________________
५६
सत्यहरिश्चन्द्रनाटकम् । हरिश्चंद्र:-(सभयम्) स्वामिन् कंटकेन मे क्षतश्चरणस्ततो विलंबः ।
वनिता-हा पुत्त भरदकुलपईव तरणिवंसावचूल चक्कवट्टिलख्कणसमलंकिदसरीर किं एदं समुपत्थिदं ।
हरिश्चंद्रः-(प्रत्यभिज्ञाय) कथमियं देवी सुतारा । अयं च विपन्नो वत्सो मे रोहिताश्वश्च । साम्राज्यापगमो विदेशगमनं पुत्रप्रियाविक्रयो
ब्रीडाकारि कठोरघोरमनसो दास्यं निषादस्य च । एतैस्तैरसमाप्तकौतुकविधिर्वधाः पुनश्चोत्सवै
र्वत्सस्य स्तनपानकोमलदृशः पंचत्वमानीतवान् ॥ ६ ॥ वनिता-ही निग्घिण वज्रहियय कीस तए मारणत्थं कुसुमाहरणं मि एस मह तणउ पेसिउ । हरिश्चंद्र:--(सदुःखम्)
धनप्रवासे रिपुदेशवासे
परस्य दास्ये च विधीयमाने । अनन्यबंधोस्तनयस्य मृत्युः सेयं परा काचन दुःखकाष्ठा ॥ ७ ॥
(विमृश्य सावष्टंभम्) हरिश्चंद्रोऽहमखिलाः सहिष्ये विपदः खलु ।
एकापत्या पुनर्देवी व्यक्तमेषा विपत्स्यते ॥ ८ ॥ कालदंड:-अले कीसे विलंबसे ।
हरिश्चंद्रः-(सभयमुपसृत्य सबाष्पकंठम्) देवि निर्भाग्यशेखरे किमिदम् ।
(वनिता तारखरं रोदिति) हरिश्चंद्र:-(सबाष्पम्) देवि कोऽयं भरतकुलस्य वज्रनिपातः।
१ हा पुत्र भरतकुलपते तरणिवंशावचूड चक्रवर्तिलक्षणसमलंकृतशरीर किमिदं समुपस्थितम्. २ हा निघृण वज्रहृदय कस्मात् त्वया मारणार्थ कुसुमाहरणायैष मम तनयः प्रेषित:. ३ अरे कस्माद्विलंबसे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org