________________
२०
सत्यहरिश्चन्द्रनाटकम् । राजा-(सभयं विमृश्य) भगवन्मासमेकं सहख यावर उताऽपि कनकमुपनयामि।
कुलपतिः-मासानंतरं दास्यसि किं भिक्षयित्वा । राजा-इक्ष्वाकवो भिक्षां दातुं शिक्षिता न पुनर्ग्रहीतुम् । कुलपतिः-कुतस्तर्हि । राजा-आत्मानं विक्रीय दास्यामि । कुलपतिः-(भवत्वेवम्) किंतु वसुंधरां त्यज मे सत्वरम् । राजा-(सरोमांचम्) त्यज धरणिमिमां मे नास्मि सोढा तवाहं
कियदिदमुपदिष्टं नस्त्वया तापसेंद्र । ननु दिनकरवंश्याः खस्य संधां ससंधां
विरचयितुमसूनप्यस्ततंद्रास्त्यति ॥ १७ ॥ कुलपति:-(अपवार्य अंगारमुखं प्रति) अहो सत्यमहो सत्त्वम् । कतिसात्विकपुरुषरत्नगर्भा भगवती वसुमती ।
सुतारा-(अपवार्य सास्रम्) अमच किंपयं अह्माण अरिहमावडिअं।
वसुभूतिः -(सबाष्पम्) देवि किं मां पृच्छसि । देवं पृच्छ । राजा-मुने वसुंधरामपहाय व ब्रजामि । कुलपतिः-यत्र नोपलक्ष्यसे । राजा-(विमृश्य) देवि अंतःपुरे गच्छ । सुतारा-अहंपि अजउत्तेण सह आगमिस्सं । राजा--(सबाष्पम्) शीतालुस्तनयः शयालुरथवोष्णालुः प्रकृत्या महान्
शीतोष्णश्रमखेदवेदनकर घोरांतरं प्रांतरम् । पंथानं गतवाहना च भवती नो गाढमूर्जस्वला
तत्त्वं देवि समं सुतेन शिशुना तिष्ठात्र यामो वयम् ॥१८॥ मुतारा-जं भोइ तं भोउ । अहं अजउत्तेण सह आगमिस्सं।
१ अमात्य किंपदमस्माकमरिष्टमापतितम् . २ अहमपि आर्यपुत्रेण सहागमिष्यामि. ३ यद्भवति तद्भवतु अहं आर्यपुत्रेण सहागमिष्यामि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org