________________
२
सत्यहरिश्चन्द्रनाटकम् |
नटः - अथ किम् ।
सूत्रधारः - मारिष अन्यद्विचिंतितमन्यदापतितम् । श्रीसिद्धमाभिधानशब्दानुशासनवेधसः श्रीमदाचार्यहेमचंद्रस्य शिष्येण रामचंद्रेण विरचितं सत्यहरिश्चंद्राभिधानमादिरूपकमभिनीय सभाजनमनुरंजयिष्यामः । इति किल अस्माकं मनोरथः । यदि वा खलु कृत्वा प्रतिभयम् । कतमो नाम साहसिकः प्रसह्य नः प्रतिषिध्य स्वाभिप्रेतं प्रबंधमभिनेतुं सोद्यमः । एते वयं तमपकर्ण्य स्वप्रतिज्ञातमाध्यास्यामः । यतः
सत्वैकतानुवृत्तीनां प्रतिज्ञातार्थकारिणाम् । प्रभविष्णुर्न देवोऽपि किं पुनः प्राकृतो जनः ॥ ६ ॥ (नेपथ्ये) हृदयंगममुक्तवानसि ।
सूत्रधारः - कथमयं हरिश्चंद्रभूमिकावाही नर्तकः शब्दायते ।
तदेहि |
मारिषः - करणीयांतरमनुतिष्ठामः ।
(इति निष्क्रांतौ । प्रस्तावना)
प्रथमोऽङ्कः ।
(ततः प्रविशति कुंतलकपिंजलाभ्यां सह तुरगाधिरूढो राजा ) राजा - सत्त्वैकतानुवृत्तीनामिति । (विमृश्य) कुंतल । नियतं वयमद्य शक्रावतारतरुविसरबाधाविधायिनं महावराहं व्यापादयि
ष्यामः ।
कपिंजल : --- यदैव तोमरासारं साकेतपतिरमुचत्तदैव वराहो व्यापादितः । किंतु क्वचिदपि सरयूगव्हरे पतितोऽपि नो लक्ष्यते । राजा - ( समंततो निरूप्य । अवलोक्य) अहो सरसतरुविसराणां साकेतपरिसराणां वरिमा । तथा ह्येते —
क्वचित् क्रीडाक्रोडप्रतिभयपरित्रस्तपृथुकाः क्वचित् क्रीडाशैलोपतटतरुविश्रांतपथिकाः । कचिद्वारीयंत्र ध्वनिरभसनृत्यच्छिखिगणाः क्वचिद्गोपीगानश्रवणनिभृतोत्कर्णहरिणाः ॥ ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org