SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः । श्रियो नाशं यांतु व्रजतु निधनं गोत्रमखिलं शिरश्छेदो वास्तु प्रभवतु समंताद्विपदपि । विवेकार्कज्योतिर्विघटितमहामोह तमसः प्रतिज्ञातादर्थात्तदपि न चलंत्येव कृतिनः ॥ ३ ॥ तदलमनया पूर्वकृतमीमांसया । प्रगुणय कनकलक्षम् । इदानीं समायाति कुलपतिः । (नेपथ्ये ) इतः इतः । राजा - अमात्य समायात एव तापसः । तदुपनय सत्वरं कनकम् । वसुभूतिः -- ( कुंतलस्य कर्णे ) एवमेव । ( एष समायातोऽस्मीत्यभिधाय कुंतलो निष्क्रांतः ) (ततः प्रविशति कुलपतिरंगारमुखश्च ) कुलपतिः - (साश्चर्यम् ) अंगारमुख वचसामगोचरं किमप्यस्य त्रैशंकवस्य सत्त्वम् । अंगारमुखः - - किं कदापि कमप्यनुचितमुपस्तौति । इंद्रो वा स्तोष्यति । कुलपतिः - ज्ञास्यामि यद्यतः परमपि सत्त्वमेवमस्य भविष्यति । राजा - ( सरभसम् ) स्वागतं महर्षे । कोऽत्र भो आसनमासनम् । कुलपतिः - अलमासनेन । आकर्णय किमपि । राजा - आदिशतु कुलपतिः । कुलपतिः कृशानुसेवा फलकंदवर्तनं जटाधरत्वं वनवासिनां व्रतम् । महीपतीनामिदमेव तु व्रतं १३ यदात्मसत्यात्प्रलयेऽपि न च्युतिः ॥ ४ ॥ राजा - ततः किम् । कुलपतिः- Jain Education International वनांतरात्प्रातरुपेत्य ते पुरीं पुरोवतीर्णे मयि योगिनां वरे । For Private & Personal Use Only www.jainelibrary.org
SR No.001893
Book TitleSatyaharishchandranatakam
Original Sutra AuthorRamchandrasuri
AuthorBhaskar Ramchandra Arte, Vishnu Shankar Pauranik
PublisherTukaram Jawaji Mumbai
Publication Year1898
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy