________________
प्रथमोऽङ्कः । कुंतलः-देव पाश्चात्यं सैन्यमागतम् ।
(पुनर्नेपथ्ये बंदी) क्षीणाशेषनिजप्रतापविसरः संत्रुट्यदाशास्थितिः
प्रक्षिप्याखिलभक्षिणो हुतभुजो के समस्तं महः । उद्गच्छन्मुनिमंडलेन कलितं वृत्तैकभूः स्खं पदं . हित्वा कामति पश्चिमालयमयं देवो हहा गोः पतिः ॥ ३२ ॥ कुलपतिः-महाराज प्रदोषसंध्यासमयोऽस्माकमिदानीम् । राजा-तर्हि वयम्ब्रह्मांडोदरसंचरिष्णुयशसो वंदारुवृंदारक
श्रेणीशेखरपारिजातसुमनःकिंजक्लकिर्मीरिताम् । इक्ष्वाकुक्षितिपालसंततिगुरोः शकावतारस्थिते
न भेयस्य विलोक्य पादयुगली सौधाय चेष्टामहे ॥ ३३ ॥ कुलपतिः-वयमपि प्रादोषिकं संध्याविधिमनुष्ठातुं प्रतिष्ठामहे ।
(इति निष्क्रांताः सर्वे) इति प्रथमोऽङ्कः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org