SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः । कुंतल वयमिदानीं सर्वखपरित्यागमीहामहे । कपिंजल : - ( प्रविश्य) प्रत्यासन्नं पश्य । राजा - किं सर्वस्वपरित्यागम् । कपिंजल : न हि मुनीनामाश्रमम् । ( सर्वे आश्रमाभिमुखं परिक्रामति) राजा - ( विलोक्य सहर्षम् ) विश्रंभांतिकचारिबालहरिणाः शाखाशिखालंबितप्रत्यग्राहृतदर्भवल्कसमिधो नीवारपुंजीजुषः । धूम्याश्यामलहोममंदिरभुवः कन्याजनक्रीडन -- न्यस्तांभस्तरलालवालबहलच्छायद्रुमा आश्रमाः ॥ १५ ॥ कपिंजल : - देव अयं कुलपतिः । इमे तपखिनः । (ततः प्रविशति कुलपतिः अंगारमुखप्रभृतयश्च तापसाः) कुलपतिः - ( सरोषमिव ) मर्त्यः कोऽपि समस्ति मांसनयनो नद्धांगभूर्धातुभिः सत्त्वं तस्य तु देवताभिरपि चाचाल्यं किमप्यद्भुतम् । अश्रद्धेयमिदं सुधर्मणि सभापीच्ये ब्रुवाणः स्वयं गीर्वाणाधिपतिर्न कस्य विदधे सक्रोधबोधं मनः ॥ १६ ॥ अंगारमुख: सर्वत्रोक्तिश्च युक्तिश्च वस्तुतत्त्वानपेक्षणी । प्राणाः प्रभुत्त्वसंपत्तेः प्रथमे खलु विश्रुताः ॥ १७ ॥ ततः कोऽयं मघवतः स्वैरालापेषु भवतां संरंभः | कुलपतिः -- किमपरमुच्यते । एष भगवतो मघवतः फल्गुतां नयामि वल्गितम् । कुंतल : - ( उपत्य) भगवन् अयोध्याधिपतिः प्रणमति । कुलपतिः - (सरभसम् ) स्वस्ति महाराजाय । कोऽत्र भोः पाद्यं पाद्यमर्घोऽर्घः । अये वैखानस आसनमासनमिक्ष्वाकुवंशावचूडाय महाराजाय । (प्रविश्य वैखानसः कुशासनमर्पयति । राजा प्रणम्योपविशति ) कुलपतिः - त्रिशंकुनंदन | ५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001893
Book TitleSatyaharishchandranatakam
Original Sutra AuthorRamchandrasuri
AuthorBhaskar Ramchandra Arte, Vishnu Shankar Pauranik
PublisherTukaram Jawaji Mumbai
Publication Year1898
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy