________________
सत्यहरिश्चन्द्रनाटकम् ।
ॐ नमः सर्वज्ञाय । देवाय विश्ववंद्याय नाभेयाय नमोनमः ।
सर्वोऽप्येष मनुष्याणां यदुपज्ञक्रियाक्रमः ॥ १ ॥ (नांद्यते सूत्रधारः) भो भो स्फुरन्निःशेषकलाकलापसंपदः सभासदः किमपि वो विज्ञापयामि। ___ अधीती सर्वभाषासु गृहीती दशरूपके ।
आमाती रसकाव्येषु प्रबंधान् द्रष्टुमर्हति ॥ २ ॥ ततो यदि यूयं यथोदितगुणग्रामाभिरामात्मानस्तदिदानी सभ्यभूयमनुभवितुमर्हथ (आकाशे)
किमादिशत यथोदितगुणग्रामाभिरामा एव वयमामहे । किंतु परमरसनिष्यंदसुंदरः कोऽपि प्रबंधेऽभिनय इति । (विहस्य) सरसतायां किमुच्यते प्रबंधस्य । यतःव्युत्पत्तिर्मुखमेव नाटकगुणव्यासे तु किं वर्ण्यते
सौरभ्यप्रसवा नवा भणतिरप्यस्त्येव काचित् कचित् । यं प्राणान् दशरूपकस्य स करोत्क्षेपं समाचक्षते
साहित्योपनिषद्विदः स तु रसो रामस्य वाचां परम् ॥ ३ ॥ किं च ।
प्रबंधा इक्षुवत्प्रायो हीयमानरसाः क्रमात् । कृतिस्तु रामचंद्रस्य सर्वा स्वादुः पुरः पुरः ॥ ४ ॥ अपि च । कोऽप्येष वः परमहर्षोत्सवो वर्तते । तदवधीयतां क्षणमेकम् ।
सूक्तयो रामचंद्रस्य वसंतः कलगीतयः ।
खातंत्र्यमिष्टयोगश्च पंचैते हर्षवृष्टयः ॥ ५ ॥ (प्रविश्य संभ्रांतो नटः) भाव स युष्मत्प्रतिस्पर्धी साहसिकनामा कुशीलवः प्रसह्य भवतो निषिध्य स्वाभिप्रेतं प्रबंधमभिनेष्यति ।
सूत्रधारः--(ससंरंभम्) साहसिकः स्वाभिप्रेतं प्रबंधमभिनेष्यति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org