SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः । (नेपथ्ये) वत्से जइ तुमं अणसणं करिस्सइ ता अहंपि करिस्सं । कुलपतिः -- ( ससंभ्रमम् ) इयमस्मद्धर्मचारिणी निकृतिर्वत्सामनुसरति । अंगारमुख द्वे अप्यत्र प्रेषय । (अंगारमुखः सत्वरं निष्क्रांतः) (ततः प्रविशतस्तापस्यौ) कुलपतिः वत्से किं विषाद निषादपरवशा दृश्यसे । वंचना - ( सबाष्पम् ) जाणाहि ताउ । कुलपतिः - वत्से किमहं जानामि । वंचना - ( रोदिति) कुलपतिः - ( ससंभ्रमम्) कथय । वत्से किमहं जानामि । वंचना - अत्थि मे कीलाहरिणी एवं जाणाइ ताउ । कुलपतिः -- या किल बाल्यादारभ्य स्वहस्तदत्तनीवारकवलेः प्रवृद्धि नीता । ततः किं तस्याः । ( वंचना उच्चैः खरं रोदिति) अंगारमुखः -- ( प्रविश्य संभ्रांत :) भूरराजन्वती सेयमब्रह्मण्यमहो महत् । मृगयाव्याकुलैः पापैर्गर्भिणी हरिणी हता ॥ २१ ॥ कुलपतिः - ( सरोषमिव) राजन्निक्ष्वाकुवंशक्षितिपतितिलक ध्यानविध्वंसकारी कौतस्त्यस्तापसानामयमतनुरिहाकस्मिकः शोकशंकुः । स्फीतन्याये भवत्यप्यवनितलपतौ यद्यराजन्वती भूः श्रेयोविश्रामयष्टिस्तदियमुपहता धर्मकर्मप्रवृत्तिः ॥ २२ ॥ ( राजा वीडया दिक्षु चक्षुषी निक्षिपति ) वंचना तय अहं अणसणं करिस्सं । निकृतिः – अहमपि । कुलपतिः - ( सरोषम् ) १ वत्से यदि त्वमनशनं करिष्यसि तदाऽहमपि करिष्यामि २ जानासि तात. ३ अस्ति मे कीडाहरिणी एवं जानाति तातः. ४ ताताहमनशनं करिष्यामि . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001893
Book TitleSatyaharishchandranatakam
Original Sutra AuthorRamchandrasuri
AuthorBhaskar Ramchandra Arte, Vishnu Shankar Pauranik
PublisherTukaram Jawaji Mumbai
Publication Year1898
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy