचानां चयः । वक्षोजाविभकुंभविभ्रमहरौ गुर्वी नितंब स्थली वाचां हारि च मार्दवं युवतिषु स्वाभाविकं मंडनम् ॥ ९ ॥ शुकः - सतीचक्रचूडामणे उशीनरमहाराजपुत्रि सुतारे देवि नमस्तुभ्यम् । राजा - ( सरोषम् ) अरे विहंगमाधम किमिदं पुनः पुनरसंबद्धमभिदधासि । शुकः - ( सावष्टंभम् ) महाराज प्रलयेऽपि न किमप्यसंबद्धमभिदधामि । नन्वयं साकेतनाथो हरिश्चंद्रः । इयं चास्य सहधर्मचारिणी देवी सुतारा । राजा - (हरिश्चंद्रं प्रति) अरे निषादभृतक हरिश्चंद्रो भवान् । इयं ते पत्नी च सुतारा । ( युवतीं प्रति) भद्रे हरिश्चंद्रपत्नी भवती । ४१ हरिश्चंद्र : -- (स्वगतम्) प्रतिपंथिनोऽस्य पुरतः सांप्रतमात्मप्रकाशनं दैन्यमावहति । ( प्रकाशम् ) महाराज नाहं साकेतपतिः किंतु देशांतरादागतो बाल्यप्रभृति दारिद्र्योपहतो निषादस्य भृतकः । युवति: - (स्वगतम्) अहं पि अत्ताणं न पकासइस्सं । जं भोइ तं भोउ । ( प्रकाशम्) मैहाराय नाहं सुतारा किंतु वज्रहिययस्य भणस्य दासी | राजा - ( सरोषम् ) अरे विहंगमापसद किमिदम् । मांत्रिक :- अबुद्धिपूर्व शुकाः पठतीति भवता किं न श्रुतम् । शुकः -- (सखेदम् ) यः परप्रीतिमाधातुं भस्मतामपि गच्छति । विवेकमानिना पश्य धात्रा सोऽप्यगुरुः कृतः ॥ १० ॥ राजा - अरे विहंगम व्यक्तमावेदय । शुकः - देव हरिश्चंद्रोऽयम् । अमुना पृथ्वी कनकलक्षाधिका तद् भवतु. १ अहमप्यात्मानं न प्रकाशयिष्यामि । यद्भवति २ महाराज नाहं सुतारा किंतु वज्रहृदयस्य ब्राह्मणस्य दासी. Page #49 -------------------------------------------------------------------------- ________________ ४२ सत्यहरिश्चन्द्रनाटकम् । तापसाय प्रदत्ता । अपूर्णायां कनकलक्षायां तापसेनायमियतीमवस्था लंभितः । इयं चास्य पत्नी सुतारा देवी । राजा--(सविनयं हरिश्चंद्रं प्रति) महाभाग वसुमती त्वया तापसाय वितीर्णा । हरिश्चंद्रः-देव विज्ञप्तं मया नाहं साकेतपतिः । राजा-अरे शुकाधम पुनरस्मान् विप्लावयसि । शुकः-देव महासत्त्वचूडामणिरयं किमात्मानमुपस्तौति । सतो वाप्यसतो वापि स्वान् स्वयं कीर्तयन् गुणान् । _ब्रह्माऽपि हास्यतां याति किमन्यः प्राकृतो जनः ॥ ११ ॥ राजा-(विमृश्य युवतिं प्रति) भद्रे वकं पात्रं लवणमधुनः पद्महृद्यौ च पाणी ___ वाणी स्वादुश्चकितहरिणीहारिणी नेत्रपद्मे । वद्ये लज्जा स्थितिरविकृतिर्भूरि सत्त्वं महत्त्वं तत्त्वं तत्त्वं कथय ननु नः कासि कस्यासि पत्नी ॥ १२ ॥ युवति:-(सलजम्) महाराय कधियं मए । अहं वज्रहिअयस्स भणस्स दासी। शुकः-देव अयं हरिश्चंद्रः । सेयमस्य पत्नी सुतारा । अमुमर्थ ब्रह्मापि न विघटयति । राजा-(हरिश्चंद्र प्रति) महाभाग मा भैषीः । सत्यमावेदय । यदि नाम वयं द्वेषिणस्तथापि संजातविपदो भवतस्त्रातारः । ततः प्रकटयात्मानम् । प्रार्थयस्व किमप्यभिलषितम् । हरिश्चंद्रः-(खगतम्) हरिश्चंद्रः स्वल्वहं प्राणात्ययेऽपि न प्रतिपंथिनमर्थये । देव्यास्तु यद्भाव्यं तद्भवतु । (प्रकाशम्) किमप्यस्य पक्षिणो वचसा पुनः पुनरात्मानमायासयति देवः । विज्ञप्तं मया दे. वाग्रे निषादभृतकोऽहम् । राजा-अरे कालदंड कोऽयम् । कालदंड:-(सभयम्) भेट्टा एसे मे कम्मकले। १ महाराज कथितं मया । अहं वज्रहृदयस्य ब्राह्मणस्य दासी. २ भर्तः एष मे कर्मकरः. Page #50 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः । मांत्रिका-(सरोषम् ) पक्षिणां वचोभिर्दिव्यदृष्टयो मांत्रिका व्यर्थ क्रियते । अहो बुद्धिकौशलम् । सत्यवसुः-(अपवार्य) नास्यामाकृतौ राक्षसीकर्म संभवति । शुकश्चायं बहुदृश्वा च । ततो देवेन किमपि विमृश्याचरणीयम् । व्यक्तमिदं मांत्रिकस्य विजूंभितम् । राजा-अमात्य दृष्टप्रत्ययो मांत्रिकः । निषादभृतकश्चायं न शुकवचनमनुमन्यते । ततो वयं शुकप्रत्ययं कथमालंबामहे । मांत्रिक:-(सरोषम्) यदि राक्षसीदंडमाधांतुमनलं महाराजस्तर्हि नजामो वयम् । राजा-(विमृश्य) अरे कालदंड न स्त्रियो वधमर्हति । अतस्त्वमेवैनां राक्षसी गर्दभारूढां पुरपथिषु भ्रमयित्वा निर्विषयां कुरु । हरिश्चंद्र:-(सखेदमात्भगतम्) क तद्वृत्तं देव्याः शिबिनृपतिवंशार्णवभुवः ___क वायं व्याहारस्तरणिकुललज्जाक्षयकरः । न यो वाचः पात्रं न भवति दृशोर्नापि मनस___स्तमप्यर्थं क्रुद्धो हतविधिरकांडे घटयति ॥ १३ ॥ कालदंड:-अले कम्मकला गडुअ रासभं आणिहि । हरिश्चंद्रः--यदादिशति स्वामी । (इत्यभिधाय निष्क्रम्य सरासभः प्रविशति) कालदंड:-अले लासभे एदं लख्कसिं आलोहय । (हरिश्चंद्रः सबाष्पकंठो युवतिं रासभमारोहयति । युवतिर्मदं मंदं रोदिति) शुकः-(तारस्वरम्) अहो अकृत्याचरणमकृत्याचरणम् । सत्यवसुः-देव अपर्यालोचितमिदं कर्म । राजा—सप्रत्ययेऽपि कर्मणि कः पर्यालोचः । शुकः—एवं प्रत्ययमवलोकयतु देवः । राजा-कः प्रत्ययः । शुकः-अहं तु जातवेदसि प्रविश्य सुतारापवादमपहरामि । __१ अरे कर्मकर गत्वा रासभमानय. २ अरे रासभे एतां राक्षसीमा रोय. Page #51 -------------------------------------------------------------------------- ________________ ४४ सत्यहरिश्चन्द्रनाटकम् | राजा -- भवत्वेवम् । कोऽत्रभोः । उपनयतु रे अग्निं काष्ठानि च । ( प्रविश्य पुरुषः सर्वमुपनयति ) शुकः -- अमात्य मां पिंजराद्विमोचय । (सत्यवसुः पंजरमुद्घाटयति । सर्वे कौतुकमवलोकयंति) शुकः - ( चितायाः पुरो भूत्वा दक्षिणं भुजमुत्क्षिप्य ) जंभारिप्रमुखाः क्षणं शृणुत मे हं हो दिशां नायकाः क्रव्यादान्वयसंभवा किल भवेत्सेयं मृगाक्षी यदि । भाभिः पिंजरयंस्तरूनविरलज्वालाकरालाकृति चालं दहतु प्रसह्य भगवान् मां जातवेदास्तदा ॥ १४ ॥ (चितामारोहयति ) सर्वे (कौतुकम् ) कथं विध्मातो जातवेदाः । अक्षतांगः शुकः । अमात्य -- ( अपवार्य) देव व्यक्तमस्य मांत्रिकस्य विजृंभितम् । तदयमर्थो विस्तरेण विज्ञातव्योऽस्ति । सांप्रतं पुनरयं मांत्रिको व्याजांतरेण विसृज्यते । राजा -रे कालदंड युवतिमेतां रासभादवतार्य विसर्जय । लंबस्तनि स्ववासमनुसर । अमात्य विहंगमराजं पंजरे नियोजय । (मांत्रिकं प्रति) पुनरप्ययमर्थः पराह्णे पर्यालोचयिष्यते । सांप्रतं व्रजत यूयम् । वयमपि करणीयांतरमनुतिष्ठामः । (इति निष्क्रांताः सर्वे) चतुर्थोऽङ्कः समाप्तः ॥ Page #52 -------------------------------------------------------------------------- ________________ पंचमोऽङ्कः। (नेपथ्ये) अरे कम्मकला मसाणे गडुअ चिट्ठ। लख्कसीपउअणेण पुणोवि लाया तुमं हक्कालिस्सइ । (ततः प्रविशति हरिश्चंद्रः) हरिश्चंद्रः--कथमयं खामी मां श्मशाने व्यापारयति । एष त्वरिततरं नजामि । (इत्यभिधाय परिक्रामति । ऊर्ध्वमवलोक्य) अस्ताभिमुखो गभस्तिमान् । (नेपथ्ये । सकरुणम्) हा अजउत्त हा तिहुअणिकल्लकी ईदिसी दे अवत्था जाया । नहि कोऽपि अह्माणं दाणि सरणं । हरिश्चंद्रः-(साशंकम्) पदं प्रायः प्रेताधिपतिमुखितानां पितृवनं धुनीरोधो बंधः पुनरयमपात्रं शिवविधेः । स्मरंती त्रातारं तदिह तरुणी कापि करुणं कथंकारं तारं प्रतिमुहुरियं रोदिति तटे ॥ १ ॥ (ततः प्रविशति सर्वांगीणभूषणा यौवनारंभविशेषोन्मिषितलावण्यनैपुण्यपुण्यतनुयष्टिर्वनिता) वनिता-हा दिट्ठ निकरुण को एस तए अह्माणं वज्रनिवाउ दंसिउ। हरिश्चंद्रः-(विलोक्य) जंघालैर्मगनाभिजैः परिमलैरुन्निद्रयंती कुलं भंगाणां परितः प्रसाधनरुचा संचूरयंती तमः । उन्मीलन्नवयौवनांचितवपुः शृंगारतारच्छविः कस्येयं वनिता कथं च रजनावेकाकिनी रोदिति ॥ २ ॥ वनिता-हा निकरुणे विद्याहरि रट्ठसिरीतिलयं मह दयियं वावयंतीए दे किं फलम् । १ अरे कर्मकर श्मशाने गत्वा तिष्ठ । राक्षसीपरिजनेन पुनरपि राजा त्वामाकारयिष्यति. २ हा आर्यपुत्र हा त्रिभुवनैकलक्ष्मीः ईदृशी तेऽवस्था जाता । न हि कोऽप्यस्माकमिदानीं शरणम्. ३ हा दिष्ट निष्करुण क एष त्वयाऽस्माकं वज्रनिपातः दर्शितः. ४ हा निष्करुणे विद्याधरि राष्ट्रश्रीतिलकं मम दयितं व्यापादयंत्यास्ते किं फलम्. Page #53 -------------------------------------------------------------------------- ________________ सत्यहरिश्चन्द्रनाटकम् । हरिश्चंद्रः-व्यक्तमियं व्यापाद्यमानभूपतेः कस्यापि दयिता । भवतु पृच्छामि तावत् । (उपसृत्य) भद्रे का त्वं किमर्थं रोदिषि । वनिता-महाभाय में मंदभाइणिं किं पुच्छसि । सयमेव अग्गउ भविअ जाणेहि अह्माणं अवत्थं । हरिश्चंद्र:-(पुरो विलोक्य साशंकम्) ऊौँ पादौ निबद्धावथ वदनमधः केशपाशः प्रलंबी रक्तश्रीखंडचर्चा वपुषि च कुसुमैः पाटलैर्मुडमाला । कापालं श्रोणिदामज्वलितहुतभुजस्त्रीणि कुंडानि पार्थे न्यग्रोधस्कंधशाखाशिखरनियमितः कोऽयमग्रे मनुष्यः ॥३॥ (ततः प्रविशति यथानिर्दिष्टो रमणीयाकृतिस्तरुणपुरुषः) पुरुषः-(निःश्वस्य) कष्टं भोः कष्टम् । सौधांकादुपहारलक्षणधुरं होमार्थमत्रानये धन्मां व्योमचरी तदस्तु पुरुषः सोहं सहिष्येऽखिलम् । एतां बालमृणालकोमलतनुं कांतां वराकी लस__ त्रासाल्लोलविलोचनां हृतवती व्यर्थ किमर्थं तु सा ॥ ४ ॥ वनिता--(सकरुणम् हरिश्चंद्रं प्रति) महाभाय निरूविदा तए अवत्था। हरिश्चंद्र:-(स्वगतम्) निश्चितमियमस्य महात्मनो दयिता । (प्रकाशं पुरुषं प्रति) महाभाग नायमवसरो वृत्तांतश्रवणस्य । तथापि तामिमां रमणीयतमामाकृतिं भवतो विलोक्य वृत्तांतं जिज्ञासुरस्मि। तदादिश । को भवान् किंनिबंधना चेयमवस्था दुःस्था । पुरुषः-(निशम्य) महापुरुष महती ममेयं कथा श्रूयमाणापि कातरचेतसां महांतमातंकमावहति । न चानया कथितयापि कुतोऽपि परित्राणमस्यां च दुःस्थायामवस्थायाम् । आत्मनश्चरितमावेदितं केवलं दैन्यमेव प्रथयति । ततः किममुना ते वृत्तांतश्रवणव्यसनेन । अपसर त्वरितमस्मादपायस्थानात् । १ महाभाग मां मंदभागिनी किं पृच्छसि । स्वयमेवाग्रतो भूत्वा जानीह्यस्माकमवस्थाम्. २ महाभाग निरूपिता त्वयाऽवस्था. Page #54 -------------------------------------------------------------------------- ________________ पंचमोऽङ्कः । वनिता —– अकारणवच्छलो कोऽपि एस महप्पा । तउ एअस्स पत्थणं संभवेदु अज्जउत्तो । पुरुषः- महाभाग श्रृणु तर्हि । चंद्रशेखरस्य कासिवसुंधराधिपतेर्महासेननामा राज्यार्धः कुमारोहम् । इदानीमेव चंद्रशालायामनया सह सुखं पर्यकनिषण्णः कयापि खेचरवृंदपरिवृतया विद्याधरवनितयापहृत्याश्रमपदमिदमानीतः । हरिश्चंद्र :- अहो भयंकरश्चरितसंनिवेशः । पुरुषः -- ततः परां च विधुरामवस्थां भवानपि पश्यति । हरिश्चंद्र ः—– किमर्थं पुनरिदमनार्य कर्म विद्याधर्याः । पुरुषः- महामांसेन होमार्थम् । हरिश्चंद्र : - संप्रति विद्याधरी वर्तते । पुरुषः- गंगास्रोतसि स्नातुं गतास्ति । हरिश्चंद्र : - (स्वगतम्) दत्ता यन्मुनये महीभृतकतां नीतोनिषादस्य च स्वात्मायं किमनेन बाह्यवपुषा सत्यं च सत्त्वं च मे । प्राणैः स्वैर्यदि रक्षितुं पुनरिमैः प्राणानमुष्यक्षमा तत्सत्येषु च सात्विकेषु च तदा काचित्पताका मम ॥ ५ ॥ अपि च । कतिपयदिनावशेषा मे भृतकभावाः । ततः स्वामिवंचनापि न काचित् । (प्रकाशम् ) कुमार न जातौ न जनिष्येते द्वाविमौ पुरुषौ भुवि । आर्थितो यः करोत्येव यश्च नार्थयते परम् ॥ ६ ॥ ४७ पुरुषः -- ततः किम् । हरिश्चंद्र : -- यदि प्रार्थनां विफलयसि न मे तदा किमपि प्रार्थये । पुरुष : – (निःश्वस्य) महाभाग विगतकोशपरिच्छदः सांप्रतमहं न प्रार्थनां समर्थयितुमलम् । १ अकारणवत्सलः कोप्येष महात्मा । तदैतस्य प्रार्थनां संभावयत्वार्यपुत्र:. Page #55 -------------------------------------------------------------------------- ________________ सत्यहरिश्चन्द्रनाटकम् | हरिश्चंद्रः -- यदेवाधातुमलं भविष्णुर्भवान् तदेवाहमर्थयिष्ये । पुरुषः- अभिधीयतां तर्हि । ४८ हरिश्चंद्र : – अनुभवतु राज्यसंपदं भवान् । अहमेवत्वयाधेयं कर्म व्योमचारिण्या विद्याधर्याः संपादयिष्यामि । - पुरुषः- ( साकम् ) अहो श्रोतव्यमश्रोतव्यम् । महासत्त्व किमेवमभिदधासि । स्वस्मिन् प्रेम यथा ममास्ति भवतोप्यस्त्येव सत्यं तथा मृत्योर्भीरुरहं यथा त्वमपि च व्यक्तं महात्मंस्तथा । अस्त्येषा दयिता यथा मम तथा तेऽप्यस्ति काचित्ततः स्वप्राणांस्तव जीवितेन हतकान् मे रक्षतः कोनयः ॥ ७ ॥ हरिश्चंद्रः – महाभाग आबाल्याद्दारिद्योपहतमनाः स्वयमेव मृत्युं स्पृहयालुरहम् । न मे भार्यापि बांधवास्तिष्ठति । पुरुष : - महाभाग इदमेव परोपकारव्यसनमावेदयति । न ते दारिद्र्यपंकपंकिलं वपुः । अपि च तावत्कृतांतवने गत एव सोहं स्वैरी सुखी च स भवानकुतोभयश्च । यायावरं मम वपुस्तव शाश्वतेन संरक्षतश्च वपुषा किल कोविवेकः ॥ ८ ॥ हरिश्चंद्र : व्याध्याधिजर्जरजरामरणाभिताप पातैः कुतः कथय शाश्वतिकं वपुर्मे । प्रग्लास्नुना तदमुना भुवि संचरिष्णुः कीर्ति लभेय यदि कोन ममाद्य लाभः ॥ ९ ॥ द्विधेहि प्रसादम् । अनुगृहाण माम् । समर्थय प्रार्थनाम् । अर्थिमनोरथसमर्थनबंधनाहि महात्मनां प्रवृत्तयः । पुरुषः- (साच विमृश्य) प्राणत्राणकृते ममैवमधुना प्राणान् निजान् संत्यजवीराग्रेसर गाढवानसि महासत्त्वोचिता मौचितीम् । Page #56 -------------------------------------------------------------------------- ________________ ... पञ्चमोऽङ्कः। सत्त्वं सात्त्विकचंद्र मुंच सपदि क्लेशावहां क्ष्मामिमा_____मात्मानं विनिमोचयंस्तु परतो लज्जे न तु क्षत्रिय ॥ १० ॥ हरिश्चंद्रः-सात्त्विककुमार यत एव क्षत्रियोऽसि तत एव ना. थिजनमनोरथं व्यर्थयितुमर्हसि । ततः प्रसीद समनुभव साम्राज्यसुखं कृतार्थय मे बाल्यात् प्रभृति दुःस्थितस्य मनुजलोकावतरणम् । वनिता-अजउत्त जं एस महप्पा विण्णवेदि तं पडिवद्यस्व । पुरुषः-(निशम्य) स्वमेकः पररक्षार्थ विनिहंति विपत्तिषु । स्वरक्षार्थ परं त्वन्यश्चित्रं चित्रा मनःस्थितिः ॥ ११ ॥ भवतु । महासत्त्व मोचय मां तर्हि । (हरिश्चंद्रः सरोमांचं पुरुषं बंधनाद्विमुच्यात्मानं तथा बध्नाति) पुरुषः-(पुरो भूत्वा प्रणम्य) महासत्त्व प्राणदानवेतनेन क्रीतोऽहं भवता । ततः समयोचितं प्रार्थयस्व पताकिनं हस्तिनं वाजिनं का चनं वा । न चैतावतात्मनि त्वया तिरस्कारः कोऽपि विचिंतनीयः । कमलानामुल्लासं करोतु तपनो निहंतु शीतांशुः । तदपि परतापहर्तुः शीतांशोरुज्वलोऽभ्युदयः ॥ १२ ॥ 'नाप्येतावतैव मे गौरवम् ।। तेन कश्चन न गुरुर्लघुर्वापि न कश्चन । उचितानुचिताचारवश्ये गौरवलाघवे ॥ १३ ॥ हरिश्चंद्रः-कुमार नाहं परतः किमप्यर्थये । एतत्पुनरभिलषामि सत्वरमपसरतु भवान् । अपरथा यदि सा खेचरी समायास्यति तदा भवतः किमप्यमंगलं विधास्यति । (नेपथ्ये) मंजीराणि यथा रणंति बहलः कोलाहलः खेचरी___ चक्रस्यैष यथा यथा च वियति ज्योतिः समुज्जृभते । दिव्यः कोऽपि निरर्गलः परिमलः प्रत्याशभासी यथा गंगास्रोतसि सा निमज्य खचरी जाने निवृत्ता तथा ॥१४॥ १ आर्यपुत्र यदेष महात्मा विज्ञापयति तत् प्रतिपद्यख. Page #57 -------------------------------------------------------------------------- ________________ ५० सत्यहरिश्चन्द्रनाटकम् । हरिश्चंद्रः---(सभयम्) कुमार सत्वरमपसर । .. . (पुरुषः प्रणम्य वनितया सह निष्क्रांतः) (ततः प्रविशति सद्यःलानार्द्रकेशपाशा चित्रांगदेन दत्तहस्तावलंबा विद्याधरी । विभवतश्च परिवारः) विद्याधरी-(चित्रांगदसमीपे भूत्वा) निरूपय उपहारलक्षणधरोऽयं पुरुषो न वा। चित्रांगदः-(विलोक्य) देवि यदायमानीतस्तदा क्षत्रियमात्रलक्षणान्येवास्य वपुषि । सांप्रतं पुनश्चक्रवर्तिलक्षणानि । विद्याधरी--(सहर्षम्) सिद्धा तर्हि त्रिभुवनवशीकरणविद्या । चित्रांगदः-देवि कियत्कृत्यो होमविधिः । विद्याधरी-प्रतिकुंडं मांसहोमेन त्रिोमविधिः । चित्रांगदः-होमसमाप्तौ किं भविष्यति । विद्याधरी-एवमाहुतीकृते पुरुषस्य मूर्धिन कुंडमध्याद् भगवती विश्वत्रयीवशीकारविद्या स्वयमाविर्भविष्यति । हरिश्चंद्र:-(सप्रमोदमात्मगतम्) आनंदश्चतुरंबुराशिरसनादाम्ना धरित्र्या मुनेः प्राणैः प्राणितमुन्नताच्छमनसो भूभृत्कुमारस्य च ।। सिद्धिर्विश्ववशंवदस्य खचरीमंत्रस्य मूर्धाधुना __ भाग्याभोगभवः परं मम भुवि श्लाध्योऽवतारोत्सवः ॥१५॥ विद्याधरी-हले पत्रलेखे उपनय पूजोपकरणानि । येन कुं. डमंडलोपहारपुरुषाणां पूजामारचयामि । (पत्रलेखा पूजापटलकहस्ता प्रविशति) पत्रलेखा-देवि एवं पूजोवयरणं । विद्याधरी-(नाट्येन कुंडमंडलपूजां विधाय) चित्रांगद मदाज्ञया समादिश विद्याधरवीरान् यथा भवद्भिः करालकरवालहस्तैरचकितमनोभिरष्टसु दिक्षु स्थित्वा कुंडमंडले निशाचरस्य मनुष्यस्य प्रवेशो रक्षणीयः । १ देवि इदं पूजोपकरणम्. Page #58 -------------------------------------------------------------------------- ________________ ... पञ्चमोऽङ्कः । (चित्रांगदस्तथा करोति) विद्याधरी--(हरिश्चंद्रस्य पूजां विधाय करालं करवालं चादाय) अरे पुरुष स्मर किमपि दैवतम् । एष इदानीं न भवसि । हरिश्चंद्रः-(शिरस्यंजलिं कृत्वा) शीर्णनिःशेषसंसारव्यापारावेशवैशसम् । स्मरामि निष्ठितक्लेशं देवं नाभिसमुद्भवम् ॥ १६ ॥ विद्याधरी-साधु भो इष्टदैवतं नाभेयं स्मृतवानसि । चित्रांगदः-नाभेयनामावकीर्तने संप्रत्येव सिध्यति भगवती विद्या। विद्याधरी-(पुनर्हरिश्चंद्र प्रति) महाभाग प्राणितमेकमपहाय समयोचितं किमप्यर्थय त्वम् । - हरिश्चंद्रः-(साहंकारं) परमेश्वरि जीवितमपि नाहं परतः प्रार्थये । किं पुनरपरं परम् । तदावेदय किं ते प्रयोजनमादधामि । - विद्याधरी-खमांसखंडानि मे समर्पय । (हरिश्चंद्रः करवालमादाय स्वमांसखंडमर्पयति) विद्याधरी-(गृहीत्वा) स्वर्गाधिपतये स्वाहा । (प्रथमकुंडे क्षिपति) (हरिश्चंद्रः पुनर्मासखंडमर्पयति) विद्याधरी-मर्त्यलोकाधिपतये स्वाहा । (द्वितीयकुंडे क्षिपति) चित्रांगदः-वर्धसे देवि कनककंकणालंकारः करः प्रादुर्भूतो मध्यकुंडात् । (हरिश्चंद्रः पुनर्मासखंडमर्पयति) विद्याधरी-पातालाधिपतये स्वाहा । (तृतीयकुंडे क्षिपति) चित्रांगदः-(ससंभ्रमम्) देवि एष कः पर्याकुलो गोमायुर्भूयोभूयः शब्दायमानः परितः कुंडमंडलं परिभ्राम्यति । विद्याधरी-(सभयम्) भो भोः पुरुषाः शिवाप्रवेशः प्रयत्नतो. रक्षणीयः । (हरिश्चंद्रः पुनः पिशितमर्पयति । विद्याधरी तथैव प्रथमकुंडे क्षिपति) (नेपथ्ये। भूयो गोमायुध्वनिः) (हरिश्चंद्रः पुनः पिशितमर्पयति । विद्याधरी तथैव द्वितीयकुंडे क्षिपति) चित्रांगदः-देवि वर्धसे मणिकुंडलप्रभापिंजरितगंडमंडलं प्रादुर्भूतं मध्यमकुंडाद्वनितावदनकमलम् । Page #59 -------------------------------------------------------------------------- ________________ सत्यहरिश्चन्द्रनाटकम् । (हरिश्चंद्रः पुनः पिशितमर्पयति) (विद्याधरी तथैव सप्रमोदं तृतीयकुंडे क्षिपति) (नेपथ्ये । पुनर्गोमायुध्वनिः) विद्याधरी-(सभयम् ) चित्रांगद निवारय कथमप्येनं व्याहरन्तं करालं शृगालम् । यद्यस्य घोरैः फेत्कारैस्तापसो निद्रामपहास्यति तदा होमभंगमाधास्यति । (नेपथ्ये) कः कालेन कटाक्षितः स्फुटरुषा दृष्टः फणींद्रेण कः स्फूर्जद्वह्निकणः करिष्यति शिरः कस्याशनिर्भस्मसात् । कंपां कल्यविशृंखले जलनिधौ को दातुमुत्कंठितो वहावाश्रमसंनिधौ निशि महामांसं जुहोत्येष कः ॥ १७ ॥ विद्याधरी-(सोरस्ताडम्) हा हतास्मि । स्तोकसमाप्तस्य होमस्य प्रत्यूहस्तापसः समुत्थितः । हरिश्चंद्र:-परमेश्वरि मा विषीद । गृहाण मे मूर्धानम् । पयंतकुंडे निक्षिप्य समापय होमम् । विद्याधरी-(प्रणम्य) महासत्त्व क्रमेण होमविधिर्न व्यतिक्रमेण । क्रमं च तापसो न शाम्यति । चित्रांगदः-(ससंभ्रमम्) देवि कुंडमंडले प्रविष्टस्तापसः। अधोनिमग्नं च विद्यामुखकमलम् । विद्याधरी--(साशंकम्) भग्नस्तहि होमविधिः । व्रजामः स्वस्थानम् । (इत्यभिधाय निष्क्रांताः) (ततः प्रविशति कुद्धतापसः) तापसः--(विलोक्य । प्रत्यभिज्ञाय च) कथमयमस्मद्गुरोरधमणः । (पुन हरिश्चंद्रं प्रति) अये हरिश्चंद्रो भवान् । हरिश्चंद्रः-हरिश्चंद्रोऽस्मि । तापस:--कौटिल्यमुपलक्षयसि माम् । हरिश्चंद्रः-कौटिल्यनामा मुनिर्यः शक्रावताराश्रमवासिना कुलपतिना महीदानस्य साक्षीकृतः । कौटिल्य:-एवम् । दत्तं कुलपतये कनकम् । Page #60 -------------------------------------------------------------------------- ________________ . पञ्चमोऽङ्कः । हरिश्चंद्रः-स्तोकमवशिष्यते ।। कौटिल्यः-जाने कनकभीरुणा त्वयायमात्मा घातयितुमुपक्रांतः। अये शालंकानय व्रणरोहणमौषधद्रव्येण लिंप दुरात्मानमेनमपरथा विपन्नेऽस्मिन् कुलपतेः कनकहानिर्भविष्यति । (प्रविश्य तापसो हरिश्चंद्र प्रविमोच्यौषधेन लिंपति) (नेपथ्ये) अले कम्मकला मसाणं मिलिय कत्थ तुमं गउ । हरिश्चंद्रः-भगवन् निषादपतिर्मा आह्वयति । तापस:-व्रज तर्हि वयमप्याश्रमपदं व्रजामः । (इति निष्क्रांताः सर्वे) पंचमोऽङ्कः समाप्तः ॥ १ अरे कर्मकर श्मशानं त्यक्त्वा कुत्र त्वं गतः. Page #61 -------------------------------------------------------------------------- ________________ षष्ठोऽङ्कः। (ततः प्रविशति पिशाचः) पिशाचः-कुदो नाम देसंतरितोबभनकम्मकरस्स मयस्स अनलसक्कारसंभवो तदा तं अदद्धं चेव भक्खंतस्स मे चिरा वित्ती भविस्सदि । (इति नृत्यति । विलोक्य) को एस मसाणे समागच्छदि। भोतु नासइस्सं । (इति निष्कांतः) (ततः प्रविशति हरिश्चंद्रः) हरिश्चंद्र:-(सखेदम्) अपरिभ्रष्टस्य सत्त्वस्य नापूर्ण मम किंचन । खेचरीहोमभंगस्तु केवलं मां दुनोति सः ॥ १॥ (पुरो विलोक्य) तदिदं श्मशानं । यत्किल किंचिद्दग्धकलेवरं परिपतद्धं चिताभीषणं भ्राम्यद्भूतमभूतपल्लवतरुध्वांक्षध्वनिव्याकुलम् । ताराक्रंदमहृद्यगंधमतनुश्वानारवं विस्फुर झूमश्यामलमुच्छलद्गुरुशिवाफेत्कारपोरांतरम् ॥ २ ॥ (पुनः स्मृत्वा) अस्त्येषा किंवदंती पुरे यथा शतशो गवेक्ष्यमाणोऽपि चंद्रशेखरेण मांत्रिको नोपलब्धः । (पुनः सप्रमोदम्) आत्मानं समिधं विधाय विलसज्वालाजटालेऽनले __कीरेणोपकृतं महद्दिनकृतो गोत्रस्य मे नान्यथा । देव्यां यद्यसमंजसं विरचयेद्वाणारसीभूपतिः क्रुद्धः किंचन बालकः खलु तदा वत्सो विपद्येत सः ॥३॥ (नेपथ्ये) एसे विवन्ने आगदे । हरिश्चंद्रः-किं वत्सो विपन्नः समागतः । प्रतिहतममंगलम् । विजयते भरतकुलम् । अखंडितप्रसरा संततिरिक्ष्वाकूणाम् । १ कुतो नाम देशांतरितब्राह्मणकर्मकरस्य मृतस्यानलसंस्कारसंभवः । तदा तमदग्धमेव भक्षयतो मे चिरं तृप्तिर्भविष्यति । २ क एष श्मशाने समागच्छति । भवतु नाशयिष्यामि. ३ एष विपन्न आगतः. Page #62 -------------------------------------------------------------------------- ________________ षष्ठोऽङ्कः । ( कालदंडो दंडपाणिः प्रविशति ) कालदंड : --- (सरोषम् ) ऐसे विवन्ने समागए केवि । ताकीस तुमं निद्दायते चिट्ठदि । तुलिदतुलिदं गच्छिय गिलवत्थं । हरिश्चंद्र - ( सभयं परिक्रम्य वामाक्षिस्पंदनमभिनीय व सावभम् ) लक्ष्मीं न स्पृहयालुरिंदुधवलामिच्छुर्न भोगोत्सवान् श्रद्धालुर्जगदेकवल्लभतमे न प्राणितेप्यात्मनः । वत्सश्चेद्भरतान्वयार्णवमणिः कल्याणशाली तदा कामं वाममिदं स्फुरत्वविरतं नेत्रं च गात्रं च मे ॥ ४ ॥ (नेपथ्ये । सकरुणम्) वत्सो विन्नो । हरिश्चंद्रः – (सविषादम् ) किमिति पुनर्वत्सविपत्तिसंसूचकानाममंगलशब्दानां श्रुतिः । यदि वा स्थानमिदममंगलशब्दानां श्मशानम् । भवतु । परिक्रमामि तावत् । (प्रविशति पटतर्पिहितवदना प्रलपंती वनिता । कौसुंभवदनाच्छादितश्च वि. पनो बालकः ) वनिता - वैत्सो विवन्नो अउवरं किं मे जीवेदेण । हा पुत्त हा मुद्धमुह हा सिरीसकुसुम सुकुमार पुणोवि तुह वयणं मंदभायणी कमहं पक्खिस्सं । ५९ हरिश्चंद्रः -- व्यक्तमस्याः सूनुरयम् । वनिता-पुत्तया तुमं एगो मे पुत्तो । हरिश्चंद्र : - ( सकरुणम्) दुरात्मना कृतांतेन बालकममुं व्यापादयता ध्रुवमियमप्येकतनया व्यापादिता । (विमृश्य) बालकाच्छादनग्रहणमिदमतिनिर्घृणं कर्म कथमाधास्यामि । यदि वा उचितमथानुचितमिदं चिंतयितुं युज्यते परं भर्तुः । कुलजानां पुनराज्ञाविधानचितैव भृत्यानाम् ॥ ५ ॥ कालदंड : - ( सरोषम् ) अले केम्मकला कीसे विलंबेसि । १ एष विपन्नः समागतः कोऽपि । तत् कस्मात् त्वं निद्रायमाणस्तिष्ठसि । त्वरितत्वरितं गत्वा गृहाण वस्त्रं. २ वत्सो विपन्नः. ३ वत्सो विपन्नोइतः परं किं मे जीवितेन । हा पुत्र मुग्धमुख हा शिरीषकुसुमसुकुमार पुनरपि तव वदनं मंदभागिनी कथमहं द्रक्ष्यामि . पुत्र: ५ अरे कर्मकर कस्माद्विलंबसे. ४ पुत्रक त्वमेको मे Page #63 -------------------------------------------------------------------------- ________________ ५६ सत्यहरिश्चन्द्रनाटकम् । हरिश्चंद्र:-(सभयम्) स्वामिन् कंटकेन मे क्षतश्चरणस्ततो विलंबः । वनिता-हा पुत्त भरदकुलपईव तरणिवंसावचूल चक्कवट्टिलख्कणसमलंकिदसरीर किं एदं समुपत्थिदं । हरिश्चंद्रः-(प्रत्यभिज्ञाय) कथमियं देवी सुतारा । अयं च विपन्नो वत्सो मे रोहिताश्वश्च । साम्राज्यापगमो विदेशगमनं पुत्रप्रियाविक्रयो ब्रीडाकारि कठोरघोरमनसो दास्यं निषादस्य च । एतैस्तैरसमाप्तकौतुकविधिर्वधाः पुनश्चोत्सवै र्वत्सस्य स्तनपानकोमलदृशः पंचत्वमानीतवान् ॥ ६ ॥ वनिता-ही निग्घिण वज्रहियय कीस तए मारणत्थं कुसुमाहरणं मि एस मह तणउ पेसिउ । हरिश्चंद्र:--(सदुःखम्) धनप्रवासे रिपुदेशवासे परस्य दास्ये च विधीयमाने । अनन्यबंधोस्तनयस्य मृत्युः सेयं परा काचन दुःखकाष्ठा ॥ ७ ॥ (विमृश्य सावष्टंभम्) हरिश्चंद्रोऽहमखिलाः सहिष्ये विपदः खलु । एकापत्या पुनर्देवी व्यक्तमेषा विपत्स्यते ॥ ८ ॥ कालदंड:-अले कीसे विलंबसे । हरिश्चंद्रः-(सभयमुपसृत्य सबाष्पकंठम्) देवि निर्भाग्यशेखरे किमिदम् । (वनिता तारखरं रोदिति) हरिश्चंद्र:-(सबाष्पम्) देवि कोऽयं भरतकुलस्य वज्रनिपातः। १ हा पुत्र भरतकुलपते तरणिवंशावचूड चक्रवर्तिलक्षणसमलंकृतशरीर किमिदं समुपस्थितम्. २ हा निघृण वज्रहृदय कस्मात् त्वया मारणार्थ कुसुमाहरणायैष मम तनयः प्रेषित:. ३ अरे कस्माद्विलंबसे. Page #64 -------------------------------------------------------------------------- ________________ षष्ठोऽकः । ६७ वनिता-(विलोक्य तारखरं रुदंती) अजउत्त पिच्छ निक्करुणेन दिवेन कीदिसं किदं । एस अजउ पभायसमयं मि दब्भसमिदाहरणत्थं गउ पुत्तो रोहितासो भुयंगमेण दट्ठो। हरिश्चंद्रः-(रोहिताश्वस्य वदनमुद्धाट्य) वत्स भुजंगमस्त्वां दष्टवान् । (सास्रम्) राजतात मृगांकवदन सरोजनयन नयमंडन भरतकुलनंदन त्वरितमुत्थाय परिरभस्व माम् । (पुनर्मुखमाघ्राय) देव किं नामात्मपितरं नोपलक्षयसि । (पुनर्विचिंत्य) कथं चिरादृष्टं मां वत्सोनोपलक्षयति । देवि वत्सो मां नालपति नाप्यालिंगति । वनिता-मूढ हियय किं मं पुच्छसि । दिवं पुच्छ । हरिश्चंद्रः-(चेतनामास्थाय सलजम्) नन्वयं विपन्नो वत्सः कथं मामालपति श्लिष्यति च । तदहमतः परं वृथा प्राणिमि वत्सेनैव सह चितामारोहामि । यदि वा धिङ् मे चिंतितं निषादाधीनस्य मे चिताधिरोहणं कीदृशमौचित्यमावहति । कालदंड:-(सरोषम्) अले कम्मकला एदाए इत्थियाए सह मुअणत्तणं किं पि तए पालद्धं । जं एवं विलंबसे । हरिश्चंद्र:-(विमृश्य) अतिनिर्दयमिदम् । यदहं मृतस्य सुतस्य वसनमपहरामि । तदलममुना तरणिकुलकलंकेन कर्मणा । निषादपतिः सुकुप्यतु व्यापादयतु वा माम् । (कतिचित्पदानि गत्वा प्रतिनिवृत्य सपश्चात्तापम् ) कोऽयं मे पूर्वापरहतः संकल्पः । यतः अयं कलंको यदहं मृतस्य । पुत्रस्य वस्त्रं किल संहरामि । सत्यव्रतं यत्तु निजं त्यजामि भानोः कुलोऽसौ न पुनः कलंकः ॥ ९॥ (विमृश्य सावष्टंभम्) . इक्ष्वाकुः खलु सोऽहमेकसदनं शौर्यस्य धैर्यस्य च व्यापत्तिः प्रतिवासरं प्रतिदिशं कामं समुज्जूंभिता । १ आर्यपुत्र पश्य निष्करुणेन दैवेन कीदृशं कृतम् । एषोऽद्य प्रभातसमये दर्भसमिदाहरणार्थ गतः पुत्रः रोहिताश्वो भुजंगमेन दष्टः. २ मूढहृदय किं मां पृच्छसि । दैवं पृच्छ. ३ अरे कर्मकर एतया स्त्रिया सह सुजनत्वं किमपि त्वया प्रारब्धम् । यदेवं विलंबसे. Page #65 -------------------------------------------------------------------------- ________________ सत्यहरिश्चन्द्रनाटकम् । . व्यापन्नस्य सुतस्य निश्चितमिदं गृह्णामि वस्त्रं ननु - स्वां संधां यदि नादधामि भगवान् भानुस्तदा लज्जते ॥१० कालदंड:-(साक्षेपम्) अले कीस तुमं वलिदे । हरिश्चंद्र:-एष बालक इति प्रष्टुम् । कालदंड:-एसे जइ बालगे तदा किं मे । गिण्ह गडय वत्थं । हरिश्चंद्र:--(परिक्रम्य सगद्गदखरम्) देवि । वनिता--अजउत्त । हरिश्चंद्रः-देवि। वनिता-अजउत्त आदिश किं करेमि । (हरिश्चंद्रः सबाष्पं ग्रीवां वक्रीकृत्यान्यतो विलोकयन् प्रसारितकरद्वयसंज्ञया कुसुंभवरानं याचते) वनिता-(अनवबुध्य) अजउत्त किं भणसि । (हरिश्चंद्रः पुनस्तदेव कुरुते) वनिता--(रुदंती) अजउत्त पुत्तयं ते हत्थे देमि । (रोहिताश्वमुक्षिपति) हरिश्चंद्रः-(वाष्पोपरोधस्खलितखरम्) देवि तिष्ठतु वत्सो वत्साच्छादनवस्त्रं समर्पय। (कुसुमवृष्टिनिपातानंतरमाकाशे) अहो दानमहो धैर्यमहो वीर्यमखंडितम् । उदारधीरवीराणां हरिश्चंद्रो निदर्शनम् ॥ ११ ॥ (ततः प्रविशतश्चंद्रचूडकुंदप्रभाभिधानौ गगनादवतरणं नाटयंतौ देवी) हरिश्चंद्रः-(विलोक्य ससंभ्रमम् ) किमिदम् । (देवौ प्रणम्योपविशतः) हरिश्चंद्रः--(खगतम्) स्वप्नं किं नु मनोभ्रमः किमथ किं नेत्रस्य मे विप्लवः किंवाकांडरुषो विजूंभितमिदं देवस्य दैत्यस्य वा । कोऽहं स्थानमिदं च किं शिशुरयं को वाथ केयं वधूः __ सदिव्याभरणांशुपीततमसावेतौ पुमांसौ च कौ ॥ १२ ॥ • . १ अरे कस्मात्त्वं वलितः. २ एष यदा बालकस्तदा किं मे । गृहाण गत्वा वस्त्रम्. ३ आर्यपुत्र. ४ आर्यपुत्र आदिश किं करोमि. ५ आर्यपुत्र किं भणसि. ६ आर्यपुत्र पुत्रकं तव हस्ते यच्छामि. Page #66 -------------------------------------------------------------------------- ________________ षष्ठोऽङ्कः । (विलोक्य) किमिदं सर्वमप्यपरं प्रतिभासते । चंद्रचूड:-महासत्त्वचूडामणे कृतममुना विस्मयेन । अस्म न्कृतेयं कूटनाटकघटना। आखेटा मुनिकन्यका कुलपतिः कीरः शृगालोऽध्वगा विप्रो म्लेच्छपतिर्मनुष्यमरणं लंबस्तनी मांत्रिकः । उद्दद्धः पुरुषो वियच्चरवधूोमायुनादः फणी सर्व सत्त्वपरीक्षणैकरसिकैरस्माभिरेतत्कृतम् ॥ १३ ॥ (हरिश्चंद्रः सव्रीडमधोमुखस्तिष्ठति) कुंदप्रभः-महासत्त्वावतंस सीमानं न विलंघयंति पतयो यत्पाथसां दिग्गजाः क्ष्मापीठं दधते कुलक्षितिभृतः शेषश्च कूर्मश्च यत् । विश्वस्यास्य विलोचने तिरयतो यत्पुष्पवंतौ तम__ स्तस्मिन् मध्यमलोकपाल भवतः सत्त्वं परं कारणम् ॥१४॥ चंद्रचूड:त्वं पुण्यः सुकृती त्वमेव भवतः श्लाघ्योऽवतारः क्षितौ __शृंगारस्तव सात्त्विकेषु जननी ते वीरवीरप्रसूः । रोमांचं कुरु पक्ष्मलः प्रतिमुहुर्बाष्पोर्मिमूर्छालवाक् __सत्त्वं यस्य तवान्वहं स्पृहयति श्रीमान् स्वयं स्वःपतिः॥१५॥ हरिश्चंद्रः--भगवान् मघवानस्मादृशां मनुजकीटानां सत्त्वाय स्पृहयतीति महच्चित्रम् । चंद्रचूड:-महासत्त्व स्मरति भवान् यदेकदा शक्रावतारनिवासिनो भगवतः श्रीनाभिनंदनस्य जिनस्य सपर्या विधानार्थमागतवते सत्त्वपरीक्षणोत्सुकाय मघवते स्वमूर्धानमुपनेतुमुपस्थितवानसि। हरिश्चंद्रः-स्मरामि ।। चंद्रचूड:-ततः प्रभृति परमेश्वरो जंभारिर्भवत्सत्त्वोत्कर्षविमतमनाः सततमास्ते । कुंदप्रभः सत्त्वेषु सात्त्विकशिरोमणिषु प्रधानं त्रैशंकवात् क्षितिपतेरपरो न कश्चित् । Page #67 -------------------------------------------------------------------------- ________________ सत्यहरिश्चन्द्रनाटकम् । श्लाघां पुरंदरकृतां निशमय्य सर्व बद्धक्रुधो वयमिदं विदधामहे स्म ॥ १६ ॥ चंद्रचूड: उपकर्तुं परमेके महते स्पृहयंति विभवभराय । अपकर्तुं पुनरपरैः पश्यत लोकस्य वैचित्त्यम् ।। १७ ।। महाभाग भवादृशां विश्वत्रयानंदकंदकंदलनपयोदानां मनुजलोकावतरणं परोपकाराय । अस्मादृशां त्रिलोकीलोकसंतापावापदीक्षादुर्ललितचेतसां दुर्मेधसां स्वर्गसंसर्गः पुनः परापकाराय ।। - हरिश्चंद्रः-दिव्यप्रभावप्रस्तुतं दर्पसर्पमसंस्पृशंतः स्वैरमादिशत यूयम् । अहं पुनस्तत्रभवतो भवतः परोपकारिणः कलयामि । कथमपरश्चातुच्छप्रभावदृशामस्मादृशां प्रभूतक्लेशावेशः सोऽयमवलेपः प्रथताम् । चंद्रचूडः-(सब्रीडम्) एतस्यात्मक्लेशावेशस्यानुसारेण स्वैरमुपश्लोकयास्मान् । हरिश्चंद्रः-वसुभूतिः कुंतलश्च कथं वर्तते । चंद्रचूड:-स वसुभूतियः शुकरूपेण चितामधिरूढवान् । स च कुंतलो यो गोमायुनादैः कौटिल्यमुपस्थितवान् । द्वावप्येतौ अयोध्यां गतौ महाराजो द्रक्ष्यति । कुंदप्रभःकेशावेशमिमं क्षमस्व भवतः सत्यस्य सत्त्वस्य वा मीमांसासु रजस्तमःकृतदृशः के नाम तेऽस्मादृशः । दुष्प्रापापरितोषपोषविकसद्रोमांकुराः स्वर्गिणः __ स्वैरं सात्त्विकचंद्र संदिश ततः किं ते प्रियं कुर्महे ॥ १॥ हरिश्चंद्र:अखंडं स्वं सत्त्वं परिनिषकमारोप्य हठतः ___ परां ख्यातिं नीतो ननु जगति वंशो दिनकृतः । कुतः सत्याभाषी स खलु पुरुहूतश्च भगवान् ___ भवेद्भूयो ब्रूत प्रियतरमतः किं किल समम् ॥ १२ ॥ कुंदप्रभः-तथापि किमपि प्रार्थयस्व । Page #68 -------------------------------------------------------------------------- ________________ षष्ठोऽङ्कः । हरिश्चंद्र:- नाहं प्रलयेऽपि परप्रणयदैन्यमावहामि । चंद्रचूड: परप्रणयदैन्यतः कृतविराम चंद्रोज्ज्वला मवाप्य निजसंपदं पद्मचिंत्यशश्रियः । यशोभिरनिशं दिशः कुसुमहासभासः सृजन्नजातगणनाः समाः परमतः स्वतंत्रो भव ॥ २० ॥ ( इति निष्क्रांता: सर्वे) षष्टोऽङ्कः संपूर्णः ॥ सत्यहरिश्चन्द्रनाटकम् । कृतिरियं प्रबंधशतकर्तुर्महाकवे रामचंद्रस्य । ॥ शुभं भवतु ॥ ६१ Page #69 -------------------------------------------------------------------------- ________________ Page #70 -------------------------------------------------------------------------- ________________ शुद्धिपत्रम्. पृष्ठम् " , किर पंक्तिः अशुद्धम् ३ यदुपज्ञक्रियाक्रमः ११ प्रबंधेऽभिनय १५ स करोत्क्षेपं ५ रंजयिष्यामः । किल अस्माकं २७ अंगारः १५ यत्प्रतिज्ञातं ११ भवभृशः १३ वाचालु ७ (भवत्वेवम्) २५ पंथानं २६ २३ ५ तात शुद्धम् यदुपज्ञं क्रियाक्रमः प्रबंधोऽभिनीयताम् सकरोत्क्षेपं रंजयिष्याम किलास्माकं अंगारमुखः प्रतिज्ञातं भव भृशः वाचाल भवत्वेवम् पंथा नो २३ अंब १५ २२ अपरिब्भट्ट [रअपरिब्भट्ठो] रअपरिब्भट्ठो २८ अपरिभ्रष्ट [राज्यपरिभ्रष्टो] राज्यपरिभ्रष्टो. ननामांतर्द्रये न नामांतर्दूये नच न च श्रियो श्रिया २५ दैव. दिव्य " कार्यमेक कार्यमेव २६ वैरीणाम् वैरिणाम् ९ ना नाम राज्याधीशता राज्याधिपता १५ भावं मिउ विवेउत्ति भावंमि उविवेउत्ति २६ (परित्यज्य) २८ विभवाभावे विभवाभावेs Page #71 -------------------------------------------------------------------------- ________________ वार्द्धक हृत्वे oc ३२ १० वार्धिक कंमकरे । कंमकरे अवलोकवि अवलो कवि २६ । अत्रावलोकय अथवा अपरः कोऽ २ भादोभाया एगो भाउ १४ गृण्हे २७ कर्षितव्यानि कर्षयितव्यानि ४ मंजरीक मंजरक __२० र्ताच ताच १ कोऽत्रभो कोऽत्र भो ११ धुनीरोधो बंधः धुनीरोधोबंधः २५ परिजनेन प्रयोजनेन ८ दामज्वलित दाम ज्वलित ३ कासि काशि ४. राज्याः कुमारोहम् । राज्याहः कुमोरो १६ मुष्यक्षमा मुष्य क्षमा मेवत्वया मेव त्वया २८ सरगाढ . सर गाढ ४९१ सत्त्वं तत्त्वं न तु क्षत्रिय ननु क्षत्रियः १३ मध्यादू मध्याद प्रयवतो प्रयत्नतो ५७ २ समयं मि समयंमि २३ कुलो कुले ५९ १६ वीरवीर वीर वीर ६० ५ वैचित्त्यम् वैचित्र्यम् " २५ निषक निकष ६१ ३ विरामचंद्रो विराम चंद्रो / TV Page #72 -------------------------------------------------------------------------- ________________ Main Education International For Private & Personal use only