________________
षष्ठोऽङ्कः।
(ततः प्रविशति पिशाचः) पिशाचः-कुदो नाम देसंतरितोबभनकम्मकरस्स मयस्स अनलसक्कारसंभवो तदा तं अदद्धं चेव भक्खंतस्स मे चिरा वित्ती भविस्सदि । (इति नृत्यति । विलोक्य) को एस मसाणे समागच्छदि। भोतु नासइस्सं ।
(इति निष्कांतः)
(ततः प्रविशति हरिश्चंद्रः) हरिश्चंद्र:-(सखेदम्)
अपरिभ्रष्टस्य सत्त्वस्य नापूर्ण मम किंचन ।
खेचरीहोमभंगस्तु केवलं मां दुनोति सः ॥ १॥ (पुरो विलोक्य) तदिदं श्मशानं । यत्किल किंचिद्दग्धकलेवरं परिपतद्धं चिताभीषणं
भ्राम्यद्भूतमभूतपल्लवतरुध्वांक्षध्वनिव्याकुलम् । ताराक्रंदमहृद्यगंधमतनुश्वानारवं विस्फुर
झूमश्यामलमुच्छलद्गुरुशिवाफेत्कारपोरांतरम् ॥ २ ॥ (पुनः स्मृत्वा) अस्त्येषा किंवदंती पुरे यथा शतशो गवेक्ष्यमाणोऽपि चंद्रशेखरेण मांत्रिको नोपलब्धः । (पुनः सप्रमोदम्)
आत्मानं समिधं विधाय विलसज्वालाजटालेऽनले __कीरेणोपकृतं महद्दिनकृतो गोत्रस्य मे नान्यथा । देव्यां यद्यसमंजसं विरचयेद्वाणारसीभूपतिः
क्रुद्धः किंचन बालकः खलु तदा वत्सो विपद्येत सः ॥३॥ (नेपथ्ये) एसे विवन्ने आगदे ।
हरिश्चंद्रः-किं वत्सो विपन्नः समागतः । प्रतिहतममंगलम् । विजयते भरतकुलम् । अखंडितप्रसरा संततिरिक्ष्वाकूणाम् ।
१ कुतो नाम देशांतरितब्राह्मणकर्मकरस्य मृतस्यानलसंस्कारसंभवः । तदा तमदग्धमेव भक्षयतो मे चिरं तृप्तिर्भविष्यति । २ क एष श्मशाने समागच्छति । भवतु नाशयिष्यामि. ३ एष विपन्न आगतः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org