SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽङ्कः । (विलोक्य) किमिदं सर्वमप्यपरं प्रतिभासते । चंद्रचूड:-महासत्त्वचूडामणे कृतममुना विस्मयेन । अस्म न्कृतेयं कूटनाटकघटना। आखेटा मुनिकन्यका कुलपतिः कीरः शृगालोऽध्वगा विप्रो म्लेच्छपतिर्मनुष्यमरणं लंबस्तनी मांत्रिकः । उद्दद्धः पुरुषो वियच्चरवधूोमायुनादः फणी सर्व सत्त्वपरीक्षणैकरसिकैरस्माभिरेतत्कृतम् ॥ १३ ॥ (हरिश्चंद्रः सव्रीडमधोमुखस्तिष्ठति) कुंदप्रभः-महासत्त्वावतंस सीमानं न विलंघयंति पतयो यत्पाथसां दिग्गजाः क्ष्मापीठं दधते कुलक्षितिभृतः शेषश्च कूर्मश्च यत् । विश्वस्यास्य विलोचने तिरयतो यत्पुष्पवंतौ तम__ स्तस्मिन् मध्यमलोकपाल भवतः सत्त्वं परं कारणम् ॥१४॥ चंद्रचूड:त्वं पुण्यः सुकृती त्वमेव भवतः श्लाघ्योऽवतारः क्षितौ __शृंगारस्तव सात्त्विकेषु जननी ते वीरवीरप्रसूः । रोमांचं कुरु पक्ष्मलः प्रतिमुहुर्बाष्पोर्मिमूर्छालवाक् __सत्त्वं यस्य तवान्वहं स्पृहयति श्रीमान् स्वयं स्वःपतिः॥१५॥ हरिश्चंद्रः--भगवान् मघवानस्मादृशां मनुजकीटानां सत्त्वाय स्पृहयतीति महच्चित्रम् । चंद्रचूड:-महासत्त्व स्मरति भवान् यदेकदा शक्रावतारनिवासिनो भगवतः श्रीनाभिनंदनस्य जिनस्य सपर्या विधानार्थमागतवते सत्त्वपरीक्षणोत्सुकाय मघवते स्वमूर्धानमुपनेतुमुपस्थितवानसि। हरिश्चंद्रः-स्मरामि ।। चंद्रचूड:-ततः प्रभृति परमेश्वरो जंभारिर्भवत्सत्त्वोत्कर्षविमतमनाः सततमास्ते । कुंदप्रभः सत्त्वेषु सात्त्विकशिरोमणिषु प्रधानं त्रैशंकवात् क्षितिपतेरपरो न कश्चित् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001893
Book TitleSatyaharishchandranatakam
Original Sutra AuthorRamchandrasuri
AuthorBhaskar Ramchandra Arte, Vishnu Shankar Pauranik
PublisherTukaram Jawaji Mumbai
Publication Year1898
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy