SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः । मांत्रिका-(सरोषम् ) पक्षिणां वचोभिर्दिव्यदृष्टयो मांत्रिका व्यर्थ क्रियते । अहो बुद्धिकौशलम् । सत्यवसुः-(अपवार्य) नास्यामाकृतौ राक्षसीकर्म संभवति । शुकश्चायं बहुदृश्वा च । ततो देवेन किमपि विमृश्याचरणीयम् । व्यक्तमिदं मांत्रिकस्य विजूंभितम् । राजा-अमात्य दृष्टप्रत्ययो मांत्रिकः । निषादभृतकश्चायं न शुकवचनमनुमन्यते । ततो वयं शुकप्रत्ययं कथमालंबामहे । मांत्रिक:-(सरोषम्) यदि राक्षसीदंडमाधांतुमनलं महाराजस्तर्हि नजामो वयम् । राजा-(विमृश्य) अरे कालदंड न स्त्रियो वधमर्हति । अतस्त्वमेवैनां राक्षसी गर्दभारूढां पुरपथिषु भ्रमयित्वा निर्विषयां कुरु । हरिश्चंद्र:-(सखेदमात्भगतम्) क तद्वृत्तं देव्याः शिबिनृपतिवंशार्णवभुवः ___क वायं व्याहारस्तरणिकुललज्जाक्षयकरः । न यो वाचः पात्रं न भवति दृशोर्नापि मनस___स्तमप्यर्थं क्रुद्धो हतविधिरकांडे घटयति ॥ १३ ॥ कालदंड:-अले कम्मकला गडुअ रासभं आणिहि । हरिश्चंद्रः--यदादिशति स्वामी । (इत्यभिधाय निष्क्रम्य सरासभः प्रविशति) कालदंड:-अले लासभे एदं लख्कसिं आलोहय । (हरिश्चंद्रः सबाष्पकंठो युवतिं रासभमारोहयति । युवतिर्मदं मंदं रोदिति) शुकः-(तारस्वरम्) अहो अकृत्याचरणमकृत्याचरणम् । सत्यवसुः-देव अपर्यालोचितमिदं कर्म । राजा—सप्रत्ययेऽपि कर्मणि कः पर्यालोचः । शुकः—एवं प्रत्ययमवलोकयतु देवः । राजा-कः प्रत्ययः । शुकः-अहं तु जातवेदसि प्रविश्य सुतारापवादमपहरामि । __१ अरे कर्मकर गत्वा रासभमानय. २ अरे रासभे एतां राक्षसीमा रोय. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001893
Book TitleSatyaharishchandranatakam
Original Sutra AuthorRamchandrasuri
AuthorBhaskar Ramchandra Arte, Vishnu Shankar Pauranik
PublisherTukaram Jawaji Mumbai
Publication Year1898
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy