SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः (ततः प्रविशति सिंहलकेन निर्दिश्यमानमार्गोऽमात्यः सत्यवसुः । शुकपंजर - हस्तः पुरुषश्च ) सत्यवसुः - सिंहलक किमद्य प्रभात एवास्मानाकारयति देवः । सिंहलकः – किमपि पर्यालोचयितुम् । - । सत्यवसुः - अरे पुरुष व भवानेवं विहंगराजमाप्तवान् । पुरुषः- चंपापुरीवणे एस एगागी पढतो मए सुणिदो । तदो धरीय चंदसेहरणिमित्तमाणिदो | सत्यवसुः - सिंहलक व सांप्रतं देवः । सिंहलक: - एष पुरः सौधोपवने । (ततः प्रविशति राजा चंद्रशेखरः । सुनंदप्रभृतिश्च परिवारः ) राजा - सुनंद पूर्वं मांत्रिकः क्कासीत् । सुनंदः -- देव पूर्वमुज्जयन्यामासीत् । सांप्रतं पुनरिहायातः । सत्यवसुः -- ( पुरुषं प्रति) यावदहं भवंतमाकारयामि तावत्त्वयात्रैव स्थातव्यम् । सिंहलक :- ( उपसृत्य ) देव अमात्यः प्रणमति । (सत्यवसुः प्रणम्योपविशति ) राजा - (सकरुणमिव ) अमात्य पौराः कर्मसु धार्मिकेषु निरता वर्णाश्रमाः श्रेयसीं तन्वंति स्थितिमुज्ज्वलैौजसि वयं वर्तामहे वर्त्मनि । संहारं प्रतिमंदिरं प्रतिपथं प्रत्यापणं कुर्वती सेयं मारिरुपस्थिता तनुमतां कस्मादकस्मात्पुरि ॥ १ ॥ प्रतीहारः -- ( प्रविश्य) देव लंबस्तनी कुट्टिनी द्वारि वर्तते । सत्यवसुः - (सरोषमिव ) अनवसर इदानीं परप्रवेशस्य । (नेपथ्ये) हा सव्वंगसुंदर हा पुत्ति अणंगलेहे कहं तुह वयणं मंदभाइणी पुणोवि पेक्खिस्सं । १ चंपापुरीवन एष एकाकी पठन् मया श्रुतः । ततो धृत्वा चंद्रशेखरनिमित्तमानीतः. २ हा सर्वागसुंदरि हा पुत्रि अनंगलेखे कथं तव वदनं मंदभागिनी पुनरपि द्रक्ष्यामि . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001893
Book TitleSatyaharishchandranatakam
Original Sutra AuthorRamchandrasuri
AuthorBhaskar Ramchandra Arte, Vishnu Shankar Pauranik
PublisherTukaram Jawaji Mumbai
Publication Year1898
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy