________________
४४
सत्यहरिश्चन्द्रनाटकम् |
राजा -- भवत्वेवम् । कोऽत्रभोः । उपनयतु रे अग्निं काष्ठानि च । ( प्रविश्य पुरुषः सर्वमुपनयति )
शुकः -- अमात्य मां पिंजराद्विमोचय ।
(सत्यवसुः पंजरमुद्घाटयति । सर्वे कौतुकमवलोकयंति) शुकः - ( चितायाः पुरो भूत्वा दक्षिणं भुजमुत्क्षिप्य ) जंभारिप्रमुखाः क्षणं शृणुत मे हं हो दिशां नायकाः
क्रव्यादान्वयसंभवा किल भवेत्सेयं मृगाक्षी यदि । भाभिः पिंजरयंस्तरूनविरलज्वालाकरालाकृति
चालं दहतु प्रसह्य भगवान् मां जातवेदास्तदा ॥ १४ ॥ (चितामारोहयति )
सर्वे (कौतुकम् ) कथं विध्मातो जातवेदाः । अक्षतांगः शुकः । अमात्य -- ( अपवार्य) देव व्यक्तमस्य मांत्रिकस्य विजृंभितम् । तदयमर्थो विस्तरेण विज्ञातव्योऽस्ति । सांप्रतं पुनरयं मांत्रिको व्याजांतरेण विसृज्यते ।
राजा -रे कालदंड युवतिमेतां रासभादवतार्य विसर्जय । लंबस्तनि स्ववासमनुसर । अमात्य विहंगमराजं पंजरे नियोजय । (मांत्रिकं प्रति) पुनरप्ययमर्थः पराह्णे पर्यालोचयिष्यते । सांप्रतं व्रजत यूयम् । वयमपि करणीयांतरमनुतिष्ठामः ।
Jain Education International
(इति निष्क्रांताः सर्वे) चतुर्थोऽङ्कः समाप्तः ॥
For Private & Personal Use Only
www.jainelibrary.org