________________
THAT
द्वितीयोऽङ्कः। (ततः प्रविशत्यमात्यो वसुभूतिः कुंतलश्च) वसुभूति:-~-ततस्ततः ।
कुंतलः-अनंतरं सकलदेवताधिचक्रवर्तिनः सरयूसीकरासारसंपर्कसततार्द्रपादपद्मस्य भगवतो नाभिनंदनस्य सांध्यं सपर्याविधिमाधाय देवः सौधमधिष्ठितवान् ।
वसुभूतिः-(विमृश्य) के पुनर्वराहं देवाय विज्ञप्तवंतः । कुंतल:-सर्वैरदृष्टचरः कोऽपि ।।
वसुभूतिः---यदि सर्वैरदृष्टचरस्तहि व्यक्तमिदमिंद्रजालं किमपि । भवतु तावत् । संप्रति देवः क्वास्ति । कुंतल:-एष विलासमंडपे तिष्ठति ।
(ततः प्रविशति राजा सहर्षम्) कुंतल:-(उपसृत्य) देव अमात्यः प्रणमति ।
(वसुभूतिः प्रणम्योपविशति) राजा-(सहर्षम्) अमात्य ह्यस्तनेऽहनि यदस्माभिर्वराहदेवकस्य पुरे यत्प्रतिज्ञातं तदखिलं वराहं व्यापाद्य नियूंढम् ।
वसुभूतिः-शस्तनवृत्तांतं ज्ञातवानस्मि । राजा-(विहस्य) व्यक्तं कुंतलः कथितवान् । वसुभूतिः -देव ।
एतेन परमानंदरूपं प्राभवमुच्यते ।
अनौचित्यमपि स्तौति येनौचित्यमिवानुगः ॥ १ ॥ तथापि किमपि विपरीतं विज्ञपयिष्यामि । राजा-स्वैरं विज्ञपय । वसुभूतिः-वसुमतीपरित्यागो नाम समुचितः प्रतिभाति । राजा-अमात्य ।
उचितमिदमनुचितमिति प्रारंभात् पूर्वमेव युज्यते । प्रारब्धस्य तु निर्वहणमेव संकल्पनं न्याय्यम् ॥ २ ॥ अपि च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org