SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः। राजा-(कुंतलस्य कर्णे) एवमेवम् । (कुंतलो निष्क्रांतः) (नेपथ्ये) अहं सयं चेव आगच्छिअ आहरणाइ तावसस्स उवणइस्सं । राजा-(अपवार्य) अमात्य कथमागच्छति स्वयं देवी । (ततः प्रविशति कुंतलेनादिश्यमानमार्गा देवी सुतारा रोहिताश्वश्च) सुतारा-(प्रणम्य) भैयवं गिण्ह एयाइं मे आहरणाई। अंगारमुखः-(सोपहासम्) साधु पतिव्रते साधु । कुलपति:-(सावज्ञम्) भद्रे कनकाभरणं पैतृकं भार्तृकं वा । सुतारा-(सभयम्) अजउत्तेण एअं पसाईकिअं । कुलपति:-(साक्षेपम्) अस्मदीयमेवास्माकमर्पयसि । अहो ते दक्षता। अंगारमुख:-कुलपते नन्वियं हरिश्चंद्रस्य कैतवनिधिर्भायो । रोहिताश्व:-(प्रणम्य सभयम्) में गिण्ह मिल्हिहि मे पिअरं । (राजा सवाष्पमधोमुखस्तिष्ठति) कुलपतिः-(अपवार्य) अंगारमुख सबाष्पनिरुद्धकंठः प्रत्युत्तरं दातुमस्मै बालकाय न शक्नोमि ।। अंगारमुख:-आत्मानमधुनैव मा मुंच । (पुनः सुतारां प्रति) दंभनिपुणे त्वयायं बालको वक्तुमिदं शिक्षितः । (सुतारा सबाष्पमधोमुखी तिष्ठति) अंगारमुख:-(सोपहासम्) पतिव्रते यथास्थानं गत्वा समुपविश । कुंतल:-(सरोषम्) आः पाप तापसपिशाच सतीचक्रचूडामणि देवीं सुतरामुपहससि । एष ते तरवारिणा शिरः पातयामि । अंगारमुखः-अरे कर्मकरापसद मामासादितब्रह्माणं तपोधनमधिक्षिपसि । यदि मे तपसः फलमस्ति तदिदानीं श्मशानवासी शृगालो भव । (कुंतल: शृगालो भूत्वा शब्दायमानो निष्क्रांतः) १ अहं स्वयमेवागत्याभरणानि तापसस्योपनेष्यामि, २ भगवन् गृहागैतानि मे आभरणानि. ३ आर्यपुत्रेणैतत् प्रसादीकृतम्. ४ मां गृहाण मुंच मे पितरम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001893
Book TitleSatyaharishchandranatakam
Original Sutra AuthorRamchandrasuri
AuthorBhaskar Ramchandra Arte, Vishnu Shankar Pauranik
PublisherTukaram Jawaji Mumbai
Publication Year1898
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy