________________
प्रथमोऽङ्कः । अंगारमुखः-(सकपटम्) प्रसीद वाचंयमधुर्य ते रुषा
कृतानुतापः स्वयमप्ययं नृपः । तपोभृतामेकधुरीण किं मुधा
महीभृतामेकधुरोऽवधीयते ॥ २८ ।। कुलपतिः-अरे अंगारमुख यदि परमयं भ्रूणहा सर्वस्खदानेनैव शुद्ध्यति । राजा-(साश्वासम्) प्रसीद त्वं त्रातर्विलयमयतां गर्भहरिणी
विघाताविर्भूतं सपदि कलुषं दुस्तरमपि । सदुर्गा सग्रामा सगजतुरगा साश्रमपदा
मया तुभ्यं दत्ता चतुरुदधिकांची वसुमती ॥ २९ ॥ अंगारमुखः-(प्रणम्य) भगवन् अयोध्याधिपतिर्यदभिधत्ते तत्प्रतिपद्यस्व ।
कपिंजल:-(अपवार्य) देव किमिदम् । कुंतल:-देव कोऽयमुत्पातः । राजा-(अवगणय्य) भगवन् मदुक्तं मेऽस्तु । कुलपतिः-दत्ता मह्यं वसुमती भवता । राजा-युष्मभ्यं दत्ता वसुमती । कुलपतिः-नार्हसि वसुंधराया भोगमतः परम् । राजा-नार्हामि वसुंधराभोगमतःपरम् । कुलपतिः-कोऽत्र भोः । (प्रविश्य तापसः) आदिशतु कुलपतिः ।
कुलपतिः-अये काश्यप भागीरथीदक्षिणाश्रमवासिनं वाराणसीतः समायातमस्मदंतेवासिनं कौटिल्यमाकारय । (यदादिशति कुलपतिः । इत्यभिधाय काश्यपो निष्क्रांतः)
(प्रविश्य कौटिल्यः प्रणमति) कुलपतिः-कौटिल्य हरिश्चंद्रेण वसुंधरास्मभ्यं प्रतिपादितेत्यत्रार्थे त्वं साक्षी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org