SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः कुंतल:-वसंतावतारव्यतिषंगरंगत्परभागस्य जगतः श्रियमवधारयतु देवः । परभृतवधूगीतस्फीतश्रियो वनशाखिनः प्रतिदिशविशन्मल्लीवल्लीरजस्तरलं नभः । ककुभि ककुभि स्मेराक्षीणां विसति चर्चरी प्रतितरुतलं क्रीडक्षांता लसंति विलासिनः ॥ ८ ॥ राजा-कियति दूरे वयमागताः । कपिंजल:-देव सुदूरमागता वयं । किं न पश्यति देवः पुरः प्रसर्पतीमिक्ष्वाकवंशालवालस्य साकेतस्य सारिणी भगवतीं सरयूम् । राजा--(विलोक्य) उपतटतरुच्छायाधूनं क्वचित्क्वचिदंगना घुसृणकपिशं हंसश्रेणीविगाहसितं क्वचित् । कचिदपि तरत्कोकद्वंद्वप्रभाशबलं क्वचित् कुवलयदलश्यामं धत्ते श्रियं सरयूजलम् ॥ ९ ॥ कपिंजल:-देव पश्य पश्य । सांद्रच्छायाजनिततमसः सारसैः शीकरौघैः . स्निग्धस्कंधा विदधति मुदं कस्य नामी वनांताः । येषां भूमौ पवनविचलत्पत्रमार्गप्रविष्टा भानोर्भासः कनकतिलकश्रेणिलक्ष्मी वहति ॥ १० ॥ राजा-(विश्रम्य) कुंतल । जंबालजालजटिलासु सरित्तटीषु मुह्येत्कचित्तुरग एष सुशिक्षितोऽपि । तस्माबजामि सरयूतटमुत्तरेण वाचंयमांचिततमाश्रममीक्षमाणः ॥ ११ ॥ कुंतल:-यदादिशति देवः । (इति यथोक्तं कृत्वा) राजा-(अग्रतो विलोक्य) कपिंजल । विलोकय मृगयाकुतूहलाकुलितचेतोभिरस्माभिः कियच्चिरं लक्ष्यमतिहतम् । कपिंजल:-(परिक्रम्य) देव अयं स महावराहः प्रहारपतितस्तिष्ठति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001893
Book TitleSatyaharishchandranatakam
Original Sutra AuthorRamchandrasuri
AuthorBhaskar Ramchandra Arte, Vishnu Shankar Pauranik
PublisherTukaram Jawaji Mumbai
Publication Year1898
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy