________________
चतुर्थोऽङ्कः ।
वक्रं चंद्रविलासमंबुजपरीहासक्षमे लोचने वर्णः स्वर्णमपाकरिष्णुरलिनीं जिष्णुः कचानां चयः ।
वक्षोजाविभकुंभविभ्रमहरौ गुर्वी नितंब स्थली
वाचां हारि च मार्दवं युवतिषु स्वाभाविकं मंडनम् ॥ ९ ॥ शुकः - सतीचक्रचूडामणे उशीनरमहाराजपुत्रि सुतारे देवि
नमस्तुभ्यम् ।
राजा - ( सरोषम् ) अरे विहंगमाधम किमिदं पुनः पुनरसंबद्धमभिदधासि ।
शुकः - ( सावष्टंभम् ) महाराज प्रलयेऽपि न किमप्यसंबद्धमभिदधामि । नन्वयं साकेतनाथो हरिश्चंद्रः । इयं चास्य सहधर्मचारिणी देवी सुतारा ।
राजा - (हरिश्चंद्रं प्रति) अरे निषादभृतक हरिश्चंद्रो भवान् । इयं ते पत्नी च सुतारा । ( युवतीं प्रति) भद्रे हरिश्चंद्रपत्नी भवती ।
४१
हरिश्चंद्र : -- (स्वगतम्) प्रतिपंथिनोऽस्य पुरतः सांप्रतमात्मप्रकाशनं दैन्यमावहति । ( प्रकाशम् ) महाराज नाहं साकेतपतिः किंतु देशांतरादागतो बाल्यप्रभृति दारिद्र्योपहतो निषादस्य भृतकः ।
युवति: - (स्वगतम्) अहं पि अत्ताणं न पकासइस्सं । जं भोइ तं भोउ । ( प्रकाशम्) मैहाराय नाहं सुतारा किंतु वज्रहिययस्य भणस्य दासी |
राजा - ( सरोषम् ) अरे विहंगमापसद किमिदम् ।
मांत्रिक :- अबुद्धिपूर्व शुकाः पठतीति भवता किं न श्रुतम् । शुकः -- (सखेदम् )
यः परप्रीतिमाधातुं भस्मतामपि गच्छति ।
विवेकमानिना पश्य धात्रा सोऽप्यगुरुः कृतः ॥ १० ॥
राजा - अरे विहंगम व्यक्तमावेदय ।
शुकः - देव हरिश्चंद्रोऽयम् । अमुना पृथ्वी कनकलक्षाधिका
तद् भवतु.
१ अहमप्यात्मानं न प्रकाशयिष्यामि । यद्भवति २ महाराज नाहं सुतारा किंतु वज्रहृदयस्य ब्राह्मणस्य दासी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org