SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ सत्यहरिश्चन्द्रनाटकम् । ज्ञात्वा कुतोऽपि ननु मध्यमलोकपाल तं शाधि साधुजनबाधकरं श्वपाकम् । प्रत्यर्थिनः शमवतां रहितायुधानां न्यायार्थिभिर्नृपतिभिः खलु शासनीयाः ॥ २३ ॥ राजा--(प्रणम्य सविषादम्) परेषां दंडमाधातुमहमन्यायिनामलम् । न पुनः स्वात्मनो दूरशर्मणः पापकर्मणः ॥ २४ ॥ कुलपतिः-(सरोषं ससंभ्रमम्) किमुक्तं स्यान्मया व्यापादितेति। ' (राजा प्रणम्याधोमुखस्तिष्ठति) कुलपतिः-(वल्कलेन मुखं पिधायोञ्चैःस्वरम्.) आः पाप चापशरधी नियतं दधासि __ ध्यानकतानमनसः शमिनो निहंतुम् । युष्मादृशाः प्रतिनृपप्रहतौ वराकाः संग्रामधामनि कुतः प्रभविष्णवः स्युः ॥ २५ ॥ राजा-(सविनयं प्रणम्य) भगवन् प्रसीद प्रसीद क्षमस्व त्वमेकमपराधम् । कुलपतिः-अरे भरतकुलपांसन । त्रिशंकुयशश्चंद्रमसः कलंक । अदृश्यमुख । अस्पर्श । स्त्रीभ्रूणघातगुरुपातकपंकिलास्य मेध्याद्रज ब्रज द्रुतं द्रुतमाश्रमान्नः । युष्मादृशामकरुणैकशिरोमणीनां सर्वसहापि विरमत्यनुषंगपापात् ॥ २६ ॥ राजा-(सविनयम्) इत्थं गते कथय किं करवाणि सोऽह मुद्भिन्नगर्भहरिणीहननश्वपाकः । धात्रीं त्यजामि विषमव्रतमाचरामि ___ किंवा विशामि रुचिलीढदिशं हुताशम् ॥ २७ ॥ कुलपतिः-अरे पाप सत्वरमपसर । किमात्मनो वचनं श्राव. यसि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001893
Book TitleSatyaharishchandranatakam
Original Sutra AuthorRamchandrasuri
AuthorBhaskar Ramchandra Arte, Vishnu Shankar Pauranik
PublisherTukaram Jawaji Mumbai
Publication Year1898
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy