________________
षष्ठोऽकः ।
६७
वनिता-(विलोक्य तारखरं रुदंती) अजउत्त पिच्छ निक्करुणेन दिवेन कीदिसं किदं । एस अजउ पभायसमयं मि दब्भसमिदाहरणत्थं गउ पुत्तो रोहितासो भुयंगमेण दट्ठो।
हरिश्चंद्रः-(रोहिताश्वस्य वदनमुद्धाट्य) वत्स भुजंगमस्त्वां दष्टवान् । (सास्रम्) राजतात मृगांकवदन सरोजनयन नयमंडन भरतकुलनंदन त्वरितमुत्थाय परिरभस्व माम् । (पुनर्मुखमाघ्राय) देव किं नामात्मपितरं नोपलक्षयसि । (पुनर्विचिंत्य) कथं चिरादृष्टं मां वत्सोनोपलक्षयति । देवि वत्सो मां नालपति नाप्यालिंगति ।
वनिता-मूढ हियय किं मं पुच्छसि । दिवं पुच्छ ।
हरिश्चंद्रः-(चेतनामास्थाय सलजम्) नन्वयं विपन्नो वत्सः कथं मामालपति श्लिष्यति च । तदहमतः परं वृथा प्राणिमि वत्सेनैव सह चितामारोहामि । यदि वा धिङ् मे चिंतितं निषादाधीनस्य मे चिताधिरोहणं कीदृशमौचित्यमावहति ।
कालदंड:-(सरोषम्) अले कम्मकला एदाए इत्थियाए सह मुअणत्तणं किं पि तए पालद्धं । जं एवं विलंबसे ।
हरिश्चंद्र:-(विमृश्य) अतिनिर्दयमिदम् । यदहं मृतस्य सुतस्य वसनमपहरामि । तदलममुना तरणिकुलकलंकेन कर्मणा । निषादपतिः सुकुप्यतु व्यापादयतु वा माम् । (कतिचित्पदानि गत्वा प्रतिनिवृत्य सपश्चात्तापम् ) कोऽयं मे पूर्वापरहतः संकल्पः । यतः
अयं कलंको यदहं मृतस्य ।
पुत्रस्य वस्त्रं किल संहरामि । सत्यव्रतं यत्तु निजं त्यजामि भानोः कुलोऽसौ न पुनः कलंकः ॥ ९॥
(विमृश्य सावष्टंभम्) . इक्ष्वाकुः खलु सोऽहमेकसदनं शौर्यस्य धैर्यस्य च
व्यापत्तिः प्रतिवासरं प्रतिदिशं कामं समुज्जूंभिता । १ आर्यपुत्र पश्य निष्करुणेन दैवेन कीदृशं कृतम् । एषोऽद्य प्रभातसमये दर्भसमिदाहरणार्थ गतः पुत्रः रोहिताश्वो भुजंगमेन दष्टः. २ मूढहृदय किं मां पृच्छसि । दैवं पृच्छ. ३ अरे कर्मकर एतया स्त्रिया सह सुजनत्वं किमपि त्वया प्रारब्धम् । यदेवं विलंबसे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org