SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ सत्यहरिश्चन्द्रनाटकम् । कौटिल्यः-महाराज अत्रार्थे वयं साक्षिणः । राजा---अत्रार्थे यूयं साक्षिणः । (प्रविश्य वैखानसः) भयवं जाव विवन्ना हरिणी । कुंतल:-(अपवार्य) कपिंजल यथायं बंदी पठितवांस्तथा व्यक्तं प्रातर्देवस्य प्रवासो भविष्यति । वैखानसः-आस्समपए चिठ्ठइ ताव होमबिही न पवइ । तयाणिं किं करेदु । कुलपतिः--अग्निसंस्कारं च गत्वा कारय । वंचना-मैए सह तीए अग्गिसक्कारो भविस्सइ।. राजा-(प्रणम्य) एकं क्षमस्व दुःसाधमपराधं तपोधने । वितरिष्याम्यहं तुभ्यं हेनो लक्षमसंशयम् ॥ ३० ॥ अंगारमुखः-यदयं वर्णाश्रमगुरुरभिधत्ते तदस्तु । वंचना-एवं भोदु। कुलपतिः-दीयतां तर्हि सुवर्णमेतस्यै । राजा-कनकं भवद्भिरयोध्यामागत्य ग्रहीतव्यम् । कुलपतिः--न वयं प्रचुरपौरपांसुरासु नगरवसुंधरासु संचरामः । अंगारमुखः-भगवन् यदभिधत्ते साकेतपतिस्तदस्तु । कुलपतिः-अस्तु किंतु यूयं मध्याह्नसंध्यामलंघयता साकेतपतिना विसर्जनीयाः । राजा-अवश्यमेतत् । (नेपथ्ये) गाहंता सरयूतटानि तुरगाः स्वैरं गणः सादिनां ___ तंद्रालुर्बहुलाश्रमक्षितिरुहच्छायासु विश्राम्यतु । कुंजेषु व्यवधास्थितेषु दधतामाधोरणाः कुंजरान् वीक्षतां च मृगधुवारवनिताः शक्रावतारश्रियम् ॥ ३१ ॥ १ भगवन्यावद्विपन्ना हरिणी. २ आश्रमपदे तिष्ठति तावद् होमविधिर्न प्रवर्तते । तदानीं किं क्रियताम. ३ मया सह तस्या अग्निसंस्कारो भविष्यति. ४ एवं भवतु, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001893
Book TitleSatyaharishchandranatakam
Original Sutra AuthorRamchandrasuri
AuthorBhaskar Ramchandra Arte, Vishnu Shankar Pauranik
PublisherTukaram Jawaji Mumbai
Publication Year1898
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy