SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ सत्यहरिश्चन्द्रनाटकम् | कुलपतिः - ( सरोषम् ) तिष्ठतु कनकं ग्रहीष्यामो वयम् । राजा -भगवन् न नाम मे कश्चिदाशयदोषः । दयितासुतौ विक्रीय यावत्कनकं प्राप्तं तावदुपनीतम् । अंगारमुखः - अये त्रैशंकव किममुना कुत्सितकुटुंब विक्रयेण । प्रार्थय चंद्रशेखरमत्र भूपतिम् । येनायमेकहेलयैव कनकलक्षं प्रयच्छति । ३२ राजा - किमेवमभिदधासि । हरिश्चंद्रः खल्वहं न नाम शतशः पराभूतान् प्रत्यर्थिनः प्राणात्ययेऽपि प्रार्थये । अपकृत्यापकार्येषु ये भवत्यर्थिनः पुनः । तेषु मन्ये मनुष्यत्वं विधिवाद्धिक विक्रिया ॥ १५ ॥ कुलपतिः - अरे नीच अस्मत्कनकदानसमये महत्त्वकार नाटयसि । राजा -मुनींद्र मा कुपस्तुभ्यं लभ्यं यच्छामि कांचनम् । विधाय निर्विषादस्य निषादस्यापि दास्यताम् ॥ १६ (ततः प्रविशति कौपीनमात्रपरिधानः कपिललंबुकेशः करवलितयष्टिर्वृद्धो निषादनिषाद : - ( विलोक्य राजानं प्रति) अले मत्थयनिहिददब्भपूले तुमं । किं कंमकरे । आदु अवलोकवि । राजा -- कर्मकारोऽस्मि । निषादः - किं कम्मं कलिस्सदि । राजा - (दिशो विलोक्य स्वगतम्) अस्ताभिमुखो गभस्तिमान् अतिक्रांता ऋयिकालापवेला । अनुपलक्षितो नगरेषु निशि निवा न लभते । विलंबमसहिष्णुश्च तापसः । तदहमिदानीं श्वपाकस्या कर्म करोमि । ( प्रकाशम्) करिष्यामि ते कर्म । '' कुलपतिः - (अपवार्य सरोमांचम् ) महासत्त्वचूडामणे नमस्ते निषादः – भागीरथी दक्षिणमसाणाहिवइ कालदंडाभिहाणे चं १ अरे मस्तकनिहितदर्भपूल कस्त्वं । किं कर्मकरः । अत्रावलोकर २ किं कर्म करिष्यसि. ३ भागीरथी दक्षिणश्मशानाधिपतिः कालदंड | भिधानश्चंडालोऽहम् । श्मशाने यदुत्पद्यते तस्यार्धं राजा गृह्णाति अपरस्यार्घस्यैको भागो ममैको भागस्तव. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001893
Book TitleSatyaharishchandranatakam
Original Sutra AuthorRamchandrasuri
AuthorBhaskar Ramchandra Arte, Vishnu Shankar Pauranik
PublisherTukaram Jawaji Mumbai
Publication Year1898
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy