SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४२ सत्यहरिश्चन्द्रनाटकम् । तापसाय प्रदत्ता । अपूर्णायां कनकलक्षायां तापसेनायमियतीमवस्था लंभितः । इयं चास्य पत्नी सुतारा देवी । राजा--(सविनयं हरिश्चंद्रं प्रति) महाभाग वसुमती त्वया तापसाय वितीर्णा । हरिश्चंद्रः-देव विज्ञप्तं मया नाहं साकेतपतिः । राजा-अरे शुकाधम पुनरस्मान् विप्लावयसि । शुकः-देव महासत्त्वचूडामणिरयं किमात्मानमुपस्तौति । सतो वाप्यसतो वापि स्वान् स्वयं कीर्तयन् गुणान् । _ब्रह्माऽपि हास्यतां याति किमन्यः प्राकृतो जनः ॥ ११ ॥ राजा-(विमृश्य युवतिं प्रति) भद्रे वकं पात्रं लवणमधुनः पद्महृद्यौ च पाणी ___ वाणी स्वादुश्चकितहरिणीहारिणी नेत्रपद्मे । वद्ये लज्जा स्थितिरविकृतिर्भूरि सत्त्वं महत्त्वं तत्त्वं तत्त्वं कथय ननु नः कासि कस्यासि पत्नी ॥ १२ ॥ युवति:-(सलजम्) महाराय कधियं मए । अहं वज्रहिअयस्स भणस्स दासी। शुकः-देव अयं हरिश्चंद्रः । सेयमस्य पत्नी सुतारा । अमुमर्थ ब्रह्मापि न विघटयति । राजा-(हरिश्चंद्र प्रति) महाभाग मा भैषीः । सत्यमावेदय । यदि नाम वयं द्वेषिणस्तथापि संजातविपदो भवतस्त्रातारः । ततः प्रकटयात्मानम् । प्रार्थयस्व किमप्यभिलषितम् । हरिश्चंद्रः-(खगतम्) हरिश्चंद्रः स्वल्वहं प्राणात्ययेऽपि न प्रतिपंथिनमर्थये । देव्यास्तु यद्भाव्यं तद्भवतु । (प्रकाशम्) किमप्यस्य पक्षिणो वचसा पुनः पुनरात्मानमायासयति देवः । विज्ञप्तं मया दे. वाग्रे निषादभृतकोऽहम् । राजा-अरे कालदंड कोऽयम् । कालदंड:-(सभयम्) भेट्टा एसे मे कम्मकले। १ महाराज कथितं मया । अहं वज्रहृदयस्य ब्राह्मणस्य दासी. २ भर्तः एष मे कर्मकरः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001893
Book TitleSatyaharishchandranatakam
Original Sutra AuthorRamchandrasuri
AuthorBhaskar Ramchandra Arte, Vishnu Shankar Pauranik
PublisherTukaram Jawaji Mumbai
Publication Year1898
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy