________________
सत्यहरिश्चन्द्रनाटकम् |
राजा - (विलोक्य सकौतुकम् ) निशिततरशरालीदक्षिणेर्मा प्रवृद्धप्रसररुधिरधाराचित्रगात्री वराहः । स्मरयति सुरचापावाप्तवर्धिष्णुकांतेरविरलजलमैत्रीमेदुरांभोधरस्य ॥ १२ ॥ अपि च । यथेयमाकृतिरतैरवी तथा व्यक्तममुना दिव्येन पो
त्रिणा भाव्यम् ।
४
कपिंजल : - अपरश्चायं द्वीपी प्रतिहतोऽस्ति ।
राजा - अपरं पुनरिदं किम् ।
कपिंजल : - ( विलोक्य । सविचिकित्सकम् ) देव इदमज्ञातमेवास्तु | राजा -- तथापि किम् ।
कपिंजल : -- किममुना ज्ञातेन । अतिकालो भवति । निवर्ततां सौधाय देवः ।
राजा - ( खयमुपसृत्य सविचिकित्सम् ) कथमियमस्मन्नाराचपातविनिलुठितगर्भा वराकी हरिणी । अहहाकृत्याचरणम् । कोऽयं न्यायो यदपरिचिताशेषशस्त्रोऽपि यंत्र
र्धृत्वा धृत्वा पशुरशरणो हन्यते कांदिशीकः । हित्वा धर्म्यं पथमिह भुजादर्पकंडूकरालाः
क्षोणीपालास्तदपि मृगयाकौतुकान्यावति ॥ १२ ॥
E
कुंतल : - कृतमिदानीं मृगयाकौतुकेन । यावत्पाश्चात्यं सैन्यं संनिधीयते तावदेतस्य सहकारस्य तले तुरगादवतीर्य तिष्ठामः । राजा - (तुरगादवतरणं नाटयति) पुनर्विमृश्य । कपिंजल पुरो गत्वा विलोकय आश्रमः कियति दूरे ।
( यदादिशति देव इत्यभिधाय कपिंजलो निष्क्रांतः ) राजा - (सखेदम् )
धिङ्मां भ्रूणविघातिनं सकलुषं धिग् जीवितं मेऽखिलं क्षोणीलो ककरोपतापजनिता धिग् धिङ् ममैताः श्रियः । पुण्यास्ते करुणामृतार्द्र मनसो ये नाम वाचंयमा हस्तारोपितशर्मणि प्रतिकलं वृत्ताः शुभे कर्मणि ॥ १४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org