________________
तृतीयोऽङ्कः ।
अनुसर चरितानि सात्विकानामलममुना परिदेवितेन देवि । अयमपि च दधाति रोहिताश्वो भयमवलोक्य तवेदृशीमवस्थाम् ॥ ९ ॥
राजा - (विमृश्य )
( सुतारा मंद मंद रोदिति )
सहास्तिकांसपुरकोशदेशानुगा तथमेवमभिर्तये मुनिजनाय दत्ता मही । श्रवांसि यो त डुः शिखिशिखाभिरासिंचती प्रियातनयविक्रयश्रुतिरकीर्तिभूत्यै यथा ॥ १० ॥
ततस्त्वं देवि वत्समादाय पितृगृहं व्रज ।
१
सुतारा - ( साक्षेपम् ) विगयरज्जं अज्जउत्तं परिवच्चअ पिदहरं वचंती सयं चेव अह दुज्जणा जाया । जउ भृतकापणवीष्पसामन्नं सव्वत्थवि विह्वमडप्फरपरेसु दिअहेसु सयणाण दुज्जणाणं विहवाभावं मिउ विवेत्ति ता पढमं मह विक्कणउ । पत्था अज्जउत्तस्स । (ततः प्रविशति द्विजः )
द्विजः -- सांप्रतं भृतिकाशून्यं मे सदनम् । तदहमस्यां भृत'पणवीथ्यां भृतिकां कामपि विलोकयामि । (पुरो विलोक्य सकौतुकं तारां प्रति)
का त्वं सुंदरि कस्तवात्र जनकस्त्राता सुहृद्वांधवः
कः पुण्यैकनिधिः सरोजसुभगं पाणिं तवापीडयत् । कुत्रत्यासि किमर्थमिदुवदने सौभाग्यसौरभ्यभू
रात्मायं दुरितस्य केलिसदने दास्याय संकल्प्यते ॥११॥ (सुतारा सवाष्पमधोमुखी भवति)
द्विज: - ( विलोक्य राजानं प्रति)
२९
Jain Education International
१ विगतराज्यमार्यपुत्रं परिवर्ज्य (परित्यज्य ) पितृगृहं व्रजंती स्वयमेवाहं दुर्जना जाता । यदा भृतकापणवीथिभूम्यां सर्वत्रापि विभवगर्वपरेषु दिवसेषु सज्जनानां दुर्जनानां विभवाभावे विवेक इति तत् प्रथमं मम विक्रयः पश्चादार्यपुत्रस्य.
For Private & Personal Use Only
www.jainelibrary.org